001 सञ्जय उवाच 001a अर्जुनस्तु नरव्याघ्र सुशर्मप्रमुखान्नृपान् 001c अनयत्प्रेतराजस्य भवनं सायकैः शितैः 002a सुशर्मापि ततो बाणैः पार्थं विव्याध संयुगे 002c वासुदेवं च सप्तत्या पार्थं च नवभिः पुनः 003a तान्निवार्य शरौघेण शक्रसूनुर्महारथः 003c सुशर्मणो रणे योधान्प्राहिणोद्यमसादनम् 004a ते वध्यमानाः पार्थेन कालेनेव युगक्षये 004c व्यद्रवन्त रणे राजन्भये जाते महारथाः 005a उत्सृज्य तुरगान्केचिद्रथान्केचिच्च मारिष 005c गजानन्ये समुत्सृज्य प्राद्रवन्त दिशो दश 006a अपरे तुद्यमानास्तु वाजिनागरथा रणात् 006c त्वरया परया युक्ताः प्राद्रवन्त विशाम्पते 007a पादाताश्चापि शस्त्राणि समुत्सृज्य महारणे 007c निरपेक्षा व्यधावन्त तेन तेन स्म भारत 008a वार्यमाणाः स्म बहुशस्त्रैगर्तेन सुशर्मणा 008c तथान्यैः पार्थिवश्रेष्ठैर्न व्यतिष्ठन्त संयुगे 009a तद्बलं प्रद्रुतं दृष्ट्वा पुत्रो दुर्योधनस्तव 009c पुरस्कृत्य रणे भीष्मं सर्वसैन्यपुरस्कृतम् 010a सर्वोद्योगेन महता धनञ्जयमुपाद्रवत् 010c त्रिगर्ताधिपतेरर्थे जीवितस्य विशाम्पते 011a स एकः समरे तस्थौ किरन्बहुविधाञ्शरान् 011c भ्रातृभिः सहितः सर्वैः शेषा विप्रद्रुता नराः 012a तथैव पण्डवा राजन्सर्वोद्योगेन दंशिताः 012c प्रययुः फल्गुनार्थाय यत्र भीष्मो व्यवस्थितः 013a जानन्तोऽपि रणे शौर्यं घोरं गाण्डीवधन्वनः 013c हाहाकारकृतोत्साहा भीष्मं जग्मुः समन्ततः 014a ततस्तालध्वजः शूरः पाण्डवानामनीकिनीम् 014c छादयामास समरे शरैः सन्नतपर्वभिः 015a एकीभूतास्ततः सर्वे कुरवः पाण्डवैः सह 015c अयुध्यन्त महाराज मध्यं प्राप्ते दिवाकरे 016a सात्यकिः कृतवर्माणं विद्ध्वा पञ्चभिरायसैः 016c अतिष्ठदाहवे शूरः किरन्बाणान्सहस्रशः 017a तथैव द्रुपदो राजा द्रोणं विद्ध्वा शितैः शरैः 017c पुनर्विव्याध सप्तत्या सारथिं चास्य सप्तभिः 018a भीमसेनस्तु राजानं बाह्लिकं प्रपितामहम् 018c विद्ध्वानदन्महानादं शार्दूल इव कानने 019a आर्जुनिश्चित्रसेनेन विद्धो बहुभिराशुगैः 019c चित्रसेनं त्रिभिर्बाणैर्विव्याध हृदये भृशम् 020a समागतौ तौ तु रणे महामात्रौ व्यरोचताम् 020c यथा दिवि महाघोरौ राजन्बुधशनैश्चरौ 021a तस्याश्वांश्चतुरो हत्वा सूतञ्च नवभिः शरैः 021c ननाद बलवन्नादं सौभद्रः परवीरहा 022a हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः 022c आरुरोह रथं तूर्णं दुर्मुखस्य विशाम्पते 023a द्रोणश्च द्रुपदं विद्ध्वा शरैः सन्नतपर्वभिः 023c सारथिं चास्य विव्याध त्वरमाणः पराक्रमी 024a पीड्यमानस्ततो राजा द्रुपदो वाहिनीमुखे 024c अपायाज्जवनैरश्वैः पूर्ववैरमनुस्मरन् 025a भीमसेनस्तु राजानं मुहूर्तादिव बाह्लिकम् 025c व्यश्वसूतरथं चक्रे सर्वसैन्यस्य पश्यतः 026a ससम्भ्रमो महाराज संशयं परमं गतः 026c अवप्लुत्य ततो वाहाद्बाह्लिकः पुरुषोत्तमः 026e आरुरोह रथं तूर्णं लक्ष्मणस्य महारथः 027a सात्यकिः कृतवर्माणं वारयित्वा महारथः 027c शरैर्बहुविधै राजन्नाससाद पितामहम् 028a स विद्ध्वा भारतं षष्ट्या निशितैर्लोमवाहिभिः 028c ननर्तेव रथोपस्थे विधुन्वानो महद्धनुः 029a तस्यायसीं महाशक्तिं चिक्षेपाथ पितामहः 029c हेमचित्रां महावेगां नागकन्योपमां शुभाम् 030a तामापतन्तीं सहसा मृत्युकल्पां सुतेजनाम् 030c ध्वंसयामास वार्ष्णेयो लाघवेन महायशाः 031a अनासाद्य तु वार्ष्णेयं शक्तिः परमदारुणा 031c न्यपतद्धरणीपृष्ठे महोल्केव गतप्रभा 032a वार्ष्णेयस्तु ततो राजन्स्वां शक्तिं घोरदर्शनाम् 032c वेगवद्गृह्य चिक्षेप पितामहरथं प्रति 033a वार्ष्णेयभुजवेगेन प्रणुन्ना सा महाहवे 033c अभिदुद्राव वेगेन कालरात्रिर्यथा नरम् 034a तामापतन्तीं सहसा द्विधा चिच्छेद भारत 034c क्षुरप्राभ्यां सुतीक्ष्णाभ्यां सान्वकीर्यत भूतले 035a छित्त्वा तु शक्तिं गाङ्गेयः सात्यकिं नवभिः शरैः 035c आजघानोरसि क्रुद्धः प्रहसञ्शत्रुकर्शनः 036a ततः सरथनागाश्वाः पाण्डवाः पाण्डुपूर्वज 036c परिवव्रू रणे भीष्मं माधवत्राणकारणात् 037a ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् 037c पाण्डवानां कुरूणां च समरे विजयैषिणाम्