001 सञ्जय उवाच 001a तस्मिन्महति सङ्क्रन्दे राजा दुर्योधनस्तदा 001c गाङ्गेयमुपसङ्गम्य विनयेनाभिवाद्य च 002a तस्य सर्वं यथावृत्तमाख्यातुमुपचक्रमे 002c घटोत्कचस्य विजयमात्मनश्च पराजयम् 003a कथयामास दुर्धर्षो विनिःश्वस्य पुनः पुनः 003c अब्रवीच्च तदा राजन्भीष्मं कुरुपितामहम् 004a भवन्तं समुपाश्रित्य वासुदेवं यथा परैः 004c पाण्डवैर्विग्रहो घोरः समारब्धो मया प्रभो 005a एकादश समाख्याता अक्षौहिण्यश्च या मम 005c निदेशे तव तिष्ठन्ति मया सार्धं परन्तप 006a सोऽहं भरतशार्दूल भीमसेनपुरोगमैः 006c घटोत्कचं समाश्रित्य पाण्डवैर्युधि निर्जितः 007a तन्मे दहति गात्राणि शुष्कवृक्षमिवानलः 007c तदिच्छामि महाभाग त्वत्प्रसादात्परन्तप 008a राक्षसापसदं हन्तुं स्वयमेव पितामह 008c त्वां समाश्रित्य दुर्धर्षं तन्मे कर्तुं त्वमर्हसि 009a एतच्छ्रुत्वा तु वचनं राज्ञो भरतसत्तम 009c दुर्योधनमिदं वाक्यं भीष्मः शान्तनवोऽब्रवीत् 010a शृणु राजन्मम वचो यत्त्वा वक्ष्यामि कौरव 010c यथा त्वया महाराज वर्तितव्यं परन्तप 011a आत्मा रक्ष्यो रणे तात सर्वावस्थास्वरिन्दम 011c धर्मराजेन सङ्ग्रामस्त्वया कार्यः सदानघ 012a अर्जुनेन यमाभ्यां वा भीमसेनेन वा पुनः 012c राजधर्मं पुरस्कृत्य राजा राजानमृच्छति 013a अहं द्रोणः कृपो द्रौणिः कृतवर्मा च सात्वतः 013c शल्यश्च सौमदत्तिश्च विकर्णश्च महारथः 014a तव च भ्रातरः शूरा दुःशासनपुरोगमाः 014c त्वदर्थं प्रतियोत्स्यामो राक्षसं तं महाबलम् 015a तस्मिन्रौद्रे राक्षसेन्द्रे यदि ते हृच्छयो महान् 015c अयं वा गच्छतु रणे तस्य युद्धाय दुर्मतेः 015e भगदत्तो महीपालः पुरन्दरसमो युधि 016a एतावदुक्त्वा राजानं भगदत्तमथाब्रवीत् 016c समक्षं पार्थिवेन्द्रस्य वाक्यं वाक्यविशारदः 017a गच्छ शीघ्रं महाराज हैडिम्बं युद्धदुर्मदम् 017c वारयस्व रणे यत्तो मिषतां सर्वधन्विनाम् 017e राक्षसं क्रूरकर्माणं यथेन्द्रस्तारकं पुरा 018a तव दिव्यानि चास्त्राणि विक्रमश्च परन्तप 018c समागमश्च बहुभिः पुराभूदसुरैः सह 019a त्वं तस्य राजशार्दूल प्रतियोद्धा महाहवे 019c स्वबलेन वृतो राजञ्जहि राक्षसपुङ्गवम् 020a एतच्छ्रुत्वा तु वचनं भीष्मस्य पृतनापतेः 020c प्रययौ सिंहनादेन परानभिमुखो द्रुतम् 021a तमाद्रवन्तं सम्प्रेक्ष्य गर्जन्तमिव तोयदम् 021c अभ्यवर्तन्त सङ्क्रुद्धाः पाण्डवानां महारथाः 022a भिमसेनोऽभिमन्युश्च राक्षसश्च घटोत्कचः 022c द्रौपदेयाः सत्यधृतिः क्षत्रदेवश्च मारिष 023a चेदिपो वसुदानश्च दशार्णाधिपतिस्तथा 023c सुप्रतीकेन तांश्चापि भगदत्तोऽप्युपाद्रवत् 024a ततः समभवद्युद्धं घोररूपं भयानकम् 024c पाण्डूनां भगदत्तेन यमराष्ट्रविवर्धनम् 025a प्रमुक्ता रथिभिर्बाणा भीमवेगाः सुतेजनाः 025c ते निपेतुर्महाराज नागेषु च रथेषु च 026a प्रभिन्नाश्च महानागा विनीता हस्तिसादिभिः 026c परस्परं समासाद्य सन्निपेतुरभीतवत् 027a मदान्धा रोषसंरब्धा विषाणाग्रैर्महाहवे 027c बिभिदुर्दन्तमुसलैः समासाद्य परस्परम् 028a हयाश्च चामरापीडाः प्रासपाणिभिरास्थिताः 028c चोदिताः सादिभिः क्षिप्रं निपेतुरितरेतरम् 029a पादाताश्च पदात्योघैस्ताडिताः शक्तितोमरैः 029c न्यपतन्त तदा भूमौ शतशोऽथ सहस्रशः 030a रथिनश्च तथा राजन्कर्णिनालीकसायकैः 030c निहत्य समरे वीरान्सिंहनादान्विनेदिरे 031a तस्मिंस्तथा वर्तमाने सङ्ग्रामे लोमहर्षणे 031c भगदत्तो महेष्वासो भीमसेनमथाद्रवत् 032a कुञ्जरेण प्रभिन्नेन सप्तधा स्रवता मदम् 032c पर्वतेन यथा तोयं स्रवमाणेन सर्वतः 033a किरञ्शरसहस्राणि सुप्रतीकशिरोगतः 033c ऐरावतस्थो मघवान्वारिधारा इवानघ 034a स भीमं शरधाराभिस्ताडयामास पार्थिवः 034c पर्वतं वारिधाराभिः प्रावृषीव बलाहकः 035a भीमसेनस्तु सङ्क्रुद्धः पादरक्षान्परःशतान् 035c निजघान महेष्वासः सङ्क्रुद्धः शरवृष्टिभिः 036a तान्दृष्ट्वा निहतान्क्रुद्धो भगदत्तः प्रतापवान् 036c चोदयामास नागेन्द्रं भीमसेनरथं प्रति 037a स नागः प्रेषितस्तेन बाणो ज्याचोदितो यथा 037c अभ्यधावत वेगेन भीमसेनमरिन्दमम् 038a तमापतन्तं सम्प्रेक्ष्य पाण्डवानां महारथाः 038c अभ्यवर्तन्त वेगेन भीमसेनपुरोगमाः 039a केकयाश्चाभिमन्युश्च द्रौपदेयाश्च सर्वशः 039c दशार्णाधिपतिः शूरः क्षत्रदेवश्च मारिष 039e चेदिपश्चित्रकेतुश्च सङ्क्रुद्धाः सर्व एव ते 040a उत्तमास्त्राणि दिव्यानि दर्शयन्तो महाबलाः 040c तमेकं कुञ्जरं क्रुद्धाः समन्तात्पर्यवारयन् 041a स विद्धो बहुभिर्बाणैर्व्यरोचत महाद्विपः 041c सञ्जातरुधिरोत्पीडो धातुचित्र इवाद्रिराट् 042a दशार्णाधिपतिश्चापि गजं भूमिधरोपमम् 042c समास्थितोऽभिदुद्राव भगदत्तस्य वारणम् 043a तमापतन्तं समरे गजं गजपतिः स च 043c दधार सुप्रतीकोऽपि वेलेव मकरालयम् 044a वारितं प्रेक्ष्य नागेन्द्रं दशार्णस्य महात्मनः 044c साधु साध्विति सैन्यानि पाण्डवेयान्यपूजयन् 045a ततः प्राग्ज्योतिषः क्रुद्धस्तोमरान्वै चतुर्दश 045c प्राहिणोत्तस्य नागस्य प्रमुखे नृपसत्तम 046a तस्य वर्म मुखत्राणं शातकुम्भपरिष्कृतम् 046c विदार्य प्राविशन्क्षिप्रं वल्मीकमिव पन्नगाः 047a स गाढविद्धो व्यथितो नागो भरतसत्तम 047c उपावृत्तमदः क्षिप्रं स न्यवर्तत वेगतः 048a प्रदुद्राव च वेगेन प्रणदन्भैरवं स्वनम् 048c स मर्दमानः स्वबलं वायुर्वृक्षानिवौजसा 049a तस्मिन्पराजिते नागे पाण्डवानां महारथाः 049c सिंहनादं विनद्योच्चैर्युद्धायैवोपतस्थिरे 050a ततो भीमं पुरस्कृत्य भगदत्तमुपाद्रवन् 050c किरन्तो विविधान्बाणाञ्शस्त्राणि विविधानि च 051a तेषामापततां राजन्सङ्क्रुद्धानाममर्षिणाम् 051c श्रुत्वा स निनदं घोरममर्षाद्गतसाध्वसः 051e भगदत्तो महेष्वासः स्वनागं प्रत्यचोदयत् 052a अङ्कुशाङ्गुष्ठनुदितः स गजप्रवरो युधि 052c तस्मिन्क्षणे समभवत्संवर्तक इवानलः 053a रथसङ्घांस्तथा नागान्हयांश्च सह सादिभिः 053c पादातांश्च सुसङ्क्रुद्धः शतशोऽथ सहस्रशः 053e अमृद्नात्समरे राजन्सम्प्रधावंस्ततस्ततः 054a तेन संलोड्यमानं तु पाण्डूनां तद्बलं महत् 054c सञ्चुकोच महाराज चर्मेवाग्नौ समाहितम् 055a भग्नं तु स्वबलं दृष्ट्वा भगदत्तेन धीमता 055c घटोत्कचोऽथ सङ्क्रुद्धो भगदत्तमुपाद्रवत् 056a विकटः पुरुषो राजन्दीप्तास्यो दीप्तलोचनः 056c रूपं विभीषणं कृत्वा रोषेण प्रज्वलन्निव 057a जग्राह विपुलं शूलं गिरीणामपि दारणम् 057c नागं जिघांसुः सहसा चिक्षेप च महाबलः 057e सविष्फुलिङ्गज्वालाभिः समन्तात्परिवेष्टितम् 058a तमापतन्तं सहसा दृष्ट्वा ज्वालाकुलं रणे 058c चिक्षेप रुचिरं तीक्ष्णमर्धचन्द्रं स पार्थिवः 058e चिच्छेद सुमहच्छूलं तेन बाणेन वेगवत् 059a निपपात द्विधा छिन्नं शूलं हेमपरिष्कृतम् 059c महाशनिर्यथा भ्रष्टा शक्रमुक्ता नभोगता 060a शूलं निपतितं दृष्ट्वा द्विधा कृत्तं स पार्थिवः 060c रुक्मदण्डां महाशक्तिं जग्राहाग्निशिखोपमाम् 060e चिक्षेप तां राक्षसस्य तिष्ठ तिष्ठेति चाब्रवीत् 061a तामापतन्तीं सम्प्रेक्ष्य वियत्स्थामशनीमिव 061c उत्पत्य राक्षसस्तूर्णं जग्राह च ननाद च 062a बभञ्ज चैनां त्वरितो जानुन्यारोप्य भारत 062c पश्यतः पार्थिवेन्द्रस्य तदद्भुतमिवाभवत् 063a तदवेक्ष्य कृतं कर्म राक्षसेन बलीयसा 063c दिवि देवाः सगन्धर्वा मुनयश्चापि विस्मिताः 064a पाण्डवाश्च महेष्वासा भीमसेनपुरोगमाः 064c साधु साध्विति नादेन पृथिवीमनुनादयन् 065a तं तु श्रुत्वा महानादं प्रहृष्टानां महात्मनाम् 065c नामृष्यत महेष्वासो भगदत्तः प्रतापवान् 066a स विस्फार्य महच्चापमिन्द्राशनिसमस्वनम् 066c अभिदुद्राव वेगेन पाण्डवानां महारथान् 066e विसृजन्विमलांस्तीक्ष्णान्नाराचाञ्ज्वलनप्रभान् 067a भीममेकेन विव्याध राक्षसं नवभिः शरैः 067c अभिमन्युं त्रिभिश्चैव केकयान्पञ्चभिस्तथा 068a पूर्णायतविसृष्टेन स्वर्णपुङ्खेन पत्रिणा 068c बिभेद दक्षिणं बाहुं क्षत्रदेवस्य चाहवे 068e पपात सहसा तस्य सशरं धनुरुत्तमम् 069a द्रौपदेयांस्ततः पञ्च पञ्चभिः समताडयत् 069c भीमसेनस्य च क्रोधान्निजघान तुरङ्गमान् 070a ध्वजं केसरिणं चास्य चिच्छेद विशिखैस्त्रिभिः 070c निर्बिभेद त्रिभिश्चान्यैः सारथिं चास्य पत्रिभिः 071a स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् 071c विशोको भरतश्रेष्ठ भगदत्तेन संयुगे 072a ततो भीमो महाराज विरथो रथिनां वरः 072c गदां प्रगृह्य वेगेन प्रचस्कन्द महारथात् 073a तमुद्यतगदं दृष्ट्वा सशृङ्गमिव पर्वतम् 073c तावकानां भयं घोरं समपद्यत भारत 074a एतस्मिन्नेव काले तु पाण्डवः कृष्णसारथिः 074c आजगाम महाराज निघ्नञ्शत्रून्सहस्रशः 075a यत्र तौ पुरुषव्याघ्रौ पितापुत्रौ परन्तपौ 075c प्राग्ज्योतिषेण संसक्तौ भीमसेनघटोत्कचौ 076a दृष्ट्वा तु पाण्डवो राजन्युध्यमानान्महारथान् 076c त्वरितो भरतश्रेष्ठ तत्रायाद्विकिरञ्शरान् 077a ततो दुर्योधनो राजा त्वरमाणो महारथः 077c सेनामचोदयत्क्षिप्रं रथनागाश्वसङ्कुलाम् 078a तामापतन्तीं सहसा कौरवाणां महाचमूम् 078c अभिदुद्राव वेगेन पाण्डवः श्वेतवाहनः 079a भगदत्तोऽपि समरे तेन नागेन भारत 079c विमृद्नन्पाण्डवबलं युधिष्ठिरमुपाद्रवत् 080a तदासीत्तुमुलं युद्धं भगदत्तस्य मारिष 080c पाञ्चालैः सृञ्जयैश्चैव केकयैश्चोद्यतायुधैः 081a भीमसेनोऽपि समरे तावुभौ केशवार्जुनौ 081c आश्रावयद्यथावृत्तमिरावद्वधमुत्तमम्