001 सञ्जय उवाच 001a भीष्मं तु समरे क्रुद्धं प्रतपन्तं समन्ततः 001c न शेकुः पाण्डवा द्रष्टुं तपन्तमिव भास्करम् 002a ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात् 002c अभ्यद्रवन्त गाङ्गेयं मर्दयन्तं शितैः शरैः 003a स तु भीष्मो रणश्लाघी सोमकान्सहसृञ्जयान् 003c पाञ्चालांश्च महेष्वासान्पातयामास सायकैः 004a ते वध्यमाना भीष्मेण पाञ्चालाः सोमकैः सह 004c भीष्ममेवाभ्ययुस्तूर्णं त्यक्त्वा मृत्युकृतं भयम् 005a स तेषां रथिनां वीरो भीष्मः शान्तनवो युधि 005c चिच्छेद सहसा राजन्बाहूनथ शिरांसि च 006a विरथान्रथिनश्चक्रे पिता देवव्रतस्तव 006c पतितान्युत्तमाङ्गानि हयेभ्यो हयसादिनाम् 007a निर्मनुष्यांश्च मातङ्गाञ्शयानान्पर्वतोपमान् 007c अपश्याम महाराज भीष्मास्त्रेण प्रमोहितान् 008a न तत्रासीत्पुमान्कश्चित्पाण्डवानां विशाम्पते 008c अन्यत्र रथिनां श्रेष्ठाद्भीमसेनान्महाबलात् 009a स हि भीष्मं समासाद्य ताडयामास संयुगे 009c ततो निष्टानको घोरो भीष्मभीमसमागमे 010a बभूव सर्वसैन्यानां घोररूपो भयानकः 010c तथैव पाण्डवा हृष्टाः सिंहनादमथानदन् 011a ततो दुर्योधनो राजा सोदर्यैः परिवारितः 011c भीष्मं जुगोप समरे वर्तमाने जनक्षये 012a भीमस्तु सारथिं हत्वा भीष्मस्य रथिनां वरः 012c विद्रुताश्वे रथे तस्मिन्द्रवमाणे समन्ततः 012e सुनाभस्य शरेणाशु शिरश्चिच्छेद चारिहा 013a क्षुरप्रेण सुतीक्ष्णेन स हतो न्यपतद्भुवि 013c हते तस्मिन्महाराज तव पुत्रे महारथे 013e नामृष्यन्त रणे शूराः सोदर्याः सप्त संयुगे 014a आदित्यकेतुर्बह्वाशी कुण्डधारो महोदरः 014c अपराजितः पण्डितको विशालाक्षः सुदुर्जयः 015a पाण्डवं चित्रसन्नाहा विचित्रकवचध्वजाः 015c अभ्यद्रवन्त सङ्ग्रामे योद्धुकामारिमर्दनाः 016a महोदरस्तु समरे भीमं विव्याध पत्रिभिः 016c नवभिर्वज्रसङ्काशैर्नमुचिं वृत्रहा यथा 017a आदित्यकेतुः सप्तत्या बह्वाशी चापि पञ्चभिः 017c नवत्या कुण्डधारस्तु विशालाक्षश्च सप्तभिः 018a अपराजितो महाराज पराजिष्णुर्महारथः 018c शरैर्बहुभिरानर्छद्भीमसेनं महाबलम् 019a रणे पण्डितकश्चैनं त्रिभिर्बाणैः समर्दयत् 019c स तन्न ममृषे भीमः शत्रुभिर्वधमाहवे 020a धनुः प्रपीड्य वामेन करेणामित्रकर्शनः 020c शिरश्चिच्छेद समरे शरेण नतपर्वणा 021a अपराजितस्य सुनसं तव पुत्रस्य संयुगे 021c पराजितस्य भीमेन निपपात शिरो महीम् 022a अथापरेण भल्लेन कुण्डधारं महारथम् 022c प्राहिणोन्मृत्युलोकाय सर्वलोकस्य पश्यतः 023a ततः पुनरमेयात्मा प्रसन्धाय शिलीमुखम् 023c प्रेषयामास समरे पण्डितं प्रति भारत 024a स शरः पण्डितं हत्वा विवेश धरणीतलम् 024c यथा नरं निहत्याशु भुजगः कालचोदितः 025a विशालाक्षशिरश्छित्त्वा पातयामास भूतले 025c त्रिभिः शरैरदीनात्मा स्मरन्क्लेशं पुरातनम् 026a महोदरं महेष्वासं नाराचेन स्तनान्तरे 026c विव्याध समरे राजन्स हतो न्यपतद्भुवि 027a आदित्यकेतोः केतुं च छित्त्वा बाणेन संयुगे 027c भल्लेन भृशतीक्ष्णेन शिरश्चिच्छेद चारिहा 028a बह्वाशिनं ततो भीमः शरेण नतपर्वणा 028c प्रेषयामास सङ्क्रुद्धो यमस्य सदनं प्रति 029a प्रदुद्रुवुस्ततस्तेऽन्ये पुत्रास्तव विशाम्पते 029c मन्यमाना हि तत्सत्यं सभायां तस्य भाषितम् 030a ततो दुर्योधनो राजा भ्रातृव्यसनकर्शितः 030c अब्रवीत्तावकान्योधान्भीमोऽयं युधि वध्यताम् 031a एवमेते महेष्वासाः पुत्रास्तव विशाम्पते 031c भ्रातॄन्सन्दृश्य निहतान्प्रास्मरंस्ते हि तद्वचः 032a यदुक्तवान्महाप्राज्ञः क्षत्ता हितमनामयम् 032c तदिदं समनुप्राप्तं वचनं दिव्यदर्शिनः 033a लोभमोहसमाविष्टः पुत्रप्रीत्या जनाधिप 033c न बुध्यसे पुरा यत्तत्तथ्यमुक्तं वचो महत् 034a तथैव हि वधार्थाय पुत्राणां पाण्डवो बली 034c नूनं जातो महाबाहुर्यथा हन्ति स्म कौरवान् 035a ततो दुर्योधनो राजा भीष्ममासाद्य मारिष 035c दुःखेन महताविष्टो विललापातिकर्शितः 036a निहता भ्रातरः शूरा भीमसेनेन मे युधि 036c यतमानास्तथान्येऽपि हन्यन्ते सर्वसैनिकाः 037a भवांश्च मध्यस्थतया नित्यमस्मानुपेक्षते 037c सोऽहं कापथमारूढः पश्य दैवमिदं मम 038a एतच्छ्रुत्वा वचः क्रूरं पिता देवव्रतस्तव 038c दुर्योधनमिदं वाक्यमब्रवीत्साश्रुलोचनम् 039a उक्तमेतन्मया पूर्वं द्रोणेन विदुरेण च 039c गान्धार्या च यशस्विन्या तत्त्वं तात न बुद्धवान् 040a समयश्च मया पूर्वं कृतो वः शत्रुकर्शन 040c नाहं युधि विमोक्तव्यो नाप्याचार्यः कथञ्चन 041a यं यं हि धार्तराष्ट्राणां भीमो द्रक्ष्यति संयुगे 041c हनिष्यति रणे तं तं सत्यमेतद्ब्रवीमि ते 042a स त्वं राजन्स्थिरो भूत्वा दृढां कृत्वा रणे मतिम् 042c योधयस्व रणे पार्थान्स्वर्गं कृत्वा परायणम् 043a न शक्याः पाण्डवा जेतुं सेन्द्रैरपि सुरासुरैः 043c तस्माद्युद्धे मतिं कृत्वा स्थिरां युध्यस्व भारत