001 धृतराष्ट्र उवाच 001a दृष्ट्वा मम हतान्पुत्रान्बहूनेकेन सञ्जय 001c भीष्मो द्रोणः कृपश्चैव किमकुर्वत संयुगे 002a अहन्यहनि मे पुत्राः क्षयं गच्छन्ति सञ्जय 002c मन्येऽहं सर्वथा सूत दैवेनोपहता भृशम् 003a यत्र मे तनयाः सर्वे जीयन्ते न जयन्त्युत 003c यत्र भीष्मस्य द्रोणस्य कृपस्य च महात्मनः 004a सौमदत्तेश्च वीरस्य भगदत्तस्य चोभयोः 004c अश्वत्थाम्नस्तथा तात शूराणां सुमहात्मनाम् 005a अन्येषाञ्चैव वीराणां मध्यगास्तनया मम 005c यदहन्यन्त सङ्ग्रामे किमन्यद्भागधेयतः 006a न हि दुर्योधनो मन्दः पुरा प्रोक्तमबुध्यत 006c वार्यमाणो मया तात भीष्मेण विदुरेण च 007a गान्धार्या चैव दुर्मेधाः सततं हितकाम्यया 007c नावबुध्यत्पुरा मोहात्तस्य प्राप्तमिदं फलम् 008a यद्भीमसेनः समरे पुत्रान्मम विचेतसः 008c अहन्यहनि सङ्क्रुद्धो नयते यमसादनम् 009 सञ्जय उवाच 009a इदं तत्समनुप्राप्तं क्षत्तुर्वचनमुत्तमम् 009c न बुद्धवानसि विभो प्रोच्यमानं हितं तदा 010a निवारय सुतान्द्यूतात्पाण्डवान्मा द्रुहेति च 010c सुहृदां हितकामानां ब्रुवतां तत्तदेव च 011a न शुश्रूषसि यद्वाक्यं मर्त्यः पथ्यमिवौषधम् 011c तदेव त्वामनुप्राप्तं वचनं साधु भाषितम् 012a विदुरद्रोणभीष्माणां तथान्येषां हितैषिणाम् 012c अकृत्वा वचनं पथ्यं क्षयं गच्छन्ति कौरवाः 013a तदेतत्समतिक्रान्तं पूर्वमेव विशाम्पते 013c तस्मान्मे शृणु तत्त्वेन यथा युद्धमवर्तत 014a मध्याह्ने सुमहारौद्रः सङ्ग्रामः समपद्यत 014c लोकक्षयकरो राजंस्तन्मे निगदतः शृणु 015a ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात् 015c संरब्धान्यभ्यधावन्त भीष्ममेव जिघांसया 016a धृष्टद्युम्नः शिखण्डी च सात्यकिश्च महारथः 016c युक्तानीका महाराज भीष्ममेव समभ्ययुः 017a अर्जुनो द्रौपदेयाश्च चेकितानश्च संयुगे 017c दुर्योधनसमादिष्टान्राज्ञः सर्वान्समभ्ययुः 018a अभिमन्युस्तथा वीरो हैडिम्बश्च महारथः 018c भीमसेनश्च सङ्क्रुद्धस्तेऽभ्यधावन्त कौरवान् 019a त्रिधाभूतैरवध्यन्त पाण्डवैः कौरवा युधि 019c तथैव कौरवे राजन्नवध्यन्त परे रणे 020a द्रोणस्तु रथिनां श्रेष्ठः सोमकान्सृञ्जयैः सह 020c अभ्यद्रवत सङ्क्रुद्धः प्रेषयिष्यन्यमक्षयम् 021a तत्राक्रन्दो महानासीत्सृञ्जयानां महात्मनाम् 021c वध्यतां समरे राजन्भारद्वाजेन धन्विना 022a द्रोणेन निहतास्तत्र क्षत्रिया बहवो रणे 022c विवेष्टन्तः स्म दृश्यन्ते व्याधिक्लिष्टा नरा इव 023a कूजतां क्रन्दतां चैव स्तनतां चैव संयुगे 023c अनिशं श्रूयते शब्दः क्षुत्कृशानां नृणामिव 024a तथैव कौरवेयाणां भीमसेनो महाबलः 024c चकार कदनं घोरं क्रुद्धः काल इवापरः 025a वध्यतां तत्र सैन्यानामन्योन्येन महारणे 025c प्रावर्तत नदी घोरा रुधिरौघप्रवाहिनी 026a स सङ्ग्रामो महाराज घोररूपोऽभवन्महान् 026c कुरूणां पाण्डवानां च यमराष्ट्रविवर्धनः 027a ततो भीमो रणे क्रुद्धो रभसश्च विशेषतः 027c गजानीकं समासाद्य प्रेषयामास मृत्यवे 028a तत्र भारत भीमेन नाराचाभिहता गजाः 028c पेतुः सेदुश्च नेदुश्च दिशश्च परिबभ्रमुः 029a छिन्नहस्ता महानागाश्छिन्नपादाश्च मारिष 029c क्रौञ्चवद्व्यनदन्भीताः पृथिवीमधिशिश्यिरे 030a नकुलः सहदेवश्च हयानीकमभिद्रुतौ 030c ते हयाः काञ्चनापीडा रुक्मभाण्डपरिच्छदाः 030e वध्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः 031a पतद्भिश्च हयै राजन्समास्तीर्यत मेदिनी 031c निर्जिह्वैश्च श्वसद्भिश्च कूजद्भिश्च गतासुभिः 031e हयैर्बभौ नरश्रेष्ठ नानारूपधरैर्धरा 032a अर्जुनेन हतैः सङ्ख्ये तथा भारत वाजिभिः 032c प्रबभौ वसुधा घोरा तत्र तत्र विशाम्पते 033a रथैर्भग्नैर्ध्वजैश्छिन्नैश्छत्रैश्च सुमहाप्रभैः 033c हारैर्निष्कैः सकेयूरैः शिरोभिश्च सकुण्डलैः 034a उष्णीषैरपविद्धैश्च पताकाभिश्च सर्वषः 034c अनुकर्षैः शुभै राजन्योक्त्रैश्चव्यसुरश्मिभिः 034e सञ्छन्ना वसुधा भाति वसन्ते कुसुमैरिव 035a एवमेष क्षयो वृत्तः पाण्डूनामपि भारत 035c क्रुद्धे शान्तनवे भीष्मे द्रोणे च रथसत्तमे 036a अश्वत्थाम्नि कृपे चैव तथैव कृतवर्मणि 036c तथेतरेषु क्रुद्धेषु तावकानामपि क्षयः