001 सञ्जय उवाच 001a प्रभातायां तु शर्वर्यां प्रातरुत्थाय वै नृपः 001c राज्ञः समाज्ञापयत सेनां योजयतेति ह 001e अद्य भीष्मो रणे क्रुद्धो निहनिष्यति सोमकान् 002a दुर्योधनस्य तच्छ्रुत्वा रात्रौ विलपितं बहु 002c मन्यमानः स तं राजन्प्रत्यादेशमिवात्मनः 003a निर्वेदं परमं गत्वा विनिन्द्य परवाच्यताम् 003c दीर्घं दध्यौ शान्तनवो योद्धुकामोऽर्जुनं रणे 004a इङ्गितेन तु तज्ज्ञात्वा गाङ्गेयेन विचिन्तितम् 004c दुर्योधनो महाराज दुःशासनमचोदयत् 005a दुःशासन रथास्तूर्णं युज्यन्तां भीष्मरक्षिणः 005c द्वात्रिंशत्त्वमनीकानि सर्वाण्येवाभिचोदय 006a इदं हि समनुप्राप्तं वर्षपूगाभिचिन्तितम् 006c पाण्डवानां ससैन्यानां वधो राज्यस्य चागमः 007a तत्र कार्यमहं मन्ये भीष्मस्यैवाभिरक्षणम् 007c स नो गुप्तः सुखाय स्याद्धन्यात्पार्थांश्च संयुगे 008a अब्रवीच्च विशुद्धात्मा नाहं हन्यां शिखण्डिनम् 008c स्त्रीपूर्वको ह्यसौ जातस्तस्माद्वर्ज्यो रणे मया 009a लोकस्तद्वेद यदहं पितुः प्रियचिकीर्षया 009c राज्यं स्फीतं महाबाहो स्त्रियश्च त्यक्तवान्पुरा 010a नैव चाहं स्त्रियं जातु न स्त्रीपूर्वं कथञ्चन 010c हन्यां युधि नरश्रेष्ठ सत्यमेतद्ब्रवीमि ते 011a अयं स्त्रीपूर्वको राजञ्शिखण्डी यदि ते श्रुतः 011c उद्योगे कथितं यत्तत्तथा जाता शिखण्डिनी 012a कन्या भूत्वा पुमाञ्जातः स च योत्स्यति भारत 012c तस्याहं प्रमुखे बाणान्न मुञ्चेयं कथञ्चन 013a युद्धे तु क्षत्रियांस्तात पाण्डवानां जयैषिणः 013c सर्वानन्यान्हनिष्यामि सम्प्राप्तान्बाणगोचरान् 014a एवं मां भरतश्रेष्ठो गाङ्गेयः प्राह शास्त्रवित् 014c तत्र सर्वात्मना मन्ये भीष्मस्यैवाभिपालनम् 015a अरक्ष्यमाणं हि वृको हन्यात्सिंहं महावने 015c मा वृकेणेव शार्दूलं घातयेम शिखण्डिना 016a मातुलः शकुनिः शल्यः कृपो द्रोणो विविंशतिः 016c यत्ता रक्षन्तु गाङ्गेयं तस्मिन्गुप्ते ध्रुवो जयः 017a एतच्छ्रुत्वा तु राजानो दुर्योधनवचस्तदा 017c सर्वतो रथवंशेन गाङ्गेयं पर्यवारयन् 018a पुत्राश्च तव गाङ्गेयं परिवार्य ययुर्मुदा 018c कम्पयन्तो भुवं द्यां च क्षोभयन्तश्च पाण्डवान् 019a तै रथैश्च सुसंयुक्तैर्दन्तिभिश्च महारथाः 019c परिवार्य रणे भीष्मं दंशिताः समवस्थिताः 020a यथा देवासुरे युद्धे त्रिदशा वज्रधारिणम् 020c सर्वे ते स्म व्यतिष्ठन्त रक्षन्तस्तं महारथम् 021a ततो दुर्योधनो राजा पुनर्भ्रातरमब्रवीत् 021c सव्यञ्चक्रं युधामन्युरुत्तमौजाश्च दक्षिणम् 021e गोप्तारावर्जुनस्यैतावर्जुनोऽपि शिखण्डिनः 022a स रक्ष्यमाणः पार्थेन तथास्माभिर्विवर्जितः 022c यथा भीष्मं न नो हन्याद्दुःशासन तथा कुरु 023a भ्रातुस्तद्वचनं श्रुत्वा पुत्रो दुःशासनस्तव 023c भीष्मं प्रमुखतः कृत्वा प्रययौ सेनया सह 024a भीष्मं तु रथवंशेन दृष्ट्वा तमभिसंवृतम् 024c अर्जुनो रथिनां श्रेष्ठो धृष्टद्युम्नमुवाच ह 025a शिखण्डिनं नरव्याघ्र भीष्मस्य प्रमुखेऽनघ 025c स्थापयस्वाद्य पाञ्चाल्य तस्य गोप्ताहमप्युत 026a ततः शान्तनवो भीष्मो निर्ययौ सेनया सह 026c व्यूहं चाव्यूहत महत्सर्वतोभद्रमाहवे 027a कृपश्च कृतवर्मा च शैब्यश्चैव महारथः 027c शकुनिः सैन्धवश्चैव काम्बोजश्च सुदक्षिणः 028a भीष्मेण सहिताः सर्वे पुत्रैश्च तव भारत 028c अग्रतः सर्वसैन्यानां व्यूहस्य प्रमुखे स्थिताः 029a द्रोणो भूरिश्रवाः शल्यो भगदत्तश्च मारिष 029c दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य दंशिताः 030a अश्वत्थामा सोमदत्त आवन्त्यौ च महारथौ 030c महत्या सेनया युक्ता वामं पक्षमपालयन् 031a दुर्योधनो महाराज त्रिगर्तैः सर्वतो वृतः 031c व्यूहमध्ये स्थितो राजन्पाण्डवान्प्रति भारत 032a अलम्बुसो रथश्रेष्ठः श्रुतायुश्च महारथः 032c पृष्ठतः सर्वसैन्यानां स्थितौ व्यूहस्य दंशितौ 033a एवमेते तदा व्यूहं कृत्वा भारत तावकाः 033c सन्नद्धाः समदृश्यन्त प्रतपन्त इवाग्नयः 034a तथा युधिष्ठिरो राजा भीमसेनश्च पाण्डवः 034c नकुलः सहदेवश्च माद्रीपुत्रावुभावपि 034e अग्रतः सर्वसैन्यानां स्थिता व्यूहस्य दंशिताः 035a धृष्टद्युम्नो विराटश्च सात्यकिश्च महारथः 035c स्थिताः सैन्येन महता परानीकविनाशनाः 036a शिखण्डी विजयश्चैव राक्षसश्च घटोत्कचः 036c चेकितानो महाबाहुः कुन्तिभोजश्च वीर्यवान् 036e स्थिता रणे महाराज महत्या सेनया वृताः 037a अभिमन्युर्महेष्वासो द्रुपदश्च महारथः 037c केकया भ्रातरः पञ्च स्थिता युद्धाय दंशिताः 038a एवं तेऽपि महाव्यूहं प्रतिव्यूह्य सुदुर्जयम् 038c पाण्डवाः समरे शूराः स्थिता युद्धाय मारिष 039a तावकास्तु रणे यत्ताः सहसेना नराधिपाः 039c अभ्युद्ययू रणे पार्थान्भीष्मं कृत्वाग्रतो नृप 040a तथैव पाण्डवा राजन्भीमसेनपुरोगमाः 040c भीष्मं युद्धपरिप्रेप्सुं सङ्ग्रामे विजिगीषवः 041a क्ष्वेडाः किलिकिलाशब्दान्क्रकचान्गोविषाणिकाः 041c भेरीमृदङ्गपणवान्नादयन्तश्च पुष्करान् 041e पाण्डवा अभ्यधावन्त नदन्तो भैरवान्रवान् 042a भेरीमृदङ्गशङ्खानां दुन्दुभीनां च निस्वनैः 042c उत्क्रुष्टसिंहनादैश्च वल्गितैश्च पृथग्विधैः 043a वयं प्रतिनदन्तस्तानभ्यगच्छाम सत्वराः 043c सहसैवाभिसङ्क्रुद्धास्तदासीत्तुमुलं महत् 044a ततोऽन्योन्यं प्रधावन्तः सम्प्रहारं प्रचक्रिरे 044c ततः शब्देन महता प्रचकम्पे वसुन्धरा 045a पक्षिणश्च महाघोरं व्याहरन्तो विबभ्रमुः 045c सप्रभश्चोदितः सूर्यो निष्प्रभः समपद्यत 046a ववुश्च तुमुला वाताः शंसन्तः सुमहद्भयम् 046c घोराश्च घोरनिर्ह्रादाः शिवास्तत्र ववाशिरे 046e वेदयन्त्यो महाराज महद्वैशसमागतम् 047a दिशः प्रज्वलिता राजन्पांसुवर्षं पपात च 047c रुधिरेण समुन्मिश्रमस्थिवर्षं तथैव च 048a रुदतां वाहनानां च नेत्रेभ्यः प्रापतज्जलम् 048c सुस्रुवुश्च शकृन्मूत्रं प्रध्यायन्तो विशां पते 049a अन्तर्हिता महानादाः श्रूयन्ते भरतर्षभ 049c रक्षसां पुरुषादानां नदतां भैरवान्रवान् 050a सम्पतन्तः स्म दृश्यन्ते गोमायुबकवायसाः 050c श्वानश्च विविधैर्नादैर्भषन्तस्तत्र तस्थिरे 051a ज्वलिताश्च महोल्का वै समाहत्य दिवाकरम् 051c निपेतुः सहसा भूमौ वेदयाना महद्भयम् 052a महान्त्यनीकानि महासमुच्छ्रये; समागमे पाण्डवधार्तराष्ट्रयोः 052c प्रकाशिरे शङ्खमृदङ्गनिस्वनैः; प्रकम्पितानीव वनानि वायुना 053a नरेन्द्रनागाश्वसमाकुलाना;मभ्यायतीनामशिवे मुहूर्ते 053c बभूव घोषस्तुमुलश्चमूनां; वातोद्धुतानामिव सागराणाम्