001 सञ्जय उवाच 001a दृष्ट्वा भीष्मं रणे क्रुद्धं पाण्डवैरभिसंवृतम् 001c यथा मेघैर्महाराज तपान्ते दिवि भास्करम् 002a दुर्योधनो महाराज दुःशासनमभाषत 002c एष शूरो महेष्वासो भीष्मः शत्रुनिषूदनः 003a छादितः पाण्डवैः शूरैः समन्ताद्भरतर्षभ 003c तस्य कार्यं त्वया वीर रक्षणं सुमहात्मनः 004a रक्ष्यमाणो हि समरे भीष्मोऽस्माकं पितामहः 004c निहन्यात्समरे यत्तान्पाञ्चालान्पाण्डवैः सह 005a तत्र कार्यमहं मन्ये भीष्मस्यैवाभिरक्षणम् 005c गोप्ता ह्येष महेष्वासो भीष्मोऽस्माकं पितामहः 006a स भवान्सर्वसैन्येन परिवार्य पितामहम् 006c समरे दुष्करं कर्म कुर्वाणं परिरक्षतु 007a एवमुक्तस्तु समरे पुत्रो दुःशासनस्तव 007c परिवार्य स्थितो भीष्मं सैन्येन महता वृतः 008a ततः शतसहस्रेण हयानां सुबलात्मजः 008c विमलप्रासहस्तानामृष्टितोमरधारिणाम् 009a दर्पितानां सुवेगानां बलस्थानां पताकिनाम् 009c शिक्षितैर्युद्धकुशलैरुपेतानां नरोत्तमैः 010a नकुलं सहदेवं च धर्मराजं च पाण्डवम् 010c न्यवारयन्नरश्रेष्ठं परिवार्य समन्ततः 011a ततो दुर्योधनो राजा शूराणां हयसादिनाम् 011c अयुतं प्रेषयामास पाण्डवानां निवारणे 012a तैः प्रविष्टैर्महावेगैर्गरुत्मद्भिरिवाहवे 012c खुराहता धरा राजंश्चकम्पे च ननाद च 013a खुरशब्दश्च सुमहान्वाजिनां शुश्रुवे तदा 013c महावंशवनस्येव दह्यमानस्य पर्वते 014a उत्पतद्भिश्च तैस्तत्र समुद्धूतं महद्रजः 014c दिवाकरपथं प्राप्य छादयामास भास्करम् 015a वेगवद्भिर्हयैस्तैस्तु क्षोभितं पाण्डवं बलम् 015c निपतद्भिर्महावेगैर्हंसैरिव महत्सरः 015e हेषतां चैव शब्देन न प्राज्ञायत किञ्चन 016a ततो युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ 016c प्रत्यघ्नंस्तरसा वेगं समरे हयसादिनाम् 017a उद्वृत्तस्य महाराज प्रावृट्कालेन पूर्यतः 017c पौर्णमास्यामम्बुवेगं यथा वेला महोदधेः 018a ततस्ते रथिनो राजञ्शरैः सन्नतपर्वभिः 018c न्यकृन्तन्नुत्तमाङ्गानि कायेभ्यो हयसादिनाम् 019a ते निपेतुर्महाराज निहता दृढधन्विभिः 019c नागैरिव महानागा यथा स्युर्गिरिगह्वरे 020a तेऽपि प्रासैः सुनिशितैः शरैः सन्नतपर्वभिः 020c न्यकृन्तन्नुत्तमाङ्गानि विचरन्तो दिशो दश 021a अत्यासन्ना हयारोहा ऋष्टिभिर्भरतर्षभ 021c अच्छिनन्नुत्तमाङ्गानि फलानीव महाद्रुमात् 022a ससादिनो हया राजंस्तत्र तत्र निषूदिताः 022c पतिताः पात्यमानाश्च शतशोऽथ सहस्रशः 023a वध्यमाना हयास्ते तु प्राद्रवन्त भयार्दिताः 023c यथा सिंहान्समासाद्य मृगाः प्राणपरायणाः 024a पाण्डवास्तु महाराज जित्वा शत्रून्महाहवे 024c दध्मुः शङ्खांश्च भेरीश्च ताडयामासुराहवे 025a ततो दुर्योधनो दृष्ट्वा दीनं सैन्यमवस्थितम् 025c अब्रवीद्भरतश्रेष्ठ मद्रराजमिदं वचः 026a एष पाण्डुसुतो ज्येष्ठो जित्वा मातुल मामकान् 026c पश्यतां नो महाबाहो सेनां द्रावयते बली 027a तं वारय महाबाहो वेलेव मकरालयम् 027c त्वं हि संश्रूयसेऽत्यर्थमसह्यबलविक्रमः 028a पुत्रस्य तव तद्वाक्यं श्रुत्वा शल्यः प्रतापवान् 028c प्रययौ रथवंशेन यत्र राजा युधिष्ठिरः 029a तदापतद्वै सहसा शल्यस्य सुमहद्बलम् 029c महौघवेगं समरे वारयामास पाण्डवः 030a मद्रराजं च समरे धर्मराजो महारथः 030c दशभिः सायकैस्तूर्णमाजघान स्तनान्तरे 030e नकुलः सहदेवश्च त्रिभिस्त्रिभिरजिह्मगैः 031a मद्रराजोऽपि तान्सर्वानाजघान त्रिभिस्त्रिभिः 031c युधिष्ठिरं पुनः षष्ट्या विव्याध निशितैः शरैः 031e माद्रीपुत्रौ च संरब्धौ द्वाभ्यां द्वाभ्यामताडयत् 032a ततो भीमो महाबाहुर्दृष्ट्वा राजानमाहवे 032c मद्रराजवशं प्राप्तं मृत्योरास्यगतं यथा 032e अभ्यद्रवत सङ्ग्रामे युधिष्ठिरममित्रजित् 033a ततो युद्धं महाघोरं प्रावर्तत सुदारुणम् 033c अपरां दिशमास्थाय द्योतमाने दिवाकरे