001 सञ्जय उवाच 001a मध्याह्ने तु महाराज सङ्ग्रामः समपद्यत 001c लोकक्षयकरो रौद्रो भीष्मस्य सह सोमकैः 002a गाङ्गेयो रथिनां श्रेष्ठः पाण्डवानामनीकिनीम् 002c व्यधमन्निशितैर्बाणैः शतशोऽथ सहस्रशः 003a सम्ममर्द च तत्सैन्यं पिता देवव्रतस्तव 003c धान्यानामिव लूनानां प्रकरं गोगणा इव 004a धृष्टद्युम्नः शिखण्डी च विराटो द्रुपदस्तथा 004c भीष्ममासाद्य समरे शरैर्जघ्नुर्महारथम् 005a धृष्टद्युम्नं ततो विद्ध्वा विराटं च त्रिभिः शरैः 005c द्रुपदस्य च नाराचं प्रेषयामास भारत 006a तेन विद्धा महेष्वासा भीष्मेणामित्रकर्शिना 006c चुक्रुधुः समरे राजन्पादस्पृष्टा इवोरगाः 007a शिखण्डी तं च विव्याध भरतानां पितामहम् 007c स्त्रीमयं मनसा ध्यात्वा नास्मै प्राहरदच्युतः 008a धृष्टद्युम्नस्तु समरे क्रोधादग्निरिव ज्वलन् 008c पितामहं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् 009a द्रुपदः पञ्चविंशत्या विराटो दशभिः शरैः 009c शिखण्डी पञ्चविंशत्या भीष्मं विव्याध सायकैः 010a सोऽतिविद्धो महाराज भीष्मः सङ्ख्ये महात्मभिः 010c वसन्ते पुष्पशबलो रक्ताशोक इवाबभौ 011a तान्प्रत्यविध्यद्गाङ्गेयस्त्रिभिस्त्रिभिरजिह्मगैः 011c द्रुपदस्य च भल्लेन धनुश्चिच्छेद मारिष 012a सोऽन्यत्कार्मुकमादाय भीष्मं विव्याध पञ्चभिः 012c सारथिं च त्रिभिर्बाणैः सुशितै रणमूर्धनि 013a ततो भीमो महाराज द्रौपद्याः पञ्च चात्मजाः 013c केकया भ्रातरः पञ्च सात्यकिश्चैव सात्वतः 014a अभ्यद्रवन्त गाङ्गेयं युधिष्ठिरहितेप्सया 014c रिरक्षिषन्तः पाञ्चाल्यं धृष्टद्युम्नमुखान्रणे 015a तथैव तावकाः सर्वे भीष्मरक्षार्थमुद्यताः 015c प्रत्युद्ययुः पाण्डुसेनां सहसैन्या नराधिप 016a तत्रासीत्सुमहद्युद्धं तव तेषां च सङ्कुलम् 016c नराश्वरथनागानां यमराष्ट्रविवर्धनम् 017a रथी रथिनमासाद्य प्राहिणोद्यमसादनम् 017c तथेतरान्समासाद्य नरनागाश्वसादिनः 018a अनयन्परलोकाय शरैः सन्नतपर्वभिः 018c अस्त्रैश्च विविधैर्घोरैस्तत्र तत्र विशाम्पते 019a रथाश्च रथिभिर्हीना हतसारथयस्तथा 019c विप्रद्रुताश्वाः समरे दिशो जग्मुः समन्ततः 020a मर्दमाना नरान्राजन्हयांश्च सुबहून्रणे 020c वातायमाना दृश्यन्ते गन्धर्वनगरोपमाः 021a रथिनश्च रथैर्हीना वर्मिणस्तेजसा युताः 021c कुण्डलोष्णीषिणः सर्वे निष्काङ्गदविभूषिताः 022a देवपुत्रसमा रूपे शौर्ये शक्रसमा युधि 022c ऋद्ध्या वैश्रवणं चाति नयेन च बृहस्पतिम् 023a सर्वलोकेश्वराः शूरास्तत्र तत्र विशाम्पते 023c विप्रद्रुता व्यदृश्यन्त प्राकृता इव मानवाः 024a दन्तिनश्च नरश्रेष्ठ विहीना वरसादिभिः 024c मृद्नन्तः स्वान्यनीकानि सम्पेतुः सर्वशब्दगाः 025a वर्मभिश्चामरैश्छत्रैः पताकाभिश्च मारिष 025c कक्ष्याभिरथ तोत्त्रैश्च घण्टाभिस्तोमरैस्तथा 026a विशीर्णैर्विप्रधावन्तो दृश्यन्ते स्म दिशो दश 026c नगमेघप्रतीकाशैर्जलदोदयनिस्वनैः 027a तथैव दन्तिभिर्हीनान्गजारोहान्विशाम्पते 027c प्रधावन्तोऽन्वपश्याम तव तेषाञ्च सङ्कुले 028a नानादेशसमुत्थांश्च तुरगान्हेमभूषितान् 028c वातायमानानद्राक्षं शतशोऽथ सहस्रशः 029a अश्वारोहान्हतैरश्वैर्गृहीतासीन्समन्ततः 029c द्रवमाणानपश्याम द्राव्यमाणांश्च संयुगे 030a गजो गजं समासाद्य द्रवमाणं महारणे 030c ययौ विमृद्नंस्तरसा पदातीन्वाजिनस्तथा 031a तथैव च रथान्राजन्सम्ममर्द रणे गजः 031c रथश्चैव समासाद्य पदातिं तुरगं तथा 032a व्यमृद्नात्समरे राजंस्तुरगांश्च नरान्रणे 032c एवं ते बहुधा राजन्प्रमृद्नन्तः परस्परम् 033a तस्मिन्रौद्रे तथा युद्धे वर्तमाने महाभये 033c प्रावर्तत नदी घोरा शोणितान्त्रतरङ्गिणी 034a अस्थिसञ्चयसङ्घाटा केशशैवलशाद्वला 034c रथह्रदा शरावर्ता हयमीना दुरासदा 035a शीर्षोपलसमाकीर्णा हस्तिग्राहसमाकुला 035c कवचोष्णीषफेनाढ्या धनुर्द्वीपासिकच्छपा 036a पताकाध्वजवृक्षाढ्या मर्त्यकूलापहारिणी 036c क्रव्यादसङ्घसङ्कीर्णा यमराष्ट्रविवर्धिनी 037a तां नदीं क्षत्रियाः शूरा हयनागरथप्लवैः 037c प्रतेरुर्बहवो राजन्भयं त्यक्त्वा महाहवे 038a अपोवाह रणे भीरून्कश्मलेनाभिसंवृतान् 038c यथा वैतरणी प्रेतान्प्रेतराजपुरं प्रति 039a प्राक्रोशन्क्षत्रियास्तत्र दृष्ट्वा तद्वैशसं महत् 039c दुर्योधनापराधेन क्षयं गच्छन्ति कौरवाः 040a गुणवत्सु कथं द्वेषं धार्तराष्ट्रो जनेश्वरः 040c कृतवान्पाण्डुपुत्रेषु पापात्मा लोभमोहितः 041a एवं बहुविधा वाचः श्रूयन्ते स्मात्र भारत 041c पाण्डवस्तवसंयुक्ताः पुत्राणां ते सुदारुणाः 042a ता निशम्य तदा वाचः सर्वयोधैरुदाहृताः 042c आगस्कृत्सर्वलोकस्य पुत्रो दुर्योधनस्तव 043a भीष्मं द्रोणं कृपं चैव शल्यं चोवाच भारत 043c युध्यध्वमनहङ्काराः किं चिरं कुरुथेति च 044a ततः प्रववृते युद्धं कुरूणां पाण्डवैः सह 044c अक्षद्यूतकृतं राजन्सुघोरं वैशसं तदा 045a यत्पुरा न निगृह्णीषे वार्यमाणो महात्मभिः 045c वैचित्रवीर्य तस्येदं फलं पश्य तथाविधम् 046a न हि पाण्डुसुता राजन्ससैन्याः सपदानुगाः 046c रक्षन्ति समरे प्राणान्कौरवा वा विशाम्पते 047a एतस्मात्कारणाद्घोरो वर्तते स्म जनक्षयः 047c दैवाद्वा पुरुषव्याघ्र तव चापनयान्नृप