001 सञ्जय उवाच 001a विरथं तं समासाद्य चित्रसेनं मनस्विनम् 001c रथमारोपयामास विकर्णस्तनयस्तव 002a तस्मिंस्तथा वर्तमाने तुमुले सङ्कुले भृशम् 002c भीष्मः शान्तनवस्तूर्णं युधिष्ठिरमुपाद्रवत् 003a ततः सरथनागाश्वाः समकम्पन्त सृञ्जयाः 003c मृत्योरास्यमनुप्राप्तं मेनिरे च युधिष्ठिरम् 004a युधिष्ठिरोऽपि कौरव्यो यमाभ्यां सहितः प्रभुः 004c महेष्वासं नरव्याघ्रं भीष्मं शान्तनवं ययौ 005a ततः शरसहस्राणि प्रमुञ्चन्पाण्डवो युधि 005c भीष्मं सञ्छादयामास यथा मेघो दिवाकरम् 006a तेन सम्यक्प्रणीतानि शरजालानि भारत 006c पतिजग्राह गाङ्गेयः शतशोऽथ सहस्रशः 007a तथैव शरजालानि भीष्मेणास्तानि मारिष 007c आकाशे समदृश्यन्त खगमानां व्रजा इव 008a निमेषार्धाच्च कौन्तेयं भीष्मः शान्तनवो युधि 008c अदृश्यं समरे चक्रे शरजालेन भागशः 009a ततो युधिष्ठिरो राजा कौरव्यस्य महात्मनः 009c नाराचं प्रेषयामास क्रुद्ध आशीविषोपमम् 010a असम्प्राप्तं ततस्तं तु क्षुरप्रेण महारथः 010c चिच्छेद समरे राजन्भीष्मस्तस्य धनुश्च्युतम् 011a तं तु छित्त्वा रणे भीष्मो नाराचं कालसम्मितम् 011c निजघ्ने कौरवेन्द्रस्य हयान्काञ्चनभूषणान् 012a हताश्वं तु रथं त्यक्त्वा धर्मपुत्रो युधिष्ठिरः 012c आरुरोह रथं तूर्णं नकुलस्य महात्मनः 013a यमावपि सुसङ्क्रुद्धः समासाद्य रणे तदा 013c शरैः सञ्छादयामास भीष्मः परपुरञ्जयः 014a तौ तु दृष्ट्वा महाराज भीष्मबाणप्रपीडितौ 014c जगामाथ परां चिन्तां भीष्मस्य वधकाङ्क्षया 015a ततो युधिष्ठिरो वश्यान्राज्ञस्तान्समचोदयत् 015c भीष्मं शान्तनवं सर्वे निहतेति सुहृद्गणान् 016a ततस्ते पार्थिवाः सर्वे श्रुत्वा पार्थस्य भाषितम् 016c महता रथवंशेन परिवव्रुः पितामहम् 017a स समन्तात्परिवृतः पिता देवव्रतस्तव 017c चिक्रीद धनुषा राजन्पातयानो महारथान् 018a तं चरन्तं रणे पार्था ददृशुः कौरवं युधि 018c मृगमध्यं प्रविश्येव यथा सिंहशिशुं वने 019a तर्जयानं रणे शूरांस्त्रासयानं च सायकैः 019c दृष्ट्वा त्रेसुर्महाराज सिंहं मृगगणा इव 020a रणे भरतसिंहस्य ददृशुः क्षत्रिया गतिम् 020c अग्नेर्वायुसहायस्य यथा कक्षं दिधक्षतः 021a शिरांसि रथिनां भीष्मः पातयामास संयुगे 021c तालेभ्य इव पक्वानि फलानि कुशलो नरः 022a पतद्भिश्च महाराज शिरोभिर्धरणीतले 022c बभूव तुमुलः शब्दः पततामश्मनामिव 023a तस्मिंस्तु तुमुले युद्धे वर्तमाने सुदारुणे 023c सर्वेषामेव सैन्यानामासीद्व्यतिकरो महान् 024a भिन्नेषु तेषु व्यूहेषु क्षत्रिया इतरेतरम् 024c एकमेकं समाहूय युद्धायैवोपतस्थिरे 025a शिखण्डी तु समासाद्य भरतानां पितामहम् 025c अभिदुद्राव वेगेन तिष्ठ तिष्ठेति चाब्रवीत् 026a अनादृत्य ततो भीष्मस्तं शिखण्डिनमाहवे 026c प्रययौ सृञ्जयान्क्रुद्धः स्त्रीत्वं चिन्त्य शिखण्डिनः 027a सृञ्जयास्तु ततो हृष्टा दृष्ट्वा भीष्मं महारथम् 027c सिंहनादान्बहुविधांश्चक्रुः शङ्खविमिश्रितान् 028a ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम् 028c अपरां दिशमास्थाय स्थिते सवितरि प्रभो 029a धृष्टद्युम्नोऽथ पाञ्चाल्यः सात्यकिश्च महारथः 029c पीडयन्तौ भृशं सैन्यं शक्तितोमरवृष्टिभिः 029e शस्त्रैश्च बहुभी राजञ्जघ्नतुस्तावकान्रणे 030a ते हन्यमानाः समरे तावकाः पुरुषर्षभ 030c आर्यां युद्धे मतिं कृत्वा न त्यजन्ति स्म संयुगम् 030e यथोत्साहं च समरे जघ्नुर्लोकं महारथाः 031a तत्राक्रन्दो महानासीत्तावकानां महात्मनाम् 031c वध्यतां समरे राजन्पार्षतेन महात्मना 032a तं श्रुत्वा निनदं घोरं तावकानां महारथौ 032c विन्दानुविन्दावावन्त्यौ पार्षतं प्रत्युपस्थितौ 033a तौ तस्य तुरगान्हत्वा त्वरमाणौ महारथौ 033c छादयामासतुरुभौ शरवर्षेण पार्षतम् 034a अवप्लुत्याथ पाञ्चाल्यो रथात्तूर्णं महाबलः 034c आरुरोह रथं तूर्णं सात्यकेः सुमहात्मनः 035a ततो युधिष्ठिरो राजा महत्या सेनया वृतः 035c आवन्त्यौ समरे क्रुद्धावभ्ययात्स परन्तपौ 036a तथैव तव पुत्रोऽपि सर्वोद्योगेन मारिष 036c विन्दानुविन्दावावन्त्यौ परिवार्योपतस्थिवान् 037a अर्जुनश्चापि सङ्क्रुद्धः क्षत्रियान्क्षत्रियर्षभ 037c अयोधयत सङ्ग्रामे वज्रपाणिरिवासुरान् 038a द्रोणश्च समरे क्रुद्धः पुत्रस्य प्रियकृत्तव 038c व्यधमत्सर्वपाञ्चालांस्तूलराशिमिवानलः 039a दुर्योधनपुरोगास्तु पुत्रास्तव विशाम्पते 039c परिवार्य रणे भीष्मं युयुधुः पाण्डवैः सह 040a ततो दुर्योधनो राजा लोहितायति भास्करे 040c अब्रवीत्तावकान्सर्वांस्त्वरध्वमिति भारत 041a युध्यतां तु तथा तेषां कुर्वतां कर्म दुष्करम् 041c अस्तं गिरिमथारूढे नप्रकाशति भास्करे 042a प्रावर्तत नदी घोरा शोणितौघतरङ्गिणी 042c गोमायुगणसङ्कीर्णा क्षणेन रजनीमुखे 043a शिवाभिरशिवाभिश्च रुवद्भिर्भैरवं रवम् 043c घोरमायोधनं जज्ञे भूतसङ्घसमाकुलम् 044a राक्षसाश्च पिशाचाश्च तथान्ये पिशिताशनाः 044c समन्ततो व्यदृश्यन्त शतशोऽथ सहस्रशः 045a अर्जुनोऽथ सुशर्मादीन्राज्ञस्तान्सपदानुगान् 045c विजित्य पृतनामध्ये ययौ स्वशिबिरं प्रति 046a युधिष्ठिरोऽपि कौरव्यो भ्रातृभ्यां सहितस्तदा 046c ययौ स्वशिबिरं राजा निशायां सेनया वृतः 047a भीमसेनोऽपि राजेन्द्र दुर्योधनमुखान्रथान् 047c अवजित्य ततः सङ्ख्ये ययौ स्वशिबिरं प्रति 048a दुर्योधनोऽपि नृपतिः परिवार्य महारणे 048c भीष्मं शान्तनवं तूर्णं प्रयातः शिबिरं प्रति 049a द्रोणो द्रौणिः कृपः शल्यः कृतवर्मा च सात्वतः 049c परिवार्य चमूं सर्वां प्रययुः शिबिरं प्रति 050a तथैव सात्यकी राजन्धृष्टद्युम्नश्च पार्षतः 050c परिवार्य रणे योधान्ययतुः शिबिरं प्रति 051a एवमेते महाराज तावकाः पाण्डवैः सह 051c पर्यवर्तन्त सहिता निशाकाले परन्तपाः 052a ततः स्वशिबिरं गत्वा पाण्डवाः कुरवस्तथा 052c न्यविशन्त महाराज पूजयन्तः परस्परम् 053a रक्षां कृत्वात्मनः शूरा न्यस्य गुल्मान्यथाविधि 053c अपनीय च शल्यांस्ते स्नात्वा च विविधैर्जलैः 054a कृतस्वस्त्ययनाः सर्वे संस्तूयन्तश्च बन्दिभिः 054c गीतवादित्रशब्देन व्यक्रीडन्त यशस्विनः 055a मुहूर्तमिव तत्सर्वमभवत्स्वर्गसन्निभम् 055c न हि युद्धकथां काञ्चित्तत्र चक्रुर्महारथाः 056a ते प्रसुप्ते बले तत्र परिश्रान्तजने नृप 056c हस्त्यश्वबहुले राजन्प्रेक्षणीये बभूवतुः