001 धृतराष्ट्र उवाच 001a इरावन्तं तु निहतं दृष्ट्वा पार्था महारथाः 001c सङ्ग्रामे किमकुर्वन्त तन्ममाचक्ष्व सञ्जय 002 सञ्जय उवाच 002a इरावन्तं तु निहतं सङ्ग्रामे वीक्ष्य राक्षसः 002c व्यनदत्सुमहानादं भैमसेनिर्घटोत्कचः 003a नदतस्तस्य शब्देन पृथिवी सागराम्बरा 003c सपर्वतवना राजंश्चचाल सुभृशं तदा 003e अन्तरिक्षं दिशश्चैव सर्वाश्च प्रदिशस्तथा 004a तं श्रुत्वा सुमहानादं तव सैन्यस्य भारत 004c ऊरुस्तम्भः समभवद्वेपथुः स्वेद एव च 005a सर्व एव च राजेन्द्र तावका दीनचेतसः 005c सर्पवत्समवेष्टन्त सिंहभीता गजा इव 006a निनदत्सुमहानादं निर्घातमिव राक्षसः 006c ज्वलितं शूलमुद्यम्य रूपं कृत्वा विभीषणम् 007a नानाप्रहरणैर्घोरैर्वृतो राक्षसपुङ्गवैः 007c आजगाम सुसङ्क्रुद्धः कालान्तकयमोपमः 008a तमापतन्तं सम्प्रेक्ष्य सङ्क्रुद्धं भीमदर्शनम् 008c स्वबलं च भयात्तस्य प्रायशो विमुखीकृतम् 009a ततो दुर्योधनो राजा घटोत्कचमुपाद्रवत् 009c प्रगृह्य विपुलं चापं सिंहवद्विनदन्मुहुः 010a पृष्ठतोऽनुययौ चैनं स्रवद्भिः पर्वतोपमैः 010c कुञ्जरैर्दशसाहस्रैर्वङ्गानामधिपः स्वयम् 011a तमापतन्तं सम्प्रेक्ष्य गजानीकेन संवृतम् 011c पुत्रं तव महाराज चुकोप स निशाचरः 012a ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् 012c राक्षसानां च राजेन्द्र दुर्योधनबलस्य च 013a गजानीकं च सम्प्रेक्ष्य मेघवृन्दमिवोद्यतम् 013c अभ्यधावन्त सङ्क्रुद्धा राक्षसाः शस्त्रपाणयः 014a नदन्तो विविधान्नादान्मेघा इव सविद्युतः 014c शरशक्त्यृष्टिनाराचैर्निघ्नन्तो गजयोधिनः 015a भिण्डिपालैस्तथा शूलैर्मुद्गरैः सपरश्वधैः 015c पर्वताग्रैश्च वृक्षैश्च निजघ्नुस्ते महागजान् 016a भिन्नकुम्भान्विरुधिरान्भिन्नगात्रांश्च वारणान् 016c अपश्याम महाराज वध्यमानान्निशाचरैः 017a तेषु प्रक्षीयमाणेषु भग्नेषु गजयोधिषु 017c दुर्योधनो महाराज राक्षसान्समुपाद्रवत् 018a अमर्षवशमापन्नस्त्यक्त्वा जीवितमात्मनः 018c मुमोच निशितान्बाणान्राक्षसेषु महाबलः 019a जघान च महेष्वासः प्रधानांस्तत्र राक्षसान् 019c सङ्क्रुद्धो भरतश्रेष्ठ पुत्रो दुर्योधनस्तव 020a वेगवन्तं महारौद्रं विद्युज्जिह्वं प्रमाथिनम् 020c शरैश्चतुर्भिश्चतुरो निजघान महारथः 021a ततः पुनरमेयात्मा शरवर्षं दुरासदम् 021c मुमोच भरतश्रेष्ठ निशाचरबलं प्रति 022a तत्तु दृष्ट्वा महत्कर्म पुत्रस्य तव मारिष 022c क्रोधेनाभिप्रजज्वाल भैमसेनिर्महाबलः 023a विस्फार्य च महच्चापमिन्द्राशनिसमस्वनम् 023c अभिदुद्राव वेगेन दुर्योधनमरिन्दमम् 024a तमापतन्तमुद्वीक्ष्य कालसृष्टमिवान्तकम् 024c न विव्यथे महाराज पुत्रो दुर्योधनस्तव 025a अथैनमब्रवीत्क्रुद्धः क्रूरः संरक्तलोचनः 025c ये त्वया सुनृशंसेन दीर्घकालं प्रवासिताः 025e यच्च ते पाण्डवा राजंश्छलद्यूते पराजिताः 026a यच्चैव द्रौपदी कृष्णा एकवस्त्रा रजस्वला 026c सभामानीय दुर्बुद्धे बहुधा क्लेशिता त्वया 027a तव च प्रियकामेन आश्रमस्था दुरात्मना 027c सैन्धवेन परिक्लिष्टा परिभूय पितॄन्मम 028a एतेषामवमानानामन्येषां च कुलाधम 028c अन्तमद्य गमिष्यामि यदि नोत्सृजसे रणम् 029a एवमुक्त्वा तु हैडिम्बो महद्विस्फार्य कार्मुकम् 029c सन्दश्य दशनैरोष्ठं सृक्किणी परिसंलिहन् 030a शरवर्षेण महता दुर्योधनमवाकिरत् 030c पर्वतं वारिधाराभिः प्रावृषीव बलाहकः