001 सञ्जय उवाच 001a परिणाम्य निशां तां तु सुखसुप्ता जनेश्वराः 001c कुरवः पाण्डवाश्चैव पुनर्युद्धाय निर्ययुः 002a ततः शब्दो महानासीत्सेनयोरुभयोरपि 002c निर्गच्छमानयोः सङ्ख्ये सागरप्रतिमो महान् 003a ततो दुर्योधनो राजा चित्रसेनो विविंशतिः 003c भीष्मश्च रथिनां श्रेष्ठो भारद्वाजश्च वै द्विजः 004a एकीभूताः सुसंयत्ताः कौरवाणां महाचमूः 004c व्यूहाय विदधू राजन्पाण्डवान्प्रति दंशिताः 005a भीष्मः कृत्वा महाव्यूहं पिता तव विशाम्पते 005c सागरप्रतिमं घोरं वाहनोर्मितरङ्गिणम् 006a अग्रतः सर्वसैन्यानां भीष्मः शान्तनवो ययौ 006c मालवैर्दाक्षिणात्यैश्च आवन्त्यैश्च समन्वितः 007a ततोऽनन्तरमेवासीद्भारद्वाजः प्रतापवान् 007c पुलिन्दैः पारदैश्चैव तथा क्षुद्रकमालवैः 008a द्रोणादनन्तरं यत्तो भगदत्तः प्रतापवान् 008c मागधैश्च कलिङ्गैश्च पिशाचैश्च विशाम्पते 009a प्राग्ज्योतिषादनु नृपः कौसल्योऽथ बृहद्बलः 009c मेकलैस्त्रैपुरैश्चैव चिच्छिलैश्च समन्वितः 010a बृहद्बलात्ततः शूरस्त्रिगर्तः प्रस्थलाधिपः 010c काम्बोजैर्बहुभिः सार्धं यवनैश्च सहस्रशः 011a द्रौणिस्तु रभसः शूरस्त्रिगर्तादनु भारत 011c प्रययौ सिंहनादेन नादयानो धरातलम् 012a तथा सर्वेण सैन्येन राजा दुर्योधनस्तदा 012c द्रौणेरनन्तरं प्रायात्सोदर्यैः परिवारितः 013a दुर्योधनादनु कृपस्ततः शारद्वतो ययौ 013c एवमेष महाव्यूहः प्रययौ सागरोपमः 014a रेजुस्तत्र पताकाश्च श्वेतच्छत्राणि चाभिभो 014c अङ्गदान्यथ चित्राणि महार्हाणि धनूंषि च 015a तं तु दृष्ट्वा महाव्यूहं तावकानां महारथः 015c युधिष्ठिरोऽब्रवीत्तूर्णं पार्षतं पृतनापतिम् 016a पश्य व्यूहं महेष्वास निर्मितं सागरोपमम् 016c प्रतिव्यूहं त्वमपि हि कुरु पार्षत माचिरम् 017a ततः स पार्षतः शूरो व्यूहं चक्रे सुदारुणम् 017c शृङ्गाटकं महाराज परव्यूहविनाशनम् 018a शृङ्गेभ्यो भीमसेनश्च सात्यकिश्च महारथः 018c रथैरनेकसाहस्रैस्तथा हयपदातिभिः 019a नाभ्यामभून्नरश्रेष्ठः श्वेताश्वो वानरध्वजः 019c मध्ये युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ 020a अथेतरे महेष्वासाः सहसैन्या नराधिपाः 020c व्यूहं तं पूरयामासुर्व्यूहशास्त्रविशारदाः 021a अभिमन्युस्ततः पश्चाद्विराटश्च महारथः 021c द्रौपदेयाश्च संहृष्टा राक्षसश्च घटोत्कचः 022a एवमेतं महाव्यूहं व्यूह्य भारत पाण्डवाः 022c अतिष्ठन्समरे शूरा योद्धुकामा जयैषिणः 023a भेरीशब्दाश्च तुमुला विमिश्राः शङ्खनिस्वनैः 023c क्ष्वेडितास्फोटितोत्क्रुष्टैः सुभीमाः सर्वतोदिशम् 024a ततः शूराः समासाद्य समरे ते परस्परम् 024c नेत्रैरनिमिषै राजन्नवैक्षन्त प्रकोपिताः 025a मनोभिस्ते मनुष्येन्द्र पूर्वं योधाः परस्परम् 025c युद्धाय समवर्तन्त समाहूयेतरेतरम् 026a ततः प्रववृते युद्धं घोररूपं भयावहम् 026c तावकानां परेषां च निघ्नतामितरेतरम् 027a नाराचा निशिताः सङ्ख्ये सम्पतन्ति स्म भारत 027c व्यात्तानना भयकरा उरगा इव सङ्घशः 028a निष्पेतुर्विमलाः शक्त्यस्तैलधौताः सुतेजनाः 028c अम्बुदेभ्यो यथा राजन्भ्राजमानाः शतह्रदाः 029a गदाश्च विमलैः पट्टैः पिनद्धाः स्वर्णभूषिताः 029c पतन्त्यस्तत्र दृश्यन्ते गिरिशृङ्गोपमाः शुभाः 029e निस्त्रिंशाश्च व्यराजन्त विमलाम्बरसन्निभाः 030a आर्षभाणि च चर्माणि शतचन्द्राणि भारत 030c अशोभन्त रणे राजन्पतमानानि सर्वशः 031a तेऽन्योन्यं समरे सेने युध्यमाने नराधिप 031c अशोभेतां यथा दैत्यदेवसेने समुद्यते 031e अभ्यद्रवन्त समरे तेऽन्योन्यं वै समन्ततः 032a रथास्तु रथिभिस्तूर्णं प्रेषिताः परमाहवे 032c युगैर्युगानि संश्लिष्य युयुधुः पार्थिवर्षभाः 033a दन्तिनां युध्यमानानां सङ्घर्षात्पावकोऽभवत् 033c दन्तेषु भरतश्रेष्ठ सधूमः सर्वतोदिशम् 034a प्रासैरभिहताः केचिद्गजयोधाः समन्ततः 034c पतमानाः स्म दृश्यन्ते गिरिशृङ्गान्नगा इव 035a पादाताश्चाप्यदृश्यन्त निघ्नन्तो हि परस्परम् 035c चित्ररूपधराः शूरा नखरप्रासयोधिनः 036a अन्योन्यं ते समासाद्य कुरुपाण्डवसैनिकाः 036c शस्त्रैर्नानाविधैर्घोरै रणे निन्युर्यमक्षयम् 037a ततः शान्तनवो भीष्मो रथघोषेण नादयन् 037c अभ्यागमद्रणे पाण्डून्धनुःशब्देन मोहयन् 038a पाण्डवानां रथाश्चापि नदन्तो भैरवस्वनम् 038c अभ्यद्रवन्त संयत्ता धृष्टद्युम्नपुरोगमाः 039a ततः प्रववृते युद्धं तव तेषाञ्च भारत 039c नराश्वरथनागानां व्यतिषक्तं परस्परम्