001 सञ्जय उवाच 001a पुत्रं तु निहतं श्रुत्वा इरावन्तं धनञ्जयः 001c दुःखेन महताविष्टो निःश्वसन्पन्नगो यथा 002a अब्रवीत्समरे राजन्वासुदेवमिदं वचः 002c इदं नूनं महाप्राज्ञो विदुरो दृष्टवान्पुरा 003a कुरूणां पाण्डवानां च क्षयं घोरं महामतिः 003c ततो निवारयितवान्धृतराष्ट्रं जनेश्वरम् 004a अवध्या बहवो वीराः सङ्ग्रामे मधुसूदन 004c निहताः कौरवैः सङ्ख्ये तथास्माभिश्च ते हताः 005a अर्थहेतोर्नरश्रेष्ठ क्रियते कर्म कुत्सितम् 005c धिगर्थान्यत्कृते ह्येवं क्रियते ज्ञातिसङ्क्षयः 006a अधनस्य मृतं श्रेयो न च ज्ञातिवधाद्धनम् 006c किं नु प्राप्स्यामहे कृष्ण हत्वा ज्ञातीन्समागतान् 007a दुर्योधनापराधेन शकुनेः सौबलस्य च 007c क्षत्रिया निधनं यान्ति कर्णदुर्मन्त्रितेन च 008a इदानीं च विजानामि सुकृतं मधुसूदन 008c कृतं राज्ञा महाबाहो याचता स्म सुयोधनम् 008e राज्यार्धं पञ्च वा ग्रामान्नाकार्षीत्स च दुर्मतिः 009a दृष्ट्वा हि क्षत्रियाञ्शूराञ्शयानान्धरणीतले 009c निन्दामि भृशमात्मानं धिगस्तु क्षत्रजीविकाम् 010a अशक्तमिति मामेते ज्ञास्यन्ति क्षत्रिया रणे 010c युद्धं ममैभिरुचितं ज्ञातिभिर्मधुसूदन 011a सञ्चोदय हयान्क्षिप्रं धार्तराष्ट्रचमूं प्रति 011c प्रतरिष्ये महापारं भुजाभ्यां समरोदधिम् 011e नायं क्लीबयितुं कालो विद्यते माधव क्वचित् 012a एवमुक्तस्तु पार्थेन केशवः परवीरहा 012c चोदयामास तानश्वान्पाण्डुरान्वातरंहसः 013a अथ शब्दो महानासीत्तव सैन्यस्य भारत 013c मारुतोद्धूतवेगस्य सागरस्येव पर्वणि 014a अपराह्णे महाराज सङ्ग्रामः समपद्यत 014c पर्जन्यसमनिर्घोषो भीष्मस्य सह पाण्डवैः 015a ततो राजंस्तव सुता भीमसेनमुपाद्रवन् 015c परिवार्य रणे द्रोणं वसवो वासवं यथा 016a ततः शान्तनवो भीष्मः कृपश्च रथिनां वरः 016c भगदत्तः सुशर्मा च धनञ्जयमुपाद्रवन् 017a हार्दिक्यो बाह्लिकश्चैव सात्यकिं समभिद्रुतौ 017c अम्बष्ठकस्तु नृपतिरभिमन्युमवारयत् 018a शेषास्त्वन्ये महाराज शेषानेव महारथान् 018c ततः प्रववृते युद्धं घोररूपं भयावहम् 019a भीमसेनस्तु सम्प्रेक्ष्य पुत्रांस्तव जनेश्वर 019c प्रजज्वाल रणे क्रुद्धो हविषा हव्यवाडिव 020a पुत्रास्तु तव कौन्तेयं छादयाञ्चक्रिरे शरैः 020c प्रावृषीव महाराज जलदाः पर्वतं यथा 021a स च्छाद्यमानो बहुधा पुत्रैस्तव विशाम्पते 021c सृक्किणी विलिहन्वीरः शार्दूल इव दर्पितः 022a व्यूढोरस्कं ततो भीमः पातयामास पार्थिव 022c क्षुरप्रेण सुतीक्ष्णेन सोऽभवद्गतजीवितः 023a अपरेण तु भल्लेन पीतेन निशितेन च 023c अपातयत्कुण्डलिनं सिंहः क्षुद्रमृगं यथा 024a ततः सुनिशितान्पीतान्समादत्त शिलीमुखान् 024c स सप्त त्वरया युक्तः पुत्रांस्ते प्राप्य मारिष 025a प्रेषिता भीमसेनेन शरास्ते दृढधन्वना 025c अपातयन्त पुत्रांस्ते रथेभ्यः सुमहारथान् 026a अनाधृष्टिं कुण्डभेदं वैराटं दीर्घलोचनम् 026c दीर्घबाहुं सुबाहुं च तथैव कनकध्वजम् 027a प्रपतन्त स्म ते वीरा विरेजुर्भरतर्षभ 027c वसन्ते पुष्पशबलाश्चूताः प्रपतिता इव 028a ततः प्रदुद्रुवुः शेषाः पुत्रास्तव विशाम्पते 028c तं कालमिव मन्यन्तो भीमसेनं महाबलम् 029a द्रोणस्तु समरे वीरं निर्दहन्तं सुतांस्तव 029c यथाद्रिं वारिधाराभिः समन्ताद्व्यकिरच्छरैः 030a तत्राद्भुतमपश्याम कुन्तीपुत्रस्य पौरुषम् 030c द्रोणेन वार्यमाणोऽपि निजघ्ने यत्सुतांस्तव 031a यथा हि गोवृषो वर्षं सन्धारयति खात्पतत् 031c भीमस्तथा द्रोणमुक्तं शरवर्षमदीधरत् 032a अद्भुतं च महाराज तत्र चक्रे वृकोदरः 032c यत्पुत्रांस्तेऽवधीत्सङ्ख्ये द्रोणं चैव न्ययोधयत् 033a पुत्रेषु तव वीरेषु चिक्रीडार्जुनपूर्वजः 033c मृगेष्विव महाराज चरन्व्याघ्रो महाबलः 034a यथा वा पशुमध्यस्थो द्रावयेत पशून्वृकः 034c वृकोदरस्तव सुतांस्तथा व्यद्रावयद्रणे 035a गाङ्गेयो भगदत्तश्च गौतमश्च महारथः 035c पाण्डवं रभसं युद्धे वारयामासुरर्जुनम् 036a अस्त्रैरस्त्राणि संवार्य तेषां सोऽतिरथो रणे 036c प्रवीरांस्तव सैन्येषु प्रेषयामास मृत्यवे 037a अभिमन्युश्च राजानमम्बष्ठं लोकविश्रुतम् 037c विरथं रथिनां श्रेष्ठं कारयामास सायकैः 038a विरथो वध्यमानः स सौभद्रेण यशस्विना 038c अवप्लुत्य रथात्तूर्णं सव्रीडो मनुजाधिपः 039a असिं चिक्षेप समरे सौभद्रस्य महात्मनः 039c आरुरोह रथं चैव हार्दिक्यस्य महात्मनः 040a आपतन्तं तु निस्त्रिंशं युद्धमार्गविशारदः 040c लाघवाद्व्यंसयामास सौभद्रः परवीरहा 041a व्यंसितं वीक्ष्य निस्त्रिंशं सौभद्रेण रणे तदा 041c साधु साध्विति सैन्यानां प्रणादोऽभूद्विशाम्पते 042a धृष्टद्युम्नमुखास्त्वन्ये तव सैन्यमयोधयन् 042c तथैव तावकाः सर्वे पाण्डुसैन्यमयोधयन् 043a तत्राक्रन्दो महानासीत्तव तेषां च भारत 043c निघ्नतां भृशमन्योन्यं कुर्वतां कर्म दुष्करम् 044a अन्योन्यं हि रणे शूराः केशेष्वाक्षिप्य मारिष 044c नखैर्दन्तैरयुध्यन्त मुष्टिभिर्जानुभिस्तथा 045a बाहुभिश्च तलैश्चैव निस्त्रिंशैश्च सुसंशितैः 045c विवरं प्राप्य चान्योन्यमनयन्यमसादनम् 046a न्यहनच्च पिता पुत्रं पुत्रश्च पितरं रणे 046c व्याकुलीकृतसङ्कल्पा युयुधुस्तत्र मानवाः 047a रणे चारूणि चापानि हेमपृष्ठानि भारत 047c हतानामपविद्धानि कलापाश्च महाधनाः 048a जातरूपमयैः पुङ्खै राजतैश्च शिताः शराः 048c तैलधौता व्यराजन्त निर्मुक्तभुजगोपमाः 049a हस्तिदन्तत्सरून्खड्गाञ्जातरूपपरिष्कृतान् 049c चर्माणि चापविद्धानि रुक्मपृष्ठानि धन्विनाम् 050a सुवर्णविकृतप्रासान्पट्टिशान्हेमभूषितान् 050c जातरूपमयाश्चर्ष्टीः शक्त्यश्च कनकोज्ज्वलाः 051a अपकृत्ताश्च पतिता मुसलानि गुरूणि च 051c परिघान्पट्टिशांश्चैव भिण्डिपालांश्च मारिष 052a पतितांस्तोमरांश्चापि चित्रा हेमपरिष्कृताः 052c कुथाश्च बहुधाकाराश्चामरव्यजनानि च 053a नानाविधानि शस्त्राणि विसृज्य पतिता नराः 053c जीवन्त इव दृश्यन्ते गतसत्त्वा महारथाः 054a गदाविमथितैर्गात्रैर्मुसलैर्भिन्नमस्तकाः 054c गजवाजिरथक्षुण्णाः शेरते स्म नराः क्षितौ 055a तथैवाश्वनृनागानां शरीरैराबभौ तदा 055c सञ्छन्ना वसुधा राजन्पर्वतैरिव सर्वतः 056a समरे पतितैश्चैव शक्त्यृष्टिशरतोमरैः 056c निस्त्रिंशैः पट्टिशैः प्रासैरयस्कुन्तैः परश्वधैः 057a परिघैर्भिण्डिपालैश्च शतघ्नीभिस्तथैव च 057c शरीरैः शस्त्रभिन्नैश्च समास्तीर्यत मेदिनी 058a निःशब्दैरल्पशब्दैश्च शोणितौघपरिप्लुतैः 058c गतासुभिरमित्रघ्न विबभौ संवृता मही 059a सतलत्रैः सकेयूरैर्बाहुभिश्चन्दनोक्षितैः 059c हस्तिहस्तोपमैश्छिन्नैरूरुभिश्च तरस्विनाम् 060a बद्धचूडामणिधरैः शिरोभिश्च सकुण्डलैः 060c पतितैर्वृषभाक्षाणां बभौ भारत मेदिनी 061a कवचैः शोणितादिग्धैर्विप्रकीर्णैश्च काञ्चनैः 061c रराज सुभृशं भूमिः शान्तार्चिभिरिवानलैः 062a विप्रविद्धैः कलापैश्च पतितैश्च शरासनैः 062c विप्रकीर्णैः शरैश्चापि रुक्मपुङ्खैः समन्ततः 063a रथैश्च बहुभिर्भग्नैः किङ्किणीजालमालिभिः 063c वाजिभिश्च हतैः कीर्णैः स्रस्तजिह्वैः सशोणितैः 064a अनुकर्षैः पताकाभिरुपासङ्गैर्ध्वजैरपि 064c प्रवीराणां महाशङ्खैर्विप्रकीर्णैश्च पाण्डुरैः 065a स्रस्तहस्तैश्च मातङ्गैः शयानैर्विबभौ मही 065c नानारूपैरलङ्कारैः प्रमदेवाभ्यलङ्कृता 066a दन्तिभिश्चापरैस्तत्र सप्रासैर्गाढवेदनैः 066c करैः शब्दं विमुञ्चद्भिः शीकरं च मुहुर्मुहुः 066e विबभौ तद्रणस्थानं धम्यमानैरिवाचलैः 067a नानारागैः कम्बलैश्च परिस्तोमैश्च दन्तिनाम् 067c वैडूर्यमणिदण्डैश्च पतितैरङ्कुशैः शुभैः 068a घण्टाभिश्च गजेन्द्राणां पतिताभिः समन्ततः 068c विघाटितविचित्राभिः कुथाभी राङ्कवैस्तथा 069a ग्रैवेयैश्चित्ररूपैश्च रुक्मकक्ष्याभिरेव च 069c यन्त्रैश्च बहुधा छिन्नैस्तोमरैश्च सकम्पनैः 070a अश्वानां रेणुकपिलै रुक्मच्छन्नैरुरश्छदैः 070c सादिनां च भुजैश्छिन्नैः पतितैः साङ्गदैस्तथा 071a प्रासैश्च विमलैस्तीक्ष्णैर्विमलाभिस्तथर्ष्टिभिः 071c उष्णीषैश्च तथा छिन्नैः प्रविद्धैश्च ततस्ततः 072a विचित्रैरर्धचन्द्रैश्च जातरूपपरिष्कृतैः 072c अश्वास्तरपरिस्तोमै राङ्कवैर्मृदितैस्तथा 073a नरेन्द्रचूडामणिभिर्विचित्रैश्च महाधनैः 073c छत्रैस्तथापविद्धैश्च चामरव्यजनैरपि 074a पद्मेन्दुद्युतिभिश्चैव वदनैश्चारुकुण्डलैः 074c कॢप्तश्मश्रुभिरत्यर्थं वीराणां समलङ्कृतैः 075a अपविद्धैर्महाराज सुवर्णोज्ज्वलकुण्डलैः 075c ग्रहनक्षत्रशबला द्यौरिवासीद्वसुन्धरा 076a एवमेते महासेने मृदिते तत्र भारत 076c परस्परं समासाद्य तव तेषां च संयुगे 077a तेषु श्रान्तेषु भग्नेषु मृदितेषु च भारत 077c रात्रिः समभवद्घोरा नापश्याम ततो रणम् 078a ततोऽवहारं सैन्यानां प्रचक्रुः कुरुपाण्डवाः 078c घोरे निशामुखे रौद्रे वर्तमाने सुदारुणे 079a अवहारं ततः कृत्वा सहिताः कुरुपाण्डवाः 079c न्यविशन्त यथाकालं गत्वा स्वशिबिरं तदा