001 धृतराष्ट्र उवाच 001a आर्जुनिं समरे शूरं विनिघ्नन्तं महारथम् 001c अलम्बुसः कथं युद्धे प्रत्ययुध्यत सञ्जय 002a आर्श्यशृङ्गिं कथं चापि सौभद्रः परवीरहा 002c तन्ममाचक्ष्व तत्त्वेन यथा वृत्तं स्म संयुगे 003a धनञ्जयश्च किं चक्रे मम सैन्येषु सञ्जय 003c भीमो वा बलिनां श्रेष्ठो राक्षसो वा घटोत्कचः 004a नकुलः सहदेवो वा सात्यकिर्वा महारथः 004c एतदाचक्ष्व मे सर्वं कुशलो ह्यसि सञ्जय 005 सञ्जय उवाच 005a हन्त तेऽहं प्रवक्ष्यामि सङ्ग्रामं लोमहर्षणम् 005c यथाभूद्राक्षसेन्द्रस्य सौभद्रस्य च मारिष 006a अर्जुनश्च यथा सङ्ख्ये भीमसेनश्च पाण्डवः 006c नकुलः सहदेवश्च रणे चक्रुः पराक्रमम् 007a तथैव तावकाः सर्वे भीष्मद्रोणपुरोगमाः 007c अद्भुतानि विचित्राणि चक्रुः कर्माण्यभीतवत् 008a अलम्बुसस्तु समरे अभिमन्युं महारथम् 008c विनद्य सुमहानादं तर्जयित्वा मुहुर्मुहुः 008e अभिदुद्राव वेगेन तिष्ठ तिष्ठेति चाब्रवीत् 009a सौभद्रोऽपि रणे राजन्सिंहवद्विनदन्मुहुः 009c आर्श्यशृङ्गिं महेष्वासं पितुरत्यन्तवैरिणम् 010a ततः समेयतुः सङ्ख्ये त्वरितौ नरराक्षसौ 010c रथाभ्यां रथिनां श्रेष्ठौ यथा वै देवदानवौ 010e मायावी राक्षसश्रेष्ठो दिव्यास्त्रज्ञश्च फाल्गुनिः 011a ततः कार्ष्णिर्महाराज निशितैः सायकैस्त्रिभिः 011c आर्श्यशृङ्गिं रणे विद्ध्वा पुनर्विव्याध पञ्चभिः 012a अलम्बुसोऽपि सङ्क्रुद्धः कार्ष्णिं नवभिराशुगैः 012c हृदि विव्याध वेगेन तोत्त्रैरिव महाद्विपम् 013a ततः शरसहस्रेण क्षिप्रकारी निशाचरः 013c अर्जुनस्य सुतं सङ्ख्ये पीडयामास भारत 014a अभिमन्युस्ततः क्रुद्धो नवतिं नतपर्वणाम् 014c चिक्षेप निशितान्बाणान्राक्षसस्य महोरसि 015a ते तस्य विविशुस्तूर्णं कायं निर्भिद्य मर्मणि 015c स तैर्विभिन्नसर्वाङ्गः शुशुभे राक्षसोत्तमः 015e पुष्पितैः किंशुकै राजन्संस्तीर्ण इव पर्वतः 016a स धारयञ्शरान्हेमपुङ्खानपि महाबलः 016c विबभौ राक्षसश्रेष्ठः सज्वाल इव पर्वतः 017a ततः क्रुद्धो महाराज आर्श्यशृङ्गिर्महाबलः 017c महेन्द्रप्रतिमं कार्ष्णिं छादयामास पत्रिभिः 018a तेन ते विशिखा मुक्ता यमदण्डोपमाः शिताः 018c अभिमन्युं विनिर्भिद्य प्राविशन्धरणीतलम् 019a तथैवार्जुनिनिर्मुक्ताः शराः काञ्चनभूषणाः 019c अलम्बुसं विनिर्भिद्य प्राविशन्त धरातलम् 020a सौभद्रस्तु रणे रक्षः शरैः सन्नतपर्वभिः 020c चक्रे विमुखमासाद्य मयं शक्र इवाहवे 021a विमुखं च ततो रक्षो वध्यमानं रणेऽरिणा 021c प्रादुश्चक्रे महामायां तामसीं परतापनः 022a ततस्ते तमसा सर्वे हृता ह्यासन्महीतले 022c नाभिमन्युमपश्यन्त नैव स्वान्न परान्रणे 023a अभिमन्युश्च तद्दृष्ट्वा घोररूपं महत्तमः 023c प्रादुश्चक्रेऽस्त्रमत्युग्रं भास्करं कुरुनन्दनः 024a ततः प्रकाशमभवज्जगत्सर्वं महीपते 024c तां चापि जघ्निवान्मायां राक्षसस्य दुरात्मनः 025a सङ्क्रुद्धश्च महावीर्यो राक्षसेन्द्रं नरोत्तमः 025c छादयामास समरे शरैः सन्नतपर्वभिः 026a बह्वीस्तथान्या मायाश्च प्रयुक्तास्तेन रक्षसा 026c सर्वास्त्रविदमेयात्मा वारयामास फाल्गुनिः 027a हतमायं ततो रक्षो वध्यमानं च सायकैः 027c रथं तत्रैव सन्त्यज्य प्राद्रवन्महतो भयात् 028a तस्मिन्विनिर्जिते तूर्णं कूटयोधिनि राक्षसे 028c आर्जुनिः समरे सैन्यं तावकं सम्ममर्द ह 028e मदान्धो वन्यनागेन्द्रः सपद्मां पद्मिनीमिव 029a ततः शान्तनवो भीष्मः सैन्यं दृष्ट्वाभिविद्रुतम् 029c महता रथवंशेन सौभद्रं पर्यवारयत् 030a कोष्ठकीकृत्य तं वीरं धार्तराष्ट्रा महारथाः 030c एकं सुबहवो युद्धे ततक्षुः सायकैर्दृढम् 031a स तेषां रथिनां वीरः पितुस्तुल्यपराक्रमः 031c सदृशो वासुदेवस्य विक्रमेण बलेन च 032a उभयोः सदृशं कर्म स पितुर्मातुलस्य च 032c रणे बहुविधं चक्रे सर्वशस्त्रभृतां वरः 033a ततो धनञ्जयो राजन्विनिघ्नंस्तव सैनिकान् 033c आससाद रणे भीष्मं पुत्रप्रेप्सुरमर्षणः 034a तथैव समरे राजन्पिता देवव्रतस्तव 034c आससाद रणे पार्थं स्वर्भानुरिव भास्करम् 035a ततः सरथनागाश्वाः पुत्रास्तव विशाम्पते 035c परिवव्रू रणे भीष्मं जुगुपुश्च समन्ततः 036a तथैव पाण्डवा राजन्परिवार्य धनञ्जयम् 036c रणाय महते युक्ता दंशिता भरतर्षभ 037a शारद्वतस्ततो राजन्भीष्मस्य प्रमुखे स्थितम् 037c अर्जुनं पञ्चविंशत्या सायकानां समाचिनोत् 038a प्रत्युद्गम्याथ विव्याध सात्यकिस्तं शितैः शरैः 038c पाण्डवप्रियकामार्थं शार्दूल इव कुञ्जरम् 039a गौतमोऽपि त्वरायुक्तो माधवं नवभिः शरैः 039c हृदि विव्याध सङ्क्रुद्धः कङ्कपत्रपरिच्छदैः 040a शैनेयोऽपि ततः क्रुद्धो भृशं विद्धो महारथः 040c गौतमान्तकरं घोरं समादत्त शिलीमुखम् 041a तमापतन्तं वेगेन शक्राशनिसमद्युतिम् 041c द्विधा चिच्छेद सङ्क्रुद्धो द्रौणिः परमकोपनः 042a समुत्सृज्याथ शैनेयो गौतमं रथिनां वरम् 042c अभ्यद्रवद्रणे द्रौणिं राहुः खे शशिनं यथा 043a तस्य द्रोणसुतश्चापं द्विधा चिच्छेद भारत 043c अथैनं छिन्नधन्वानं ताडयामास सायकैः 044a सोऽन्यत्कार्मुकमादाय शत्रुघ्नं भारसाधनम् 044c द्रौणिं षष्ट्या महाराज बाह्वोरुरसि चार्पयत् 045a स विद्धो व्यथितश्चैव मुहूर्तं कश्मलायुतः 045c निषसाद रथोपस्थे ध्वजयष्टिमुपाश्रितः 046a प्रतिलभ्य ततः सञ्ज्ञां द्रोणपुत्रः प्रतापवान् 046c वार्ष्णेयं समरे क्रुद्धो नाराचेन समर्दयत् 047a शैनेयं स तु निर्भिद्य प्राविशद्धरणीतलम् 047c वसन्तकाले बलवान्बिलं सर्पशिशुर्यथा 048a ततोऽपरेण भल्लेन माधवस्य ध्वजोत्तमम् 048c चिच्छेद समरे द्रौणिः सिंहनादं ननाद च 049a पुनश्चैनं शरैर्घोरैश्छादयामास भारत 049c निदाघान्ते महाराज यथा मेघो दिवाकरम् 050a सात्यकिश्च महाराज शरजालं निहत्य तत् 050c द्रौणिमभ्यपतत्तूर्णं शरजालैरनेकधा 051a तापयामास च द्रौणिं शैनेयः परवीरहा 051c विमुक्तो मेघजालेन यथैव तपनस्तथा 052a शराणां च सहस्रेण पुनरेनं समुद्यतम् 052c सात्यकिश्छादयामास ननाद च महाबलः 053a दृष्ट्वा पुत्रं तथा ग्रस्तं राहुणेव निशाकरम् 053c अभ्यद्रवत शैनेयं भारद्वाजः प्रतापवान् 054a विव्याध च पृषत्केन सुतीक्ष्णेन महामृधे 054c परीप्सन्स्वसुतं राजन्वार्ष्णेयेनाभितापितम् 055a सात्यकिस्तु रणे जित्वा गुरुपुत्रं महारथम् 055c द्रोणं विव्याध विंशत्या सर्वपारशवैः शरैः 056a तदन्तरममेयात्मा कौन्तेयः श्वेतवाहनः 056c अभ्यद्रवद्रणे क्रुद्धो द्रोणं प्रति महारथः 057a ततो द्रोणश्च पार्थश्च समेयातां महामृधे 057c यथा बुधश्च शुक्रश्च महाराज नभस्तले