001 सञ्जय उवाच 001a ततो दुर्योधनो राजा शकुनिश्चापि सौबलः 001c दुःशासनश्च पुत्रस्ते सूतपुत्रश्च दुर्जयः 002a समागम्य महाराज मन्त्रं चक्रूर्विवक्षितम् 002c कथं पाण्डुसुता युद्धे जेतव्याः सगणा इति 003a ततो दुर्योधनो राजा सर्वांस्तानाह मन्त्रिणः 003c सूतपुत्रं समाभाष्य सौबलं च महाबलम् 004a द्रोणो भीष्मः कृपः शल्यः सौमदत्तिश्च संयुगे 004c न पार्थान्प्रतिबाधन्ते न जाने तत्र कारणम् 005a अवध्यमानास्ते चापि क्षपयन्ति बलं मम 005c सोऽस्मि क्षीणबलः कर्ण क्षीणशस्त्रश्च संयुगे 006a निकृतः पाण्डवैः शूरैरवध्यैर्दैवतैरपि 006c सोऽहं संशयमापन्नः प्रकरिष्ये कथं रणम् 007a तमब्रवीन्महाराज सूतपुत्रो नराधिपम् 007c मा शुचो भरतश्रेष्ठ प्रकरिष्ये प्रियं तव 008a भीष्मः शान्तनवस्तूर्णमपयातु महारणात् 008c निवृत्ते युधि गाङ्गेये न्यस्तशस्त्रे च भारत 009a अहं पार्थान्हनिष्यामि सहितान्सर्वसोमकैः 009c पश्यतो युधि भीष्मस्य शपे सत्येन ते नृप 010a पाण्डवेषु दयां राजन्सदा भीष्मः करोति वै 010c अशक्तश्च रणे भीष्मो जेतुमेतान्महारथान् 011a अभिमानी रणे भीष्मो नित्यञ्चापि रणप्रियः 011c स कथं पाण्डवान्युद्धे जेष्यते तात सङ्गतान् 012a स त्वं शीघ्रमितो गत्वा भीष्मस्य शिबिरं प्रति 012c अनुमान्य रणे भीष्मं शस्त्रं न्यासय भारत 013a न्यस्तशस्त्रे ततो भीष्मे निहतान्पश्य पाण्डवान् 013c मयैकेन रणे राजन्ससुहृद्गणबान्धवान् 014a एवमुक्तस्तु कर्णेन पुत्रो दुर्योधनस्तव 014c अब्रवीद्भ्रातरं तत्र दुःशासनमिदं वचः 015a अनुयात्रं यथा सज्जं सर्वं भवति सर्वतः 015c दुःशासन तथा क्षिप्रं सर्वमेवोपपादय 016a एवमुक्त्वा ततो राजन्कर्णमाह जनेश्वरः 016c अनुमान्य रणे भीष्ममितोऽहं द्विपदां वरम् 017a आगमिष्ये ततः क्षिप्रं त्वत्सकाशमरिन्दम 017c ततस्त्वं पुरुषव्याघ्र प्रकरिष्यसि संयुगम् 018a निष्पपात ततस्तूर्णं पुत्रस्तव विशाम्पते 018c सहितो भ्रातृभिः सर्वैर्देवैरिव शतक्रतुः 019a ततस्तं नृपशार्दूलं शार्दूलसमविक्रमम् 019c आरोहयद्धयं तूर्णं भ्राता दुःशासनस्तदा 020a अङ्गदी बद्धमुकुटो हस्ताभरणवान्नृपः 020c धार्तराष्ट्रो महाराज विबभौ स महेन्द्रवत् 021a भाण्डीपुष्पनिकाशेन तपनीयनिभेन च 021c अनुलिप्तः परार्ध्येन चन्दनेन सुगन्धिना 022a अरजोम्बरसंवीतः सिंहखेलगतिर्नृपः 022c शुशुभे विमलार्चिष्मञ्शरदीव दिवाकरः 023a तं प्रयान्तं नरव्याघ्रं भीष्मस्य शिबिरं प्रति 023c अनुजग्मुर्महेष्वासाः सर्वलोकस्य धन्विनः 023e भ्रातरश्च महेष्वासास्त्रिदशा इव वासवम् 024a हयानन्ये समारुह्य गजानन्ये च भारत 024c रथैरन्ये नरश्रेष्ठाः परिवव्रुः समन्ततः 025a आत्तशस्त्राश्च सुहृदो रक्षणार्थं महीपतेः 025c प्रादुर्बभूवुः सहिताः शक्रस्येवामरा दिवि 026a सम्पूज्यमानः कुरुभिः कौरवाणां महारथः 026c प्रययौ सदनं राजन्गाङ्गेयस्य यशस्विनः 026e अन्वीयमानः सहितैः सोदरैः सर्वतो नृपः 027a दक्षिणं दक्षिणः काले सम्भृत्य स्वभुजं तदा 027c हस्तिहस्तोपमं शैक्षं सर्वशत्रुनिबर्हणम् 028a प्रगृह्णन्नञ्जलीन्नॄणामुद्यतान्सर्वतोदिशम् 028c शुश्राव मधुरा वाचो नानादेशनिवासिनाम् 029a संस्तूयमानः सूतैश्च मागधैश्च महायशाः 029c पूजयानश्च तान्सर्वान्सर्वलोकेश्वरेश्वरः 030a प्रदीपैः काञ्चनैस्तत्र गन्धतैलावसेचनैः 030c परिवव्रुर्महात्मानं प्रज्वलद्भिः समन्ततः 031a स तैः परिवृतो राजा प्रदीपैः काञ्चनैः शुभैः 031c शुशुभे चन्द्रमा युक्तो दीप्तैरिव महाग्रहैः 032a कञ्चुकोष्णीषिणस्तत्र वेत्रझर्झरपाणयः 032c प्रोत्सारयन्तः शनकैस्तं जनं सर्वतोदिशम् 033a सम्प्राप्य तु ततो राजा भीष्मस्य सदनं शुभम् 033c अवतीर्य हयाच्चापि भीष्मं प्राप्य जनेश्वरः 034a अभिवाद्य ततो भीष्मं निषण्णः परमासने 034c काञ्चने सर्वतोभद्रे स्पर्ध्यास्तरणसंवृते 034e उवाच प्राञ्जलिर्भीष्मं बाष्पकण्ठोऽश्रुलोचनः 035a त्वां वयं समुपाश्रित्य संयुगे शत्रुसूदन 035c उत्सहेम रणे जेतुं सेन्द्रानपि सुरासुरान् 036a किमु पाण्डुसुतान्वीरान्ससुहृद्गणबान्धवान् 036c तस्मादर्हसि गाङ्गेय कृपां कर्तुं मयि प्रभो 036e जहि पाण्डुसुतान्वीरान्महेन्द्र इव दानवान् 037a पूर्वमुक्तं महाबाहो निहनिष्यामि सोमकान् 037c पाञ्चालान्पाण्डवैः सार्धं करूषांश्चेति भारत 038a तद्वचः सत्यमेवास्तु जहि पार्थान्समागतान् 038c सोमकांश्च महेष्वासान्सत्यवाग्भव भारत 039a दयया यदि वा राजन्द्वेष्यभावान्मम प्रभो 039c मन्दभाग्यतया वापि मम रक्षसि पाण्डवान् 040a अनुजानीहि समरे कर्णमाहवशोभिनम् 040c स जेष्यति रणे पार्थान्ससुहृद्गणबान्धवान् 041a एतावदुक्त्वा नृपतिः पुत्रो दुर्योधनस्तव 041c नोवाच वचनं किञ्चिद्भीष्मं भीमपराक्रमम्