001 सञ्जय उवाच 001a वर्तमाने तथा रौद्रे राजन्वीरवरक्षये 001c शकुनिः सौबलः श्रीमान्पाण्डवान्समुपाद्रवत् 002a तथैव सात्वतो राजन्हार्दिक्यः परवीरहा 002c अभ्यद्रवत सङ्ग्रामे पाण्डवानामनीकिनीम् 003a ततः काम्बोजमुख्यानां नदीजानाञ्च वाजिनाम् 003c आरट्टानां महीजानां सिन्धुजानाञ्च सर्वशः 004a वनायुजानां शुभ्राणां तथा पर्वतवासिनाम् 004c ये चापरे तित्तिरजा जवना वातरंहसः 005a सुवर्णालङ्कृतैरेतैर्वर्मवद्भिः सुकल्पितैः 005c हयैर्वातजवैर्मुख्यैः पाण्डवस्य सुतो बली 005e अभ्यवर्तत तत्सैन्यं हृष्टरूपः परन्तपः 006a अर्जुनस्याथ दायाद इरावान्नाम वीर्यवान् 006c सुतायां नागराजस्य जातः पार्थेन धीमता 007a ऐरावतेन सा दत्ता अनपत्या महात्मना 007c पत्यौ हते सुपर्णेन कृपणा दीनचेतना 008a भार्यार्थं ताञ्च जग्राह पार्थः कामवशानुगाम् 008c एवमेष समुत्पन्नः परक्षेत्रेऽर्जुनात्मजः 009a स नागलोके संवृद्धो मात्रा च परिरक्षितः 009c पितृव्येण परित्यक्तः पार्थद्वेषाद्दुरात्मना 010a रूपवान्वीर्यसम्पन्नो गुणवान्सत्यविक्रमः 010c इन्द्रलोकं जगामाशु श्रुत्वा तत्रार्जुनं गतम् 011a सोऽभिगम्य महात्मानं पितरं सत्यविक्रमम् 011c अभ्यवादयदव्यग्रो विनयेन कृताञ्जलिः 011e इरावानस्मि भद्रं ते पुत्रश्चाहं तवाभिभो 012a मातुः समागमो यश्च तत्सर्वं प्रत्यवेदयत् 012c तच्च सर्वं यथावृत्तमनुसस्मार पाण्डवः 013a परिष्वज्य सुतं चापि सोऽऽत्मनः सदृशं गुणैः 013c प्रीतिमानभवत्पार्थो देवराजनिवेशने 014a सोऽर्जुनेन समाज्ञप्तो देवलोके तदा नृप 014c प्रीतिपूर्वं महाबाहुः स्वकार्यं प्रति भारत 014e युद्धकाले त्वयास्माकं साह्यं देयमिति प्रभो 015a बाढमित्येवमुक्त्वा च युद्धकाल उपागतः 015c कामवर्णजवैरश्वैः संवृतो बहुभिर्नृप 016a ते हयाः काञ्चनापीडा नानावर्णा मनोजवाः 016c उत्पेतुः सहसा राजन्हंसा इव महोदधौ 017a ते त्वदीयान्समासाद्य हयसङ्घान्महाजवान् 017c क्रोडैः क्रोडानभिघ्नन्तो घोणाभिश्च परस्परम् 017e निपेतुः सहसा राजन्सुवेगाभिहता भुवि 018a निपतद्भिस्तथा तैश्च हयसङ्घैः परस्परम् 018c शुश्रुवे दारुणः शब्दः सुपर्णपतने यथा 019a तथैव च महाराज समेत्यान्योन्यमाहवे 019c परस्परवधं घोरं चक्रुस्ते हयसादिनः 020a तस्मिंस्तथा वर्तमाने सङ्कुले तुमुले भृशम् 020c उभयोरपि संशान्ता हयसङ्घाः समन्ततः 021a प्रक्षीणसायकाः शूरा निहताश्वाः श्रमातुराः 021c विलयं समनुप्राप्तास्तक्षमाणाः परस्परम् 022a ततः क्षीणे हयानीके किञ्चिच्छेषे च भारत 022c सौबलस्यात्मजाः शूरा निर्गता रणमूर्धनि 023a वायुवेगसमस्पर्शा जवे वायुसमांस्तथा 023c आरुह्य शीलसम्पन्नान्वयःस्थांस्तुरगोत्तमान् 024a गजो गवाक्षो वृषकश्चर्मवानार्जवः शुकः 024c षडेते बलसम्पन्ना निर्ययुर्महतो बलात् 025a वार्यमाणाः शकुनिना स्वैश्च योधैर्महाबलैः 025c सन्नद्धा युद्धकुशला रौद्ररूपा महाबलाः 026a तदनीकं महाबाहो भित्त्वा परमदुर्जयम् 026c बलेन महता युक्ताः स्वर्गाय विजयैषिणः 026e विविशुस्ते तदा हृष्टा गान्धारा युद्धदुर्मदाः 027a तान्प्रविष्टांस्तदा दृष्ट्वा इरावानपि वीर्यवान् 027c अब्रवीत्समरे योधान्विचित्राभरणायुधान् 028a यथैते धार्तराष्ट्रस्य योधाः सानुगवाहनाः 028c हन्यन्ते समरे सर्वे तथा नीतिर्विधीयताम् 029a बाढमित्येवमुक्त्वा ते सर्वे योधा इरावतः 029c जघ्नुस्ते वै परानीकं दुर्जयं समरे परैः 030a तदनीकमनीकेन समरे वीक्ष्य पातितम् 030c अमृष्यमाणास्ते सर्वे सुबलस्यात्मजा रणे 030e इरावन्तमभिद्रुत्य सर्वतः पर्यवारयन् 031a ताडयन्तः शितैः प्रासैश्चोदयन्तः परस्परम् 031c ते शूराः पर्यधावन्त कुर्वन्तो महदाकुलम् 032a इरावानथ निर्भिन्नः प्रासैस्तीक्ष्णैर्महात्मभिः 032c स्रवता रुधिरेणाक्तस्तोत्त्रैर्विद्ध इव द्विपः 033a उरस्यपि च पृष्ठे च पार्श्वयोश्च भृशाहतः 033c एको बहुभिरत्यर्थं धैर्याद्राजन्न विव्यथे 034a इरावानथ सङ्क्रुद्धः सर्वांस्तान्निशितैः शरैः 034c मोहयामास समरे विद्ध्वा परपुरञ्जयः 035a प्रासानुद्धृत्य सर्वांश्च स्वशरीरादरिन्दमः 035c तैरेव ताडयामास सुबलस्यात्मजान्रणे 036a निकृष्य निशितं खड्गं गृहीत्वा च शरावरम् 036c पदातिस्तूर्णमागच्छज्जिघांसुः सौबलान्युधि 037a ततः प्रत्यागतप्राणाः सर्वे ते सुबलात्मजाः 037c भूयः क्रोधसमाविष्टा इरावन्तमथाद्रवन् 038a इरावानपि खड्गेन दर्शयन्पाणिलाघवम् 038c अभ्यवर्तत तान्सर्वान्सौबलान्बलदर्पितः 039a लाघवेनाथ चरतः सर्वे ते सुबलात्मजाः 039c अन्तरं नाध्यगच्छन्त चरन्तः शीघ्रगामिनः 040a भूमिष्ठमथ तं सङ्ख्ये सम्प्रदृश्य ततः पुनः 040c परिवार्य भृशं सर्वे ग्रहीतुमुपचक्रमुः 041a अथाभ्याशगतानां स खड्गेनामित्रकर्शनः 041c उपहस्तावहस्ताभ्यां तेषां गात्राण्यकृन्तत 042a आयुधानि च सर्वेषां बाहूनपि च भूषितान् 042c अपतन्त निकृत्ताङ्गा गता भूमिं गतासवः 043a वृषकस्तु महाराज बहुधा परिविक्षतः 043c अमुच्यत महारौद्रात्तस्माद्वीरावकर्तनात् 044a तान्सर्वान्पतितान्दृष्ट्वा भीतो दुर्योधनस्ततः 044c अभ्यभाषत सङ्क्रुद्धो राक्षसं घोरदर्शनम् 045a आर्श्यशृङ्गिं महेष्वासं मायाविनमरिन्दमम् 045c वैरिणं भीमसेनस्य पूर्वं बकवधेन वै 046a पश्य वीर यथा ह्येष फल्गुनस्य सुतो बली 046c मायावी विप्रियं घोरमकार्षीन्मे बलक्षयम् 047a त्वं च कामगमस्तात मायास्त्रे च विशारदः 047c कृतवैरश्च पार्थेन तस्मादेनं रणे जहि 048a बाढमित्येवमुक्त्वा तु राक्षसो घोरदर्शनः 048c प्रययौ सिंहनादेन यत्रार्जुनसुतो युवा 049a स्वारूढैर्युद्धकुशलैर्विमलप्रासयोधिभिः 049c वीरैः प्रहारिभिर्युक्तः स्वैरनीकैः समावृतः 049e निहन्तुकामः समरे इरावन्तं महाबलम् 050a इरावानपि सङ्क्रुद्धस्त्वरमाणः पराक्रमी 050c हन्तुकामममित्रघ्नो राक्षसं प्रत्यवारयत् 051a तमापतन्तं सम्प्रेक्ष्य राक्षसः सुमहाबलः 051c त्वरमाणस्ततो मायां प्रयोक्तुमुपचक्रमे 052a तेन मायामयाः कॢप्ता हयास्तावन्त एव हि 052c स्वारूढा राक्षसैर्घोरैः शूलपट्टिशपाणिभिः 053a ते संरब्धाः समागम्य द्विसाहस्राः प्रहारिणः 053c अचिराद्गमयामासुः प्रेतलोकं परस्परम् 054a तस्मिंस्तु निहते सैन्ये तावुभौ युद्धदुर्मदौ 054c सङ्ग्रामे व्यवतिष्ठेतां यथा वै वृत्रवासवौ 055a आद्रवन्तमभिप्रेक्ष्य राक्षसं युद्धदुर्मदम् 055c इरावान्क्रोधसंरब्धः प्रत्यधावन्महाबलः 056a समभ्याशगतस्याजौ तस्य खड्गेन दुर्मतेः 056c चिच्छेद कार्मुकं दीप्तं शरावापं च पञ्चकम् 057a स निकृत्तं धनुर्दृष्ट्वा खं जवेन समाविशत् 057c इरावन्तमभिक्रुद्धं मोहयन्निव मायया 058a ततोऽन्तरिक्षमुत्पत्य इरावानपि राक्षसम् 058c विमोहयित्वा मायाभिस्तस्य गात्राणि सायकैः 058e चिच्छेद सर्वमर्मज्ञः कामरूपो दुरासदः 059a तथा स राक्षसश्रेष्ठः शरैः कृत्तः पुनः पुनः 059c सम्बभूव महाराज समवाप च यौवनम् 060a माया हि सहजा तेषां वयो रूपं च कामजम् 060c एवं तद्राक्षसस्याङ्गं छिन्नं छिन्नं व्यरोहत 061a इरावानपि सङ्क्रुद्धो राक्षसं तं महाबलम् 061c परश्वधेन तीक्ष्णेन चिच्छेद च पुनः पुनः 062a स तेन बलिना वीरश्छिद्यमान इव द्रुमः 062c राक्षसो व्यनदद्घोरं स शब्दस्तुमुलोऽभवत् 063a परश्वधक्षतं रक्षः सुस्राव रुधिरं बहु 063c ततश्चुक्रोध बलवांश्चक्रे वेगं च संयुगे 064a आर्श्यशृङ्गिस्ततो दृष्ट्वा समरे शत्रुमूर्जितम् 064c कृत्वा घोरं महद्रूपं ग्रहीतुमुपचक्रमे 064e सङ्ग्रामशिरसो मध्ये सर्वेषां तत्र पश्यताम् 065a तां दृष्ट्वा तादृशीं मायां राक्षसस्य महात्मनः 065c इरावानपि सङ्क्रुद्धो मायां स्रष्टुं प्रचक्रमे 066a तस्य क्रोधाभिभूतस्य संयुगेष्वनिवर्तिनः 066c योऽन्वयो मातृकस्तस्य स एनमभिपेदिवान् 067a स नागैर्बहुशो राजन्सर्वतः संवृतो रणे 067c दधार सुमहद्रूपमनन्त इव भोगवान् 067e ततो बहुविधैर्नागैश्छादयामास राक्षसम् 068a छाद्यमानस्तु नागैः स ध्यात्वा राक्षसपुङ्गवः 068c सौपर्णं रूपमास्थाय भक्षयामास पन्नगान् 069a मायया भक्षिते तस्मिन्नन्वये तस्य मातृके 069c विमोहितमिरावन्तमसिना राक्षसोऽवधीत् 070a सकुण्डलं समुकुटं पद्मेन्दुसदृशप्रभम् 070c इरावतः शिरो रक्षः पातयामास भूतले 071a तस्मिंस्तु निहते वीरे राक्षसेनार्जुनात्मजे 071c विशोकाः समपद्यन्त धार्तराष्ट्राः सराजकाः 072a तस्मिन्महति सङ्ग्रामे तादृशे भैरवे पुनः 072c महान्व्यतिकरो घोरः सेनयोः समपद्यत 073a हया गजाः पदाताश्च विमिश्रा दन्तिभिर्हताः 073c रथाश्च दन्तिनश्चैव पत्तिभिस्तत्र सूदिताः 074a तथा पत्तिरथौघाश्च हयाश्च बहवो रणे 074c रथिभिर्निहता राजंस्तव तेषां च सङ्कुले 075a अजानन्नर्जुनश्चापि निहतं पुत्रमौरसम् 075c जघान समरे शूरान्राज्ञस्तान्भीष्मरक्षिणः 076a तथैव तावका राजन्सृञ्जयाश्च महाबलाः 076c जुह्वतः समरे प्राणान्निजघ्नुरितरेतरम् 077a मुक्तकेशा विकवचा विरथाश्छिन्नकार्मुकाः 077c बाहुभिः समयुध्यन्त समवेताः परस्परम् 078a तथा मर्मातिगैर्भीष्मो निजघान महारथान् 078c कम्पयन्समरे सेनां पाण्डवानां महाबलः 079a तेन यौधिष्ठिरे सैन्ये बहवो मानवा हताः 079c दन्तिनः सादिनश्चैव रथिनोऽथ हयास्तथा 080a तत्र भारत भीष्मस्य रणे दृष्ट्वा पराक्रमम् 080c अत्यद्भुतमपश्याम शक्रस्येव पराक्रमम् 081a तथैव भीमसेनस्य पार्षतस्य च भारत 081c रौद्रमासीत्तदा युद्धं सात्वतस्य च धन्विनः 082a दृष्ट्वा द्रोणस्य विक्रान्तं पाण्डवान्भयमाविशत् 082c एक एव रणे शक्तो हन्तुमस्मान्ससैनिकान् 083a किं पुनः पृथिवीशूरैर्योधव्रातैः समावृतः 083c इत्यब्रुवन्महाराज रणे द्रोणेन पीडिताः 084a वर्तमाने तथा रौद्रे सङ्ग्रामे भरतर्षभ 084c उभयोः सेनयोः शूरा नामृष्यन्त परस्परम् 085a आविष्टा इव युध्यन्ते रक्षोभूता महाबलाः 085c तावकाः पाण्डवेयाश्च संरब्धास्तात धन्विनः 086a न स्म पश्यामहे कञ्चिद्यः प्राणान्परिरक्षति 086c सङ्ग्रामे दैत्यसङ्काशे तस्मिन्योद्धा नराधिप