001 सञ्जय उवाच 001a युध्यतामेव तेषां तु भास्करेऽस्तमुपागते 001c सन्ध्या समभवद्घोरा नापश्याम ततो रणम् 002a ततो युधिष्ठिरो राजा सन्ध्यां सन्दृश्य भारत 002c वध्यमानं बलं चापि भीष्मेणामित्रघातिना 003a मुक्तशस्त्रं परावृत्तं पलायनपरायणम् 003c भीष्मं च युधि संरब्धमनुयान्तं महारथान् 004a सोमकांश्च जितान्दृष्ट्वा निरुत्साहान्महारथान् 004c चिन्तयित्वा चिरं ध्यात्वा अवहारमरोचयत् 005a ततोऽवहारं सैन्यानां चक्रे राजा युधिष्ठिरः 005c तथैव तव सैन्यानामवहारो ह्यभूत्तदा 006a ततोऽवहारं सैन्यानां कृत्वा तत्र महारथाः 006c न्यविशन्त कुरुश्रेष्ठ सङ्ग्रामे क्षतविक्षताः 007a भीष्मस्य समरे कर्म चिन्तयानास्तु पाण्डवाः 007c नालभन्त तदा शान्तिं भृशं भीष्मेण पीडिताः 008a भीष्मोऽपि समरे जित्वा पाण्डवान्सह सृञ्जयैः 008c पूज्यमानस्तव सुतैर्वन्द्यमानश्च भारत 009a न्यविशत्कुरुभिः सार्धं हृष्टरूपैः समन्ततः 009c ततो रात्रिः समभवत्सर्वभूतप्रमोहिनी 010a तस्मिन्रात्रिमुखे घोरे पाण्डवा वृष्णिभिः सह 010c सृञ्जयाश्च दुराधर्षा मन्त्राय समुपाविशन् 011a आत्मनिःश्रेयसं सर्वे प्राप्तकालं महाबलाः 011c मन्त्रयामासुरव्यग्रा मन्त्रनिश्चयकोविदाः 012a ततो युधिष्ठिरो राजा मन्त्रयित्वा चिरं नृप 012c वासुदेवं समुद्वीक्ष्य वाक्यमेतदुवाच ह 013a पश्य कृष्ण महात्मानं भीष्मं भीमपराक्रमम् 013c गजं नलवनानीव विमृद्नन्तं बलं मम 014a न चैवैनं महात्मानमुत्सहामो निरीक्षितुम् 014c लेलिह्यमानं सैन्येषु प्रवृद्धमिव पावकम् 015a यथा घोरो महानागस्तक्षको वै विषोल्बणः 015c तथा भीष्मो रणे कृष्ण तीक्ष्णशस्त्रः प्रतापवान् 016a गृहीतचापः समरे विमुञ्चंश्च शिताञ्शरान् 016c शक्यो जेतुं यमः क्रुद्धो वज्रपाणिश्च देवराट् 017a वरुणः पाशभृद्वापि सगदो वा धनेश्वरः 017c न तु भीष्मः सुसङ्क्रुद्धः शक्यो जेतुं महाहवे 018a सोऽहमेवं गते कृष्ण निमग्नः शोकसागरे 018c आत्मनो बुद्धिदौर्बल्याद्भीष्ममासाद्य संयुगे 019a वनं यास्यामि दुर्धर्ष श्रेयो मे तत्र वै गतम् 019c न युद्धं रोचये कृष्ण हन्ति भीष्मो हि नः सदा 020a यथा प्रज्वलितं वह्निं पतङ्गः समभिद्रवन् 020c एकतो मृत्युमभ्येति तथाहं भीष्ममीयिवान् 021a क्षयं नीतोऽस्मि वार्ष्णेय राज्यहेतोः पराक्रमी 021c भ्रातरश्चैव मे शूराः सायकैर्भृशपीडिताः 022a मत्कृते भ्रातृसौहार्दाद्राज्यात्प्रभ्रंशनं गताः 022c परिक्लिष्टा तथा कृष्णा मत्कृते मधुसूदन 023a जीवितं बहु मन्येऽहं जीवितं ह्यद्य दुर्लभम् 023c जीवितस्याद्य शेषेण चरिष्ये धर्ममुत्तमम् 024a यदि तेऽहमनुग्राह्यो भ्रातृभिः सह केशव 024c स्वधर्मस्याविरोधेन तदुदाहर केशव 025a एतच्छ्रुत्वा वचस्तस्य कारुण्याद्बहुविस्तरम् 025c प्रत्युवाच ततः कृष्णः सान्त्वयानो युधिष्ठिरम् 026a धर्मपुत्र विषादं त्वं मा कृथाः सत्यसङ्गर 026c यस्य ते भ्रातरः शूरा दुर्जयाः शत्रुसूदनाः 027a अर्जुनो भीमसेनश्च वाय्वग्निसमतेजसौ 027c माद्रीपुत्रौ च विक्रान्तौ त्रिदशानामिवेश्वरौ 028a मां वा नियुङ्क्ष्व सौहार्दाद्योत्स्ये भीष्मेण पाण्डव 028c त्वत्प्रयुक्तो ह्यहं राजन्किं न कुर्यां महाहवे 029a हनिष्यामि रणे भीष्ममाहूय पुरुषर्षभम् 029c पश्यतां धार्तराष्ट्राणां यदि नेच्छति फल्गुनः 030a यदि भीष्मे हते राजञ्जयं पश्यसि पाण्डव 030c हन्तास्म्येकरथेनाद्य कुरुवृद्धं पितामहम् 031a पश्य मे विक्रमं राजन्महेन्द्रस्येव संयुगे 031c विमुञ्चन्तं महास्त्राणि पातयिष्यामि तं रथात् 032a यः शत्रुः पाण्डुपुत्राणां मच्छत्रुः स न संशयः 032c मदर्था भवदर्था ये ये मदीयास्तवैव ते 033a तव भ्राता मम सखा सम्बन्धी शिष्य एव च 033c मांसान्युत्कृत्य वै दद्यामर्जुनार्थे महीपते 034a एष चापि नरव्याघ्रो मत्कृते जीवितं त्यजेत् 034c एष नः समयस्तात तारयेम परस्परम् 034e स मां नियुङ्क्ष्व राजेन्द्र यावद्द्वीपो भवाम्यहम् 035a प्रतिज्ञातमुपप्लव्ये यत्तत्पार्थेन पूर्वतः 035c घातयिष्यामि गाङ्गेयमित्युलूकस्य सन्निधौ 036a परिरक्ष्यं च मम तद्वचः पार्थस्य धीमतः 036c अनुज्ञातं तु पार्थेन मया कार्यं न संशयः 037a अथ वा फल्गुनस्यैष भारः परिमितो रणे 037c निहनिष्यति सङ्ग्रामे भीष्मं परपुरञ्जयम् 038a अशक्यमपि कुर्याद्धि रणे पार्थः समुद्यतः 038c त्रिदशान्वा समुद्युक्तान्सहितान्दैत्यदानवैः 038e निहन्यादर्जुनः सङ्ख्ये किमु भीष्मं नराधिप 039a विपरीतो महावीर्यो गतसत्त्वोऽल्पजीवितः 039c भीष्मः शान्तनवो नूनं कर्तव्यं नावबुध्यते 040 युधिष्ठिर उवाच 040a एवमेतन्महाबाहो यथा वदसि माधव 040c सर्वे ह्येते न पर्याप्तास्तव वेगनिवारणे 041a नियतं समवाप्स्यामि सर्वमेव यथेप्सितम् 041c यस्य मे पुरुषव्याघ्र भवान्नाथो महाबलः 042a सेन्द्रानपि रणे देवाञ्जयेयं जयतां वर 042c त्वया नाथेन गोविन्द किमु भीष्मं महाहवे 043a न तु त्वामनृतं कर्तुमुत्सहे स्वार्थगौरवात् 043c अयुध्यमानः साहाय्यं यथोक्तं कुरु माधव 044a समयस्तु कृतः कश्चिद्भीष्मेण मम माधव 044c मन्त्रयिष्ये तवार्थाय न तु योत्स्ये कथञ्चन 044e दुर्योधनार्थे योत्स्यामि सत्यमेतदिति प्रभो 045a स हि राज्यस्य मे दाता मन्त्रस्यैव च माधव 045c तस्माद्देवव्रतं भूयो वधोपायार्थमात्मनः 045e भवता सहिताः सर्वे पृच्छामो मधुसूदन 046a तद्वयं सहिता गत्वा भीष्ममाशु नरोत्तमम् 046c रुचिते तव वार्ष्णेय मन्त्रं पृच्छाम कौरवम् 047a स वक्ष्यति हितं वाक्यं तथ्यं चैव जनार्दन 047c यथा स वक्ष्यते कृष्ण तथा कर्तास्मि संयुगे 048a स नो जयस्य दाता च मन्त्रस्य च धृतव्रतः 048c बालाः पित्रा विहीनाश्च तेन संवर्धिता वयम् 049a तं चेत्पितामहं वृद्धं हन्तुमिच्छामि माधव 049c पितुः पितरमिष्टं वै धिगस्तु क्षत्रजीविकाम् 050 सञ्जय उवाच 050a ततोऽब्रवीन्महाराज वार्ष्णेयः कुरुनन्दनम् 050c रोचते मे महाबाहो सततं तव भाषितम् 051a देवव्रतः कृती भीष्मः प्रेक्षितेनापि निर्दहेत् 051c गम्यतां स वधोपायं प्रष्टुं सागरगासुतः 051e वक्तुमर्हति सत्यं स त्वया पृष्टो विशेषतः 052a ते वयं तत्र गच्छामः प्रष्टुं कुरुपितामहम् 052c प्रणम्य शिरसा चैनं मन्त्रं पृच्छाम माधव 052e स नो दास्यति यं मन्त्रं तेन योत्स्यामहे परान् 053a एवं सम्मन्त्र्य वै वीराः पाण्डवाः पाण्डुपूर्वज 053c जग्मुस्ते सहिताः सर्वे वासुदेवश्च वीर्यवान् 053e विमुक्तशस्त्रकवचा भीष्मस्य सदनं प्रति 054a प्रविश्य च तदा भीष्मं शिरोभिः प्रतिपेदिरे 054c पूजयन्तो महाराज पाण्डवा भरतर्षभ 054e प्रणम्य शिरसा चैनं भीष्मं शरणमन्वयुः 055a तानुवाच महाबाहुर्भीष्मः कुरुपितामहः 055c स्वागतं तव वार्ष्णेय स्वागतं ते धनञ्जय 055e स्वागतं धर्मपुत्राय भीमाय यमयोस्तथा 056a किं कार्यं वः करोम्यद्य युष्मत्प्रीतिविवर्धनम् 056c सर्वात्मना च कर्तास्मि यद्यपि स्यात्सुदुष्करम् 057a तथा ब्रुवाणं गाङ्गेयं प्रीतियुक्तं पुनः पुनः 057c उवाच वाक्यं दीनात्मा धर्मपुत्रो युधिष्ठिरः 058a कथं जयेम धर्मज्ञ कथं राज्यं लभेमहि 058c प्रजानां सङ्क्षयो न स्यात्कथं तन्मे वदाभिभो 059a भवान्हि नो वधोपायं ब्रवीतु स्वयमात्मनः 059c भवन्तं समरे राजन्विषहेम कथं वयम् 060a न हि ते सूक्ष्ममप्यस्ति रन्ध्रं कुरुपितामह 060c मण्डलेनैव धनुषा सदा दृश्योऽसि संयुगे 061a नाददानं सन्दधानं विकर्षन्तं धनुर्न च 061c पश्यामस्त्वा महाबाहो रथे सूर्यमिव स्थितम् 062a नराश्वरथनागानां हन्तारं परवीरहन् 062c क इवोत्सहते हन्तुं त्वां पुमान्भरतर्षभ 063a वर्षता शरवर्षाणि महान्ति पुरुषोत्तम 063c क्षयं नीता हि पृतना भवता महती मम 064a यथा युधि जयेयं त्वां यथा राज्यं भवेन्मम 064c भवेत्सैन्यस्य वा शान्तिस्तन्मे ब्रूहि पितामह 065a ततोऽब्रवीच्छान्तनवः पाण्डवान्पाण्डुपूर्वज 065c न कथञ्चन कौन्तेय मयि जीवति संयुगे 065e युष्मासु दृश्यते वृद्धिः सत्यमेतद्ब्रवीमि वः 066a निर्जिते मयि युद्धे तु ध्रुवं जेष्यथ कौरवान् 066c क्षिप्रं मयि प्रहरत यदीच्छथ रणे जयम् 066e अनुजानामि वः पार्थाः प्रहरध्वं यथासुखम् 067a एवं हि सुकृतं मन्ये भवतां विदितो ह्यहम् 067c हते मयि हतं सर्वं तस्मादेवं विधीयताम् 068 युधिष्ठिर उवाच 068a ब्रूहि तस्मादुपायं नो यथा युद्धे जयेमहि 068c भवन्तं समरे क्रुद्धं दण्डपाणिमिवान्तकम् 069a शक्यो वज्रधरो जेतुं वरुणोऽथ यमस्तथा 069c न भवान्समरे शक्यः सेन्द्रैरपि सुरासुरैः 070 भीष्म उवाच 070a सत्यमेतन्महाबाहो यथा वदसि पाण्डव 070c नाहं शक्यो रणे जेतुं सेन्द्रैरपि सुरासुरैः 071a आत्तशस्त्रो रणे यत्तो गृहीतवरकार्मुकः 071c न्यस्तशस्त्रं तु मां राजन्हन्युर्युधि महारथाः 072a निक्षिप्तशस्त्रे पतिते विमुक्तकवचध्वजे 072c द्रवमाणे च भीते च तवास्मीति च वादिनि 073a स्त्रियां स्त्रीनामधेये च विकले चैकपुत्रके 073c अप्रसूते च दुष्प्रेक्ष्ये न युद्धं रोचते मम 074a इमं च शृणु मे पार्थ सङ्कल्पं पूर्वचिन्तितम् 074c अमङ्गल्यध्वजं दृष्ट्वा न युध्येयं कथञ्चन 075a य एष द्रौपदो राजंस्तव सैन्ये महारथः 075c शिखण्डी समराकाङ्क्षी शूरश्च समितिञ्जयः 076a यथाभवच्च स्त्री पूर्वं पश्चात्पुंस्त्वमुपागतः 076c जानन्ति च भवन्तोऽपि सर्वमेतद्यथातथम् 077a अर्जुनः समरे शूरः पुरस्कृत्य शिखण्डिनम् 077c मामेव विशिखैस्तूर्णमभिद्रवतु दंशितः 078a अमङ्गल्यध्वजे तस्मिन्स्त्रीपूर्वे च विशेषतः 078c न प्रहर्तुमभीप्सामि गृहीतेषुं कथञ्चन 079a तदन्तरं समासाद्य पाण्डवो मां धनञ्जयः 079c शरैर्घातयतु क्षिप्रं समन्ताद्भरतर्षभ 080a न तं पश्यामि लोकेषु यो मां हन्यात्समुद्यतम् 080c ऋते कृष्णान्महाभागात्पाण्डवाद्वा धनञ्जयात् 081a एष तस्मात्पुरोधाय कञ्चिदन्यं ममाग्रतः 081c मां पातयतु बीभत्सुरेवं ते विजयो भवेत् 082a एतत्कुरुष्व कौन्तेय यथोक्तं वचनं मम 082c ततो जेष्यसि सङ्ग्रामे धार्तराष्ट्रान्समागतान् 083 सञ्जय उवाच 083a तेऽनुज्ञातास्ततः पार्था जग्मुः स्वशिबिरं प्रति 083c अभिवाद्य महात्मानं भीष्मं कुरुपितामहम् 084a तथोक्तवति गाङ्गेये परलोकाय दीक्षिते 084c अर्जुनो दुःखसन्तप्तः सव्रीडमिदमब्रवीत् 085a गुरुणा कुलवृद्धेन कृतप्रज्ञेन धीमता 085c पितामहेन सङ्ग्रामे कथं योत्स्यामि माधव 086a क्रीडता हि मया बाल्ये वासुदेव महामनाः 086c पांसुरूषितगात्रेण महात्मा परुषीकृतः 087a यस्याहमधिरुह्याङ्कं बालः किल गदाग्रज 087c तातेत्यवोचं पितरं पितुः पाण्डोर्महात्मनः 088a नाहं तातस्तव पितुस्तातोऽस्मि तव भारत 088c इति मामब्रवीद्बाल्ये यः स वध्यः कथं मया 089a कामं वध्यतु मे सैन्यं नाहं योत्स्ये महात्मना 089c जयो वास्तु वधो वा मे कथं वा कृष्ण मन्यसे 090 श्रीकृष्ण उवाच 090a प्रतिज्ञाय वधं जिष्णो पुरा भीष्मस्य संयुगे 090c क्षत्रधर्मे स्थितः पार्थ कथं नैनं हनिष्यसि 091a पातयैनं रथात्पार्थ वज्राहतमिव द्रुमम् 091c नाहत्वा युधि गाङ्गेयं विजयस्ते भविष्यति 092a दिष्टमेतत्पुरा देवैर्भविष्यत्यवशस्य ते 092c हन्ता भीष्मस्य पूर्वेन्द्र इति तन्न तदन्यथा 093a न हि भीष्मं दुराधर्षं व्यात्ताननमिवान्तकम् 093c त्वदन्यः शक्नुयाद्धन्तुमपि वज्रधरः स्वयम् 094a जहि भीष्मं महाबाहो शृणु चेदं वचो मम 094c यथोवाच पुरा शक्रं महाबुद्धिर्बृहस्पतिः 095a ज्यायांसमपि चेच्छक्र गुणैरपि समन्वितम् 095c आततायिनमामन्त्र्य हन्याद्घातकमागतम् 096a शाश्वतोऽयं स्थितो धर्मः क्षत्रियाणां धनञ्जय 096c योद्धव्यं रक्षितव्यं च यष्टव्यं चानसूयुभिः 097 अर्जुन उवाच 097a शिखण्डी निधनं कृष्ण भीष्मस्य भविता ध्रुवम् 097c दृष्ट्वैव हि सदा भीष्मः पाञ्चाल्यं विनिवर्तते 098a ते वयं प्रमुखे तस्य स्थापयित्वा शिखण्डिनम् 098c गाङ्गेयं पातयिष्याम उपायेनेति मे मतिः 099a अहमन्यान्महेष्वासान्वारयिष्यामि सायकैः 099c शिखण्ड्यपि युधां श्रेष्ठो भीष्ममेवाभियास्यतु 100a श्रुतं ते कुरुमुख्यस्य नाहं हन्यां शिखण्डिनम् 100c कन्या ह्येषा पुरा जाता पुरुषः समपद्यत 101 सञ्जय उवाच 101a इत्येवं निश्चयं कृत्वा पाण्डवाः सहमाधवाः 101c शयनानि यथास्वानि भेजिरे पुरुषर्षभाः