001 सञ्जय उवाच 001a ततः पिता तव क्रुद्धो निशितैः सायकोत्तमैः 001c आजघान रणे पार्थान्सहसेनान्समन्ततः 002a भीमं द्वादशभिर्विद्ध्वा सात्यकिं नवभिः शरैः 002c नकुलं च त्रिभिर्बाणैः सहदेवं च सप्तभिः 003a युधिष्ठिरं द्वादशभिर्बाह्वोरुरसि चार्पयत् 003c धृष्टद्युम्नं ततो विद्ध्वा विननाद महाबलः 004a तं द्वादशार्धैर्नकुलो माधवश्च त्रिभिः शरैः 004c धृष्टद्युम्नश्च सप्तत्या भीमसेनश्च पञ्चभिः 004e युधिष्ठिरो द्वादशभिः प्रत्यविध्यत्पितामहम् 005a द्रोणस्तु सात्यकिं विद्ध्वा भीमसेनमविध्यत 005c एकैकं पञ्चभिर्बाणैर्यमदण्डोपमैः शितैः 006a तौ च तं प्रत्यविध्येतां त्रिभिस्त्रिभिरजिह्मगैः 006c तोत्त्रैरिव महानागं द्रोणं ब्राह्मणपुङ्गवम् 007a सौवीराः कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः 007c अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः 007e सङ्ग्रामे नाजहुर्भीष्मं वध्यमानाः शितैः शरैः 008a तथैवान्ये वध्यमानाः पाण्डवेयैर्महात्मभिः 008c पाण्डवानभ्यवर्तन्त विविधायुधपाणयः 008e तथैव पाण्डवा राजन्परिवव्रुः पितामहम् 009a स समन्तात्परिवृतो रथौघैरपराजितः 009c गहनेऽग्निरिवोत्सृष्टः प्रजज्वाल दहन्परान् 010a रथाग्न्यगारश्चापार्चिरसिशक्तिगदेन्धनः 010c शरस्फुलिङ्गो भीष्माग्निर्ददाह क्षत्रियर्षभान् 011a सुवर्णपुङ्खैरिषुभिर्गार्ध्रपक्षैः सुतेजनैः 011c कर्णिनालीकनाराचैश्छादयामास तद्बलम् 012a अपातयद्ध्वजांश्चैव रथिनश्च शितैः शरैः 012c मुण्डतालवनानीव चकार स रथव्रजान् 013a निर्मनुष्यान्रथान्राजन्गजानश्वांश्च संयुगे 013c अकरोत्स महाबाहुः सर्वशस्त्रभृतां वरः 014a तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः 014c निशम्य सर्वभूतानि समकम्पन्त भारत 015a अमोघा ह्यपतन्बाणाः पितुस्ते भरतर्षभ 015c नासज्जन्त तनुत्रेषु भीष्मचापच्युताः शराः 016a हतवीरान्रथान्राजन्संयुक्ताञ्जवनैर्हयैः 016c अपश्याम महाराज ह्रियमाणान्रणाजिरे 017a चेदिकाशिकरूषाणां सहस्राणि चतुर्दश 017c महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः 017e अपरावर्तिनः सर्वे सुवर्णविकृतध्वजाः 018a सङ्ग्रामे भीष्ममासाद्य व्यादितास्यमिवान्तकम् 018c निमग्नाः परलोकाय सवाजिरथकुञ्जराः 019a भग्नाक्षोपस्करान्कांश्चिद्भग्नचक्रांश्च सर्वशः 019c अपश्याम रथान्राजञ्शतशोऽथ सहस्रशः 020a सवरूथै रथैर्भग्नै रथिभिश्च निपातितैः 020c शरैः सुकवचैश्छिन्नैः पट्टिशैश्च विशाम्पते 021a गदाभिर्मुसलैश्चैव निस्त्रिंशैश्च शिलीमुखैः 021c अनुकर्षैरुपासङ्गैश्चक्रैर्भग्नैश्च मारिष 022a बाहुभिः कार्मुकैः खड्गैः शिरोभिश्च सकुण्डलैः 022c तलत्रैरङ्गुलित्रैश्च ध्वजैश्च विनिपातितैः 022e चापैश्च बहुधा छिन्नैः समास्तीर्यत मेदिनी 023a हतारोहा गजा राजन्हयाश्च हतसादिनः 023c परिपेतुर्द्रुतं तत्र शतशोऽथ सहस्रशः 024a यतमानाश्च ते वीरा द्रवमाणान्महारथान् 024c नाशक्नुवन्वारयितुं भीष्मबाणप्रपीडितान् 025a महेन्द्रसमवीर्येण वध्यमाना महाचमूः 025c अभज्यत महाराज न च द्वौ सह धावतः 026a आविद्धरथनागाश्वं पतितध्वजकूबरम् 026c अनीकं पाण्डुपुत्राणां हाहाभूतमचेतनम् 027a जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा 027c प्रियं सखायं चाक्रन्दे सखा दैवबलात्कृतः 028a विमुच्य कवचानन्ये पाण्डुपुत्रस्य सैनिकाः 028c प्रकीर्य केशान्धावन्तः प्रत्यदृश्यन्त भारत 029a तद्गोकुलमिवोद्भ्रान्तमुद्भ्रान्तरथकुञ्जरम् 029c ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा 030a प्रभज्यमानं सैन्यं तु दृष्ट्वा यादवनन्दनः 030c उवाच पार्थं बीभत्सुं निगृह्य रथमुत्तमम् 031a अयं स कालः सम्प्राप्तः पार्थ यः काङ्क्षितस्तव 031c प्रहरास्मै नरव्याघ्र न चेन्मोहात्प्रमुह्यसे 032a यत्पुरा कथितं वीर त्वया राज्ञां समागमे 032c विराटनगरे पार्थ सञ्जयस्य समीपतः 033a भीष्मद्रोणमुखान्सर्वान्धार्तराष्ट्रस्य सैनिकान् 033c सानुबन्धान्हनिष्यामि ये मां योत्स्यन्ति संयुगे 034a इति तत्कुरु कौन्तेय सत्यं वाक्यमरिन्दम 034c क्षत्रधर्ममनुस्मृत्य युध्यस्व भरतर्षभ 035a इत्युक्तो वासुदेवेन तिर्यग्दृष्टिरधोमुखः 035c अकाम इव बीभत्सुरिदं वचनमब्रवीत् 036a अवध्यानां वधं कृत्वा राज्यं वा नरकोत्तरम् 036c दुःखानि वनवासे वा किं नु मे सुकृतं भवेत् 037a चोदयाश्वान्यतो भीष्मः करिष्ये वचनं तव 037c पातयिष्यामि दुर्धर्षं वृद्धं कुरुपितामहम् 038a ततोऽश्वान्रजतप्रख्यांश्चोदयामास माधवः 038c यतो भीष्मस्ततो राजन्दुष्प्रेक्ष्यो रश्मिवानिव 039a ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत् 039c दृष्ट्वा पार्थं महाबाहुं भीष्मायोद्यन्तमाहवे 040a ततो भीष्मः कुरुश्रेष्ठः सिंहवद्विनदन्मुहुः 040c धनञ्जयरथं शीघ्रं शरवर्षैरवाकिरत् 041a क्षणेन स रथस्तस्य सहयः सहसारथिः 041c शरवर्षेण महता न प्राज्ञायत किञ्चन 042a वासुदेवस्त्वसम्भ्रान्तो धैर्यमास्थाय सात्वतः 042c चोदयामास तानश्वान्वितुन्नान्भीष्मसायकैः 043a ततः पार्थो धनुर्गृह्य दिव्यं जलदनिस्वनम् 043c पातयामास भीष्मस्य धनुश्छित्त्वा शितैः शरैः 044a स च्छिन्नधन्वा कौरव्यः पुनरन्यन्महद्धनुः 044c निमेषान्तरमात्रेण सज्यं चक्रे पिता तव 045a विचकर्ष ततो दोर्भ्यां धनुर्जलदनिस्वनम् 045c अथास्य तदपि क्रुद्धश्चिच्छेद धनुरर्जुनः 046a तस्य तत्पूजयामास लाघवं शन्तनोः सुतः 046c साधु पार्थ महाबाहो साधु कुन्तीसुतेति च 047a समाभाष्यैनमपरं प्रगृह्य रुचिरं धनुः 047c मुमोच समरे भीष्मः शरान्पार्थरथं प्रति 048a अदर्शयद्वासुदेवो हययाने परं बलम् 048c मोघान्कुर्वञ्शरांस्तस्य मण्डलानि विदर्शयन् 049a शुशुभाते नरव्याघ्रौ भीष्मपार्थौ शरक्षतौ 049c गोवृषाविव संरब्धौ विषाणोल्लिखिताङ्कितौ 050a वासुदेवस्तु सम्प्रेक्ष्य पार्थस्य मृदुयुद्धताम् 050c भीष्मं च शरवर्षाणि सृजन्तमनिशं युधि 051a प्रतपन्तमिवादित्यं मध्यमासाद्य सेनयोः 051c वरान्वरान्विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान् 052a युगान्तमिव कुर्वाणं भीष्मं यौधिष्ठिरे बले 052c नामृष्यत महाबाहुर्माधवः परवीरहा 053a उत्सृज्य रजतप्रख्यान्हयान्पार्थस्य मारिष 053c क्रुद्धो नाम महायोगी प्रचस्कन्द महारथात् 053e अभिदुद्राव भीष्मं स भुजप्रहरणो बली 054a प्रतोदपाणिस्तेजस्वी सिंहवद्विनदन्मुहुः 054c दारयन्निव पद्भ्यां स जगतीं जगतीश्वरः 055a क्रोधताम्रेक्षणः कृष्णो जिघांसुरमितद्युतिः 055c ग्रसन्निव च चेतांसि तावकानां महाहवे 056a दृष्ट्वा माधवमाक्रन्दे भीष्मायोद्यन्तमाहवे 056c हतो भीष्मो हतो भीष्म इति तत्र स्म सैनिकाः 056e क्रोशन्तः प्राद्रवन्सर्वे वासुदेवभयान्नराः 057a पीतकौशेयसंवीतो मणिश्यामो जनार्दनः 057c शुशुभे विद्रवन्भीष्मं विद्युन्माली यथाम्बुदः 058a स सिंह इव मातङ्गं यूथर्षभ इवर्षभम् 058c अभिदुद्राव तेजस्वी विनदन्यादवर्षभः 059a तमापतन्तं सम्प्रेक्ष्य पुण्डरीकाक्षमाहवे 059c असम्भ्रमं रणे भीष्मो विचकर्ष महद्धनुः 059e उवाच चैनं गोविन्दमसम्भ्रान्तेन चेतसा 060a एह्येहि पुण्डरीकाक्ष देवदेव नमोऽस्तु ते 060c मामद्य सात्वतश्रेष्ठ पातयस्व महाहवे 061a त्वया हि देव सङ्ग्रामे हतस्यापि ममानघ 061c श्रेय एव परं कृष्ण लोकेऽमुष्मिन्निहैव च 061e सम्भावितोऽस्मि गोविन्द त्रैलोक्येनाद्य संयुगे 062a अन्वगेव ततः पार्थस्तमनुद्रुत्य केशवम् 062c निजग्राह महाबाहुर्बाहुभ्यां परिगृह्य वै 063a निगृह्यमाणः पार्थेन कृष्णो राजीवलोचनः 063c जगाम चैनमादाय वेगेन पुरुषोत्तमः 064a पार्थस्तु विष्टभ्य बलाच्चरणौ परवीरहा 064c निजघ्राह हृषीकेशं कथञ्चिद्दशमे पदे 065a तत एनमुवाचार्तः क्रोधपर्याकुलेक्षणम् 065c निःश्वसन्तं यथा नागमर्जुनः परवीरहा 066a निवर्तस्व महाबाहो नानृतं कर्तुमर्हसि 066c यत्त्वया कथितं पूर्वं न योत्स्यामीति केशव 067a मिथ्यावादीति लोकस्त्वां कथयिष्यति माधव 067c ममैष भारः सर्वो हि हनिष्यामि यतव्रतम् 068a शपे माधव सख्येन सत्येन सुकृतेन च 068c अन्तं यथा गमिष्यामि शत्रूणां शत्रुकर्शन 069a अद्यैव पश्य दुर्धर्षं पात्यमानं महाव्रतम् 069c तारापतिमिवापूर्णमन्तकाले यदृच्छया 070a माधवस्तु वचः श्रुत्वा फल्गुनस्य महात्मनः 070c नकिञ्चिदुक्त्वा सक्रोध आरुरोह रथं पुनः 071a तौ रथस्थौ नरव्याघ्रौ भीष्मः शान्तनवः पुनः 071c ववर्ष शरवर्षेण मेघो वृष्ट्या यथाचलौ 072a प्राणांश्चादत्त योधानां पिता देवव्रतस्तव 072c गभस्तिभिरिवादित्यस्तेजांसि शिशिरात्यये 073a यथा कुरूणां सैन्यानि बभञ्ज युधि पाण्डवः 073c तथा पाण्डवसैन्यानि बभञ्ज युधि ते पिता 074a हतविद्रुतसैन्यास्तु निरुत्साहा विचेतसः 074c निरीक्षितुं न शेकुस्ते भीष्ममप्रतिमं रणे 074e मध्यं गतमिवादित्यं प्रतपन्तं स्वतेजसा 075a ते वध्यमाना भीष्मेण कालेनेव युगक्षये 075c वीक्षां चक्रुर्महाराज पाण्डवा भयपीडिताः 076a त्रातारं नाध्यगच्छन्त गावः पङ्कगता इव 076c पिपीलिका इव क्षुण्णा दुर्बला बलिना रणे 077a महारथं भारत दुष्प्रधर्षं; शरौघिणं प्रतपन्तं नरेन्द्रान् 077c भीष्मं न शेकुः प्रतिवीक्षितुं ते; शरार्चिषं सूर्यमिवातपन्तम् 078a विमृद्नतस्तस्य तु पाण्डुसेना;मस्तं जगामाथ सहस्ररश्मिः 078c ततो बलानां श्रमकर्शितानां; मनोऽवहारं प्रति सम्बभूव