001 सञ्जय उवाच 001a वाक्शल्यैस्तव पुत्रेण सोऽतिविद्धः पितामहः 001c दुःखेन महताविष्टो नोवाचाप्रियमण्वपि 002a स ध्यात्वा सुचिरं कालं दुःखरोषसमन्वितः 002c श्वसमानो यथा नागः प्रणुन्नो वै शलाकया 003a उद्वृत्य चक्षुषी कोपान्निर्दहन्निव भारत 003c सदेवासुरगन्धर्वं लोकं लोकविदां वरः 003e अब्रवीत्तव पुत्रं तु सामपूर्वमिदं वचः 004a किं नु दुर्योधनैवं मां वाक्शल्यैरुपविध्यसि 004c घटमानं यथाशक्ति कुर्वाणं च तव प्रियम् 004e जुह्वानं समरे प्राणांस्तवैव हितकाम्यया 005a यदा तु पाण्डवः शूरः खाण्डवेऽग्निमतर्पयत् 005c पराजित्य रणे शक्रं पर्याप्तं तन्निदर्शनम् 006a यदा च त्वां महाबाहो गन्धर्वैर्हृतमोजसा 006c अमोचयत्पाण्डुसुतः पर्याप्तं तन्निदर्शनम् 007a द्रवमाणेषु शूरेषु सोदरेषु तथाभिभो 007c सूतपुत्रे च राधेये पर्याप्तं तन्निदर्शनम् 008a यच्च नः सहितान्सर्वान्विराटनगरे तदा 008c एक एव समुद्यातः पर्याप्तं तन्निदर्शनम् 009a द्रोणञ्च युधि संरब्धं माञ्च निर्जित्य संयुगे 009c कर्णञ्च त्वाञ्च द्रौणिञ्च कृपञ्च सुमहारथम् 009e वासांसि स समादत्त पर्याप्तं तन्निदर्शनम् 010a निवातकवचान्युद्धे वासवेनापि दुर्जयान् 010c जितवान्समरे पार्थः पर्याप्तं तन्निदर्शनम् 011a को हि शक्तो रणे जेतुं पाण्डवं रभसं रणे 011c त्वं तु मोहान्न जानीषे वाच्यावाच्यं सुयोधन 012a मुमूर्षुर्हि नरः सर्वान्वृक्षान्पश्यति काञ्चनान् 012c तथा त्वमपि गान्धारे विपरीतानि पश्यसि 013a स्वयं वैरं महत्कृत्वा पाण्डवैः सहसृञ्जयैः 013c युध्यस्व तानद्य रणे पश्यामः पुरुषो भव 014a अहं तु सोमकान्सर्वान्सपाञ्चालान्समागतान् 014c निहनिष्ये नरव्याघ्र वर्जयित्वा शिखण्डिनम् 015a तैर्वाहं निहतः सङ्ख्ये गमिष्ये यमसादनम् 015c तान्वा निहत्य सङ्ग्रामे प्रीतिं दास्यामि वै तव 016a पूर्वं हि स्त्री समुत्पन्ना शिखण्डी राजवेश्मनि 016c वरदानात्पुमाञ्जातः सैषा वै स्त्री शिखण्डिनी 017a तामहं न हनिष्यामि प्राणत्यागेऽपि भारत 017c यासौ प्राङ्निर्मिता धात्रा सैषा वै स्त्री शिखण्डिनी 018a सुखं स्वपिहि गान्धारे श्वोऽस्मि कर्ता महारणम् 018c यज्जनाः कथयिष्यन्ति यावत्स्थास्यति मेदिनी 019a एवमुक्तस्तव सुतो निर्जगाम जनेश्वर 019c अभिवाद्य गुरुं मूर्ध्ना प्रययौ स्वं निवेशनम् 020a आगम्य तु ततो राजा विसृज्य च महाजनम् 020c प्रविवेश ततस्तूर्णं क्षयं शत्रुक्षयङ्करः 020e प्रविष्टः स निशां तां च गमयामास पार्थिवः