001 सञ्जय उवाच 001a स तुद्यमानस्तु शरैर्धनञ्जयः; पदा हतो नाग इव श्वसन्बली 001c बाणेन बाणेन महारथानां; चिच्छेद चापानि रणे प्रसह्य 002a सञ्छिद्य चापानि च तानि राज्ञां; तेषां रणे वीर्यवतां क्षणेन 002c विव्याध बाणैर्युगपन्महात्मा; निःशेषतां तेष्वथ मन्यमानः 003a निपेतुराजौ रुधिरप्रदिग्धा;स्ते ताडिताः शक्रसुतेन राजन् 003c विभिन्नगात्राः पतितोत्तमाङ्गा; गतासवश्छिन्नतनुत्रकायाः 004a महीं गताः पार्थबलाभिभूता; विचित्ररूपा युगपद्विनेशुः 004c दृष्ट्वा हतांस्तान्युधि राजपुत्रां;स्त्रिगर्तराजः प्रययौ क्षणेन 005a तेषां रथानामथ पृष्ठगोपा; द्वात्रिंशदन्येऽब्यपतन्त पार्थम् 005c तथैव ते सम्परिवार्य पार्थं; विकृष्य चापानि महारवाणि 005e अवीवृषन्बाणमहौघवृष्ट्या; यथा गिरिं तोयधरा जलौघैः 006a सम्पीड्यमानस्तु शरौघवृष्ट्या; धनञ्जयस्तान्युधि जातरोषः 006c षष्ट्या शरैः संयति तैलधौतै;र्जघान तानप्यथ पृष्ठगोपान् 007a षष्टिं रथांस्तानवजित्य सङ्ख्ये; धनञ्जयः प्रीतमना यशस्वी 007c अथात्वरद्भीष्मवधाय जिष्णु;र्बलानि राज्ञां समरे निहत्य 008a त्रिगर्तराजो निहतान्समीक्ष्य; महारथांस्तानथ बन्धुवर्गान् 008c रणे पुरस्कृत्य नराधिपांस्ता;ञ्जगाम पार्थं त्वरितो वधाय 009a अभिद्रुतं चास्त्रभृतां वरिष्ठं; धनञ्जयं वीक्ष्य शिखण्डिमुख्याः 009c अभ्युद्ययुस्ते शितशस्त्रहस्ता; रिरक्षिषन्तो रथमर्जुनस्य 010a पार्थोऽपि तानापततः समीक्ष्य; त्रिगर्तराज्ञा सहितान्नृवीरान् 010c विध्वंसयित्वा समरे धनुष्मा;न्गाण्डीवमुक्तैर्निशितैः पृषत्कैः 010e भीष्मं यियासुर्युधि सन्ददर्श; दुर्योधनं सैन्धवादींश्च राज्ञः 011a आवारयिष्णूनभिसम्प्रयाय; मुहूर्तमायोध्य बलेन वीरः 011c उत्सृज्य राजानमनन्तवीर्यो; जयद्रथादींश्च नृपान्महौजाः 011e ययौ ततो भीमबलो मनस्वी; गाङ्गेयमाजौ शरचापपाणिः 012a युधिष्ठिरश्चोग्रबलो महात्मा; समाययौ त्वरितो जातकोपः 012c मद्राधिपं समभित्यज्य सङ्ख्ये; स्वभागमाप्तं तमनन्तकीर्तिः 012e सार्धं स माद्रीसुतभीमसेनै;र्भीष्मं ययौ शान्तनवं रणाय 013a तैः सम्प्रयुक्तः स महारथाग्र्यै;र्गङ्गासुतः समरे चित्रयोधी 013c न विव्यथे शान्तनवो महात्मा; समागतैः पाण्डुसुतैः समस्तैः 014a अथैत्य राजा युधि सत्यसन्धो; जयद्रथोऽत्युग्रबलो मनस्वी 014c चिच्छेद चापानि महारथानां; प्रसह्य तेषां धनुषा वरेण 015a युधिष्ठिरं भीमसेनं यमौ च; पार्थं तथा युधि सञ्जातकोपः 015c दुर्योधनः क्रोधविषो महात्मा; जघान बाणैरनलप्रकाशैः 016a कृपेण शल्येन शलेन चैव; तथा विभो चित्रसेनेन चाजौ 016c विद्धाः शरैस्तेऽतिविवृद्धकोपै;र्देवा यथा दैत्यगणैः समेतैः 017a छिन्नायुधं शान्तनवेन राजा; शिखण्डिनं प्रेक्ष्य च जातकोपः 017c अजातशत्रुः समरे महात्मा; शिखण्डिनं क्रुद्ध उवाच वाक्यम् 018a उक्त्वा तथा त्वं पितुरग्रतो मा;महं हनिष्यामि महाव्रतं तम् 018c भीष्मं शरौघैर्विमलार्कवर्णैः; सत्यं वदामीति कृता प्रतिज्ञा 019a त्वया न चैनां सफलां करोषि; देवव्रतं यन्न निहंसि युद्धे 019c मिथ्याप्रतिज्ञो भव मा नृवीर; रक्षस्व धर्मं च कुलं यशश्च 020a प्रेक्षस्व भीष्मं युधि भीमवेगं; सर्वांस्तपन्तं मम सैन्यसङ्घान् 020c शरौघजालैरतितिग्मतेजैः; कालं यथा मृत्युकृतं क्षणेन 021a निकृत्तचापः समरानपेक्षः; पराजितः शान्तनवेन राज्ञा 021c विहाय बन्धूनथ सोदरांश्च; क्व यास्यसे नानुरूपं तवेदम् 022a दृष्ट्वा हि भीष्मं तमनन्तवीर्यं; भग्नं च सैन्यं द्रवमाणमेवम् 022c भीतोऽसि नूनं द्रुपदस्य पुत्र; तथा हि ते मुखवर्णोऽप्रहृष्टः 023a आज्ञायमानेऽपि धनञ्जयेन; महाहवे सम्प्रसक्ते नृवीर 023c कथं हि भीष्मात्प्रथितः पृथिव्यां; भयं त्वमद्य प्रकरोषि वीर 024a स धर्मराजस्य वचो निशम्य; रूक्षाक्षरं विप्रलापानुबद्धम् 024c प्रत्यादेशं मन्यमानो महात्मा; प्रतत्वरे भीष्मवधाय राजन् 025a तमापतन्तं महता जवेन; शिखण्डिनं भीष्ममभिद्रवन्तम् 025c आवारयामास हि शल्य एनं; शस्त्रेण घोरेण सुदुर्जयेन 026a स चापि दृष्ट्वा समुदीर्यमाण;मस्त्रं युगान्ताग्निसमप्रभावम् 026c नासौ व्यमुह्यद्द्रुपदस्य पुत्रो; राजन्महेन्द्रप्रतिमप्रभावः 027a तस्थौ च तत्रैव महाधनुष्मा;ञ्शरैस्तदस्त्रं प्रतिबाधमानः 027c अथाददे वारुणमन्यदस्त्रं; शिखण्ड्यथोग्रं प्रतिघाताय तस्य 027e तदस्त्रमस्त्रेण विदार्यमाणं; खस्थाः सुरा ददृशुः पार्थिवाश्च 028a भीष्मस्तु राजन्समरे महात्मा; धनुः सुचित्रं ध्वजमेव चापि 028c छित्त्वानदत्पाण्डुसुतस्य वीरो; युधिष्ठिरस्याजमीढस्य राज्ञः 029a ततः समुत्सृज्य धनुः सबाणं; युधिष्ठिरं वीक्ष्य भयाभिभूतम् 029c गदां प्रगृह्याभिपपात सङ्ख्ये; जयद्रथं भीमसेनः पदातिः 030a तमापतन्तं महता जवेन; जयद्रथः सगदं भीमसेनम् 030c विव्याध घोरैर्यमदण्डकल्पैः; शितैः शरैः पञ्चशतैः समन्तात् 031a अचिन्तयित्वा स शरांस्तरस्वी; वृकोदरः क्रोधपरीतचेताः 031c जघान वाहान्समरे समस्ता;नारट्टजान्सिन्धुराजस्य सङ्ख्ये 032a ततोऽभिवीक्ष्याप्रतिमप्रभाव;स्तवात्मजस्त्वरमाणो रथेन 032c अभ्याययौ भीमसेनं निहन्तुं; समुद्यतास्त्रः सुरराजकल्पः 033a भीमोऽप्यथैनं सहसा विनद्य; प्रत्युद्ययौ गदया तर्जमानः 033c समुद्यतां तां यमदण्डकल्पां; दृष्ट्वा गदां ते कुरवः समन्तात् 034a विहाय सर्वे तव पुत्रमुग्रं; पातं गदायाः परिहर्तुकामाः 034c अपक्रान्तास्तुमुले संविमर्दे; सुदारुणे भारत मोहनीये 035a अमूढचेतास्त्वथ चित्रसेनो; महागदामापतन्तीं निरीक्ष्य 035c रथं समुत्सृज्य पदातिराजौ; प्रगृह्य खड्गं विमलं च चर्म 035e अवप्लुतः सिंह इवाचलाग्रा;ज्जगाम चान्यं भुवि भूमिदेशम् 036a गदापि सा प्राप्य रथं सुचित्रं; साश्वं ससूतं विनिहत्य सङ्ख्ये 036c जगाम भूमिं ज्वलिता महोल्का; भ्रष्टाम्बराद्गामिव सम्पतन्ती 037a आश्चर्यभूतं सुमहत्त्वदीया; दृष्ट्वैव तद्भारत सम्प्रहृष्टाः 037c सर्वे विनेदुः सहिताः समन्ता;त्पुपूजिरे तव पुत्रं ससैन्याः