001 धृतराष्ट्र उवाच 001a कथं द्रोणो महेष्वासः पाण्डवश्च धनञ्जयः 001c समीयतू रणे शूरौ तन्ममाचक्ष्व सञ्जय 002a प्रियो हि पाण्डवो नित्यं भारद्वाजस्य धीमतः 002c आचार्यश्च रणे नित्यं प्रियः पार्थस्य सञ्जय 003a तावुभौ रथिनौ सङ्ख्ये दृप्तौ सिंहाविवोत्कटौ 003c कथं समीयतुर्युद्धे भारद्वाजधनञ्जयौ 004 सञ्जय उवाच 004a न द्रोणः समरे पार्थं जानीते प्रियमात्मनः 004c क्षत्रधर्मं पुरस्कृत्य पार्थो वा गुरुमाहवे 005a न क्षत्रिया रणे राजन्वर्जयन्ति परस्परम् 005c निर्मर्यादं हि युध्यन्ते पितृभिर्भ्रातृभिः सह 006a रणे भारत पार्थेन द्रोणो विद्धस्त्रिभिः शरैः 006c नाचिन्तयत तान्बाणान्पार्थचापच्युतान्युधि 007a शरवृष्ट्या पुनः पार्थश्छादयामास तं रणे 007c प्रजज्वाल च रोषेण गहनेऽग्निरिवोत्थितः 008a ततोऽर्जुनं रणे द्रोणः शरैः सन्नतपर्वभिः 008c वारयामास राजेन्द्र नचिरादिव भारत 009a ततो दुर्योधनो राजा सुशर्माणमचोदयत् 009c द्रोणस्य समरे राजन्पार्ष्णिग्रहणकारणात् 010a त्रिगर्तराडपि क्रुद्धो भृशमायम्य कार्मुकम् 010c छादयामास समरे पार्थं बाणैरयोमुखैः 011a ताभ्यां मुक्ताः शरा राजन्नन्तरिक्षे विरेजिरे 011c हंसा इव महाराज शरत्काले नभस्तले 012a ते शराः प्राप्य कौन्तेयं समस्ता विविशुः प्रभो 012c फलभारनतं यद्वत्स्वादुवृक्षं विहङ्गमाः 013a अर्जुनस्तु रणे नादं विनद्य रथिनां वरः 013c त्रिगर्तराजं समरे सपुत्रं विव्यधे शरैः 014a ते वध्यमानाः पार्थेन कालेनेव युगक्षये 014c पार्थमेवाभ्यवर्तन्त मरणे कृतनिश्चयाः 014e मुमुचुः शरवृष्टिं च पाण्डवस्य रथं प्रति 015a शरवृष्टिं ततस्तां तु शरवर्षेण पाण्डवः 015c प्रतिजग्राह राजेन्द्र तोयवृष्टिमिवाचलः 016a तत्राद्भुतमपश्याम बीभत्सोर्हस्तलाघवम् 016c विमुक्तां बहुभिः शूरैः शस्त्रवृष्टिं दुरासदाम् 017a यदेको वारयामास मारुतोऽभ्रगणानिव 017c कर्मणा तेन पार्थस्य तुतुषुर्देवदानवाः 018a अथ क्रुद्धो रणे पार्थस्त्रिगर्तान्प्रति भारत 018c मुमोचास्त्रं महाराज वायव्यं पृतनामुखे 019a प्रादुरासीत्ततो वायुः क्षोभयाणो नभस्तलम् 019c पातयन्वै तरुगणान्विनिघ्नंश्चैव सैनिकान् 020a ततो द्रोणोऽभिवीक्ष्यैव वायव्यास्त्रं सुदारुणम् 020c शैलमन्यन्महाराज घोरमस्त्रं मुमोच ह 021a द्रोणेन युधि निर्मुक्ते तस्मिन्नस्त्रे महामृधे 021c प्रशशाम ततो वायुः प्रसन्नाश्चाभवन्दिशः 022a ततः पाण्डुसुतो वीरस्त्रिगर्तस्य रथव्रजान् 022c निरुत्साहान्रणे चक्रे विमुखान्विपराक्रमान् 023a ततो दुर्योधनो राजा कृपश्च रथिनां वरः 023c अश्वत्थामा ततः शल्यः काम्बोजश्च सुदक्षिणः 024a विन्दानुविन्दावावन्त्यौ बाह्लिकश्च सबाह्लिकः 024c महता रथवंशेन पार्थस्यावारयन्दिशः 025a तथैव भगदत्तश्च श्रुतायुश्च महाबलः 025c गजानीकेन भीमस्य ताववारयतां दिशः 026a भूरिश्रवाः शलश्चैव सौबलश्च विशाम्पते 026c शरौघैर्विविधैस्तूर्णं माद्रीपुत्राववारयन् 027a भीष्मस्तु सहितः सर्वैर्धार्तराष्ट्रस्य सैनिकैः 027c युधिष्ठिरं समासाद्य सर्वतः पर्यवारयत् 028a आपतन्तं गजानीकं दृष्ट्वा पार्थो वृकोदरः 028c लेलिहन्सृक्किणी वीरो मृगराडिव कानने 029a ततस्तु रथिनां श्रेष्ठो गदां गृह्य महाहवे 029c अवप्लुत्य रथात्तूर्णं तव सैन्यमभीषयत् 030a तमुद्वीक्ष्य गदाहस्तं ततस्ते गजसादिनः 030c परिवव्रू रणे यत्ता भीमसेनं समन्ततः 031a गजमध्यमनुप्राप्तः पाण्डवश्च व्यराजत 031c मेघजालस्य महतो यथा मध्यगतो रविः 032a व्यधमत्स गजानीकं गदया पाण्डवर्षभः 032c महाभ्रजालमतुलं मातरिश्वेव सन्ततम् 033a ते वध्यमाना बलिना भीमसेनेन दन्तिनः 033c आर्तनादं रणे चक्रुर्गर्जन्तो जलदा इव 034a बहुधा दारितश्चैव विषाणैस्तत्र दन्तिभिः 034c फुल्लाशोकनिभः पार्थः शुशुभे रणमूर्धनि 035a विषाणे दन्तिनं गृह्य निर्विषाणमथाकरोत् 035c विषाणेन च तेनैव कुम्भेऽभ्याहत्य दन्तिनम् 035e पातयामास समरे दण्डहस्त इवान्तकः 036a शोणिताक्तां गदां बिभ्रन्मेदोमज्जाकृतच्छविः 036c कृताङ्गदः शोणितेन रुद्रवत्प्रत्यदृश्यत 037a एवं ते वध्यमानास्तु हतशेषा महागजाः 037c प्राद्रवन्त दिशो राजन्विमृद्नन्तः स्वकं बलम् 038a द्रवद्भिस्तैर्महानागैः समन्ताद्भरतर्षभ 038c दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम्