001 सञ्जय उवाच 001a विमुखीकृत्य तान्सर्वांस्तावकान्युधि राक्षसः 001c जिघांसुर्भरतश्रेष्ठ दुर्योधनमुपाद्रवत् 002a तमापतन्तं सम्प्रेक्ष्य राजानं प्रति वेगितम् 002c अभ्यधावञ्जिघांसन्तस्तावका युद्धदुर्मदाः 003a तालमात्राणि चापानि विकर्षन्तो महाबलाः 003c तमेकमभ्यधावन्त नदन्तः सिंहसङ्घवत् 004a अथैनं शरवर्षेण समन्तात्पर्यवारयन् 004c पर्वतं वारिधाराभिः शरदीव बलाहकाः 005a स गाढविद्धो व्यथितस्तोत्त्रार्दित इव द्विपः 005c उत्पपात तदाकाशं समन्ताद्वैनतेयवत् 006a व्यनदत्सुमहानादं जीमूत इव शारदः 006c दिशः खं प्रदिशश्चैव नादयन्भैरवस्वनः 007a राक्षसस्य तु तं शब्दं श्रुत्वा राजा युधिष्ठिरः 007c उवाच भरतश्रेष्ठो भीमसेनमिदं वचः 008a युध्यते राक्षसो नूनं धार्तराष्ट्रैर्महारथैः 008c यथास्य श्रूयते शब्दो नदतो भैरवं स्वनम् 008e अतिभारं च पश्यामि तत्र तात समाहितम् 009a पितामहश्च सङ्क्रुद्धः पाञ्चालान्हन्तुमुद्यतः 009c तेषां च रक्षणार्थाय युध्यते फल्गुनः परैः 010a एतच्छ्रुत्वा महाबाहो कार्यद्वयमुपस्थितम् 010c गच्छ रक्षस्व हैडिम्बं संशयं परमं गतम् 011a भ्रातुर्वचनमाज्ञाय त्वरमाणो वृकोदरः 011c प्रययौ सिंहनादेन त्रासयन्सर्वपार्थिवान् 011e वेगेन महता राजन्पर्वकाले यथोदधिः 012a तमन्वयात्सत्यधृतिः सौचित्तिर्युद्धदुर्मदः 012c श्रेणिमान्वसुदानश्च पुत्रः काश्यस्य चाभिभूः 013a अभिमन्युमुखाश्चैव द्रौपदेया महारथाः 013c क्षत्रदेवश्च विक्रान्तः क्षत्रधर्मा तथैव च 014a अनूपाधिपतिश्चैव नीलः स्वबलमास्थितः 014c महता रथवंशेन हैडिम्बं पर्यवारयन् 015a कुञ्जरैश्च सदा मत्तैः षट्सहस्रैः प्रहारिभिः 015c अभ्यरक्षन्त सहिता राक्षसेन्द्रं घटोत्कचम् 016a सिंहनादेन महता नेमिघोषेण चैव हि 016c खुरशब्दनिनादैश्च कम्पयन्तो वसुन्धराम् 017a तेषामापततां श्रुत्वा शब्दं तं तावकं बलम् 017c भीमसेनभयोद्विग्नं विवर्णवदनं तथा 017e परिवृत्तं महाराज परित्यज्य घटोत्कचम् 018a ततः प्रववृते युद्धं तत्र तत्र महात्मनाम् 018c तावकानां परेषां च सङ्ग्रामेष्वनिवर्तिनाम् 019a नानारूपाणि शस्त्राणि विसृजन्तो महारथाः 019c अन्योन्यमभिधावन्तः सम्प्रहारं प्रचक्रिरे 019e व्यतिषक्तं महारौद्रं युद्धं भीरुभयावहम् 020a हया गजैः समाजग्मुः पादाता रथिभिः सह 020c अन्योन्यं समरे राजन्प्रार्थयाना महद्यशः 021a सहसा चाभवत्तीव्रं सन्निपातान्महद्रजः 021c रथाश्वगजपत्तीनां पदनेमिसमुद्धतम् 022a धूम्रारुणं रजस्तीव्रं रणभूमिं समावृणोत् 022c नैव स्वे न परे राजन्समजानन्परस्परम् 023a पिता पुत्रं न जानीते पुत्रो वा पितरं तथा 023c निर्मर्यादे तथा भूते वैशसे लोमहर्षणे 024a शस्त्राणां भरतश्रेष्ठ मनुष्याणां च गर्जताम् 024c सुमहानभवच्छब्दो वंशानामिव दह्यताम् 025a गजवाजिमनुष्याणां शोणितान्त्रतरङ्गिणी 025c प्रावर्तत नदी तत्र केशशैवलशाद्वला 026a नराणां चैव कायेभ्यः शिरसां पततां रणे 026c शुश्रुवे सुमहाञ्शब्दः पततामश्मनामिव 027a विशिरस्कैर्मनुष्यैश्च छिन्नगात्रैश्च वारणैः 027c अश्वैः सम्भिन्नदेहैश्च सङ्कीर्णाभूद्वसुन्धरा 028a नानाविधानि शस्त्राणि विसृजन्तो महारथाः 028c अन्योन्यमभिधावन्तः सम्प्रहारं प्रचक्रिरे 029a हया हयान्समासाद्य प्रेषिता हयसादिभिः 029c समाहत्य रणेऽन्योन्यं निपेतुर्गतजीविताः 030a नरा नरान्समासाद्य क्रोधरक्तेक्षणा भृशम् 030c उरांस्युरोभिरन्योन्यं समाश्लिष्य निजघ्निरे 031a प्रेषिताश्च महामात्रैर्वारणाः परवारणाः 031c अभिघ्नन्ति विषाणाग्रैर्वारणानेव संयुगे 032a ते जातरुधिरापीडाः पताकाभिरलङ्कृताः 032c संसक्ताः प्रत्यदृश्यन्त मेघा इव सविद्युतः 033a केचिद्भिन्ना विषाणाग्रैर्भिन्नकुम्भाश्च तोमरैः 033c विनदन्तोऽभ्यधावन्त गर्जन्तो जलदा इव 034a केचिद्धस्तैर्द्विधा छिन्नैश्छिन्नगात्रास्तथापरे 034c निपेतुस्तुमुले तस्मिंश्छिन्नपक्षा इवाद्रयः 035a पार्श्वैस्तु दारितैरन्ये वारणैर्वरवारणाः 035c मुमुचुः शोणितं भूरि धातूनिव महीधराः 036a नाराचाभिहतास्त्वन्ये तथा विद्धाश्च तोमरैः 036c हतारोहा व्यदृश्यन्त विशृङ्गा इव पर्वताः 037a केचित्क्रोधसमाविष्टा मदान्धा निरवग्रहाः 037c रथान्हयान्पदातांश्च ममृदुः शतशो रणे 038a तथा हया हयारोहैस्ताडिताः प्रासतोमरैः 038c तेन तेनाभ्यवर्तन्त कुर्वन्तो व्याकुला दिशः 039a रथिनो रथिभिः सार्धं कुलपुत्रास्तनुत्यजः 039c परां शक्तिं समास्थाय चक्रुः कर्माण्यभीतवत् 040a स्वयंवर इवामर्दे प्रजह्रुरितरेतरम् 040c प्रार्थयाना यशो राजन्स्वर्गं वा युद्धशालिनः 041a तस्मिंस्तथा वर्तमाने सङ्ग्रामे लोमहर्षणे 041c धार्तराष्ट्रं महत्सैन्यं प्रायशो विमुखीकृतम्