001 सञ्जय उवाच 001a ततस्तद्बाणवर्षं तु दुःसहं दानवैरपि 001c दधार युधि राजेन्द्रो यथा वर्षं महाद्विपः 002a ततः क्रोधसमाविष्टो निःश्वसन्निव पन्नगः 002c संशयं परमं प्राप्तः पुत्रस्ते भरतर्षभ 003a मुमोच निशितांस्तीक्ष्णान्नाराचान्पञ्चविंशतिम् 003c तेऽपतन्सहसा राजंस्तस्मिन्राक्षसपुङ्गवे 003e आशीविषा इव क्रुद्धाः पर्वते गन्धमादने 004a स तैर्विद्धः स्रवन्रक्तं प्रभिन्न इव कुञ्जरः 004c दध्रे मतिं विनाशाय राज्ञः स पिशिताशनः 004e जग्राह च महाशक्तिं गिरीणामपि दारणीम् 005a सम्प्रदीप्तां महोल्काभामशनीं मघवानिव 005c समुद्यच्छन्महाबाहुर्जिघांसुस्तनयं तव 006a तामुद्यतामभिप्रेक्ष्य वङ्गानामधिपस्त्वरन् 006c कुञ्जरं गिरिसङ्काशं राक्षसं प्रत्यचोदयत् 007a स नागप्रवरेणाजौ बलिना शीघ्रगामिना 007c यतो दुर्योधनरथस्तं मार्गं प्रत्यपद्यत 007e रथं च वारयामास कुञ्जरेण सुतस्य ते 008a मार्गमावारितं दृष्ट्वा राज्ञा वङ्गेन धीमता 008c घटोत्कचो महाराज क्रोधसंरक्तलोचनः 008e उद्यतां तां महाशक्तिं तस्मिंश्चिक्षेप वारणे 009a स तयाभिहतो राजंस्तेन बाहुविमुक्तया 009c सञ्जातरुधिरोत्पीडः पपात च ममार च 010a पतत्यथ गजे चापि वङ्गानामीश्वरो बली 010c जवेन समभिद्रुत्य जगाम धरणीतलम् 011a दुर्योधनोऽपि सम्प्रेक्ष्य पातितं वरवारणम् 011c प्रभग्नं च बलं दृष्ट्वा जगाम परमां व्यथाम् 012a क्षत्रधर्मं पुरस्कृत्य आत्मनश्चाभिमानिताम् 012c प्राप्तेऽपक्रमणे राजा तस्थौ गिरिरिवाचलः 013a सन्धाय च शितं बाणं कालाग्निसमतेजसम् 013c मुमोच परमक्रुद्धस्तस्मिन्घोरे निशाचरे 014a तमापतन्तं सम्प्रेक्ष्य बाणमिन्द्राशनिप्रभम् 014c लाघवाद्वञ्चयामास महाकायो घटोत्कचः 015a भूय एव ननादोग्रः क्रोधसंरक्तलोचनः 015c त्रासयन्सर्वभूतानि युगान्ते जलदो यथा 016a तं श्रुत्वा निनदं घोरं तस्य भीष्मस्य रक्षसः 016c आचार्यमुपसङ्गम्य भीष्मः शान्तनवोऽब्रवीत् 017a यथैष निनदो घोरः श्रूयते राक्षसेरितः 017c हैडिम्बो युध्यते नूनं राज्ञा दुर्योधनेन ह 018a नैष शक्यो हि सङ्ग्रामे जेतुं भूतेन केनचित् 018c तत्र गच्छत भद्रं वो राजानं परिरक्षत 019a अभिद्रुतं महाभागं राक्षसेन दुरात्मना 019c एतद्धि परमं कृत्यं सर्वेषां नः परन्तपाः 020a पितामहवचः श्रुत्वा त्वरमाणा महारथाः 020c उत्तमं जवमास्थाय प्रययुर्यत्र कौरवः 021a द्रोणश्च सोमदत्तश्च बाह्लिकश्च जयद्रथः 021c कृपो भूरिश्रवाः शल्यश्चित्रसेनो विविंशतिः 022a अश्वत्थामा विकर्णश्च आवन्त्यश्च बृहद्बलः 022c रथाश्चानेकसाहस्रा ये तेषामनुयायिनः 022e अभिद्रुतं परीप्सन्तः पुत्रं दुर्योधनं तव 023a तदनीकमनाधृष्यं पालितं लोकसत्तमैः 023c आततायिनमायान्तं प्रेक्ष्य राक्षससत्तमः 023e नाकम्पत महाबाहुर्मैनाक इव पर्वतः 024a प्रगृह्य विपुलं चापं ज्ञातिभिः परिवारितः 024c शूलमुद्गरहस्तैश्च नानाप्रहरणैरपि 025a ततः समभवद्युद्धं तुमुलं लोमहर्षणम् 025c राक्षसानां च मुख्यस्य दुर्योधनबलस्य च 026a धनुषां कूजतां शब्दः सर्वतस्तुमुलोऽभवत् 026c अश्रूयत महाराज वंशानां दह्यतामिव 027a शस्त्राणां पात्यमानानां कवचेषु शरीरिणाम् 027c शब्दः समभवद्राजन्नद्रीणामिव दीर्यताम् 028a वीरबाहुविसृष्टानां तोमराणां विशाम्पते 028c रूपमासीद्वियत्स्थानां सर्पाणां सर्पतामिव 029a ततः परमसङ्क्रुद्धो विस्फार्य सुमहद्धनुः 029c राक्षसेन्द्रो महाबाहुर्विनदन्भैरवं रवम् 030a आचार्यस्यार्धचन्द्रेण क्रुद्धश्चिच्छेद कार्मुकम् 030c सोमदत्तस्य भल्लेन ध्वजमुन्मथ्य चानदत् 031a बाह्लिकं च त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे 031c कृपमेकेन विव्याध चित्रसेनं त्रिभिः शरैः 032a पूर्णायतविसृष्टेन सम्यक्प्रणिहितेन च 032c जत्रुदेशे समासाद्य विकर्णं समताडयत् 032e न्यषीदत्स रथोपस्थे शोणितेन परिप्लुतः 033a ततः पुनरमेयात्मा नाराचान्दश पञ्च च 033c भूरिश्रवसि सङ्क्रुद्धः प्राहिणोद्भरतर्षभ 033e ते वर्म भित्त्वा तस्याशु प्राविशन्मेदिनीतलम् 034a विविंशतेश्च द्रौणेश्च यन्तारौ समताडयत् 034c तौ पेततू रथोपस्थे रश्मीनुत्सृज्य वाजिनाम् 035a सिन्धुराज्ञोऽर्धचन्द्रेण वाराहं स्वर्णभूषितम् 035c उन्ममाथ महाराज द्वितीयेनाच्छिनद्धनुः 036a चतुर्भिरथ नाराचैरावन्त्यस्य महात्मनः 036c जघान चतुरो वाहान्क्रोधसंरक्तलोचनः 037a पूर्णायतविसृष्टेन पीतेन निशितेन च 037c निर्बिभेद महाराज राजपुत्रं बृहद्बलम् 037e स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् 038a भृशं क्रोधेन चाविष्टो रथस्थो राक्षसाधिपः 038c चिक्षेप निशितांस्तीक्ष्णाञ्शरानाशीविषोपमान् 038e बिभिदुस्ते महाराज शल्यं युद्धविशारदम्