001 सञ्जय उवाच 001a स्वसैन्यं निहतं दृष्ट्वा राजा दुर्योधनः स्वयम् 001c अभ्यधावत सङ्क्रुद्धो भीमसेनमरिन्दमम् 002a प्रगृह्य सुमहच्चापमिन्द्राशनिसमस्वनम् 002c महता शरवर्षेण पाण्डवं समवाकिरत् 003a अर्धचन्द्रञ्च सन्धाय सुतीक्ष्णं लोमवाहिनम् 003c भीमसेनस्य चिच्छेद चापं क्रोधसमन्वितः 004a तदन्तरं च सम्प्रेक्ष्य त्वरमाणो महारथः 004c सन्दधे निशितं बाणं गिरीणामपि दारणम् 004e तेनोरसि महाबाहुर्भीमसेनमताडयत् 005a स गाढविद्धो व्यथितः सृक्किणी परिसंलिहन् 005c समाललम्बे तेजस्वी ध्वजं हेमपरिष्कृतम् 006a तथा विमनसं दृष्ट्वा भीमसेनं घटोत्कचः 006c क्रोधेनाभिप्रजज्वाल दिधक्षन्निव पावकः 007a अभिमन्युमुखाश्चैव पाण्डवानां महारथाः 007c समभ्यधावन्क्रोशन्तो राजानं जातसम्भ्रमाः 008a सम्प्रेक्ष्य तानापततः सङ्क्रुद्धाञ्जातसम्भ्रमान् 008c भारद्वाजोऽब्रवीद्वाक्यं तावकानां महारथान् 009a क्षिप्रं गच्छत भद्रं वो राजानं परिरक्षत 009c संशयं परमं प्राप्तं मज्जन्तं व्यसनार्णवे 010a एते क्रुद्धा महेष्वासाः पाण्डवानां महारथाः 010c भीमसेनं पुरस्कृत्य दुर्योधनमुपद्रुताः 011a नानाविधानि शस्त्राणि विसृजन्तो जये रताः 011c नदन्तो भैरवान्नादांस्त्रासयन्तश्च भूमिमाम् 012a तदाचार्यवचः श्रुत्वा सोमदत्तपुरोगमाः 012c तावकाः समवर्तन्त पाण्डवानामनीकिनीम् 013a कृपो भूरिश्रवाः शल्यो द्रोणपुत्रो विविंशतिः 013c चित्रसेनो विकर्णश्च सैन्धवोऽथ बृहद्बलः 013e आवन्त्यौ च महेष्वासौ कौरवं पर्यवारयन् 014a ते विंशतिपदं गत्वा सम्प्रहारं प्रचक्रिरे 014c पाण्डवा धार्तराष्ट्राश्च परस्परजिघांसवः 015a एवमुक्त्वा महाबाहुर्महद्विस्फार्य कार्मुकम् 015c भारद्वाजस्ततो भीमं षड्विंशत्या समार्पयत् 016a भूयश्चैनं महाबाहुः शरैः शीघ्रमवाकिरत् 016c पर्वतं वारिधाराभिः शरदीव बलाहकः 017a तं प्रत्यविध्यद्दशभिर्भीमसेनः शिलीमुखैः 017c त्वरमाणो महेष्वासः सव्ये पार्श्वे महाबलः 018a स गाढविद्धो व्यथितो वयोवृद्धश्च भारत 018c प्रनष्टसञ्ज्ञः सहसा रथोपस्थ उपाविशत् 019a गुरुं प्रव्यथितं दृष्ट्वा राजा दुर्योधनः स्वयम् 019c द्रौणायनिश्च सङ्क्रुद्धौ भीमसेनमभिद्रुतौ 020a तावापतन्तौ सम्प्रेक्ष्य कालान्तकयमोपमौ 020c भीमसेनो महाबाहुर्गदामादाय सत्वरः 021a अवप्लुत्य रथात्तूर्णं तस्थौ गिरिरिवाचलः 021c समुद्यम्य गदां गुर्वीं यमदण्डोपमां रणे 022a तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम् 022c कौरवो द्रोणपुत्रश्च सहितावभ्यधावताम् 023a तावापतन्तौ सहितौ त्वरितौ बलिनां वरौ 023c अभ्यधावत वेगेन त्वरमाणो वृकोदरः 024a तमापतन्तं सम्प्रेक्ष्य सङ्क्रुद्धं भीमदर्शनम् 024c समभ्यधावंस्त्वरिताः कौरवाणां महारथाः 025a भारद्वाजमुखाः सर्वे भीमसेनजिघांसया 025c नानाविधानि शस्त्राणि भीमस्योरस्यपातयन् 025e सहिताः पाण्डवं सर्वे पीडयन्तः समन्ततः 026a तं दृष्ट्वा संशयं प्राप्तं पीड्यमानं महारथम् 026c अभिमन्युप्रभृतयः पाण्डवानां महारथाः 026e अभ्यधावन्परीप्सन्तः प्राणांस्त्यक्त्वा सुदुस्त्यजान् 027a अनूपाधिपतिः शूरो भीमस्य दयितः सखा 027c नीलो नीलाम्बुदप्रख्यः सङ्क्रुद्धो द्रौणिमभ्ययात् 027e स्पर्धते हि महेष्वासो नित्यं द्रोणसुतेन यः 028a स विस्फार्य महच्चापं द्रौणिं विव्याध पत्रिणा 028c यथा शक्रो महाराज पुरा विव्याध दानवम् 029a विप्रचित्तिं दुराधर्षं देवतानां भयङ्करम् 029c येन लोकत्रयं क्रोधात्त्रासितं स्वेन तेजसा 030a तथा नीलेन निर्भिन्नः सुमुखेन पतत्रिणा 030c सञ्जातरुधिरोत्पीडो द्रौणिः क्रोधसमन्वितः 031a स विस्फार्य धनुश्चित्रमिन्द्राशनिसमस्वनम् 031c दध्रे नीलविनाशाय मतिं मतिमतां वरः 032a ततः सन्धाय विमलान्भल्लान्कर्मारपायितान् 032c जघान चतुरो वाहान्पातयामास च ध्वजम् 033a सप्तमेन च भल्लेन नीलं विव्याध वक्षसि 033c स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् 034a मोहितं वीक्ष्य राजानं नीलमभ्रचयोपमम् 034c घटोत्कचोऽपि सङ्क्रुद्धो भ्रातृभिः परिवारितः 035a अभिदुद्राव वेगेन द्रौणिमाहवशोभिनम् 035c तथेतरे अभ्यधावन्राक्षसा युद्धदुर्मदाः 036a तमापतन्तं सम्प्रेक्ष्य राक्षसं घोरदर्शनम् 036c अभ्यधावत तेजस्वी भारद्वाजात्मजस्त्वरन् 037a निजघान च सङ्क्रुद्धो राक्षसान्भीमदर्शनान् 037c येऽभवन्नग्रतः क्रुद्धा राक्षसस्य पुरःसराः 038a विमुखांश्चैव तान्दृष्ट्वा द्रौणिचापच्युतैः शरैः 038c अक्रुध्यत महाकायो भैमसेनिर्घटोत्कचः 039a प्रादुश्चक्रे महामायां घोररूपां सुदारुणाम् 039c मोहयन्समरे द्रौणिं मायावी राक्षसाधिपः 040a ततस्ते तावकाः सर्वे मायया विमुखीकृताः 040c अन्योन्यं समपश्यन्त निकृत्तान्मेदिनीतले 040e विचेष्टमानान्कृपणाञ्शोणितेन समुक्षितान् 041a द्रोणं दुर्योधनं शल्यमश्वत्थामानमेव च 041c प्रायशश्च महेष्वासा ये प्रधानाश्च कौरवाः 042a विध्वस्ता रथिनः सर्वे गजाश्च विनिपातिताः 042c हयाश्च सहयारोहा विनिकृत्ताः सहस्रशः 043a तद्दृष्ट्वा तावकं सैन्यं विद्रुतं शिबिरं प्रति 043c मम प्राक्रोशतो राजंस्तथा देवव्रतस्य च 044a युध्यध्वं मा पलायध्वं मायैषा राक्षसी रणे 044c घटोत्कचप्रयुक्तेति नातिष्ठन्त विमोहिताः 044e नैव ते श्रद्दधुर्भीता वदतोरावयोर्वचः 045a तांश्च प्रद्रवतो दृष्ट्वा जयं प्राप्ताश्च पाण्डवाः 045c घटोत्कचेन सहिताः सिंहनादान्प्रचक्रिरे 045e शङ्खदुन्दुभिघोषाश्च समन्तात्सस्वनुर्भृशम् 046a एवं तव बलं सर्वं हैडिम्बेन दुरात्मना 046c सूर्यास्तमनवेलायां प्रभग्नं विद्रुतं दिशः