001 सञ्जय उवाच 001a ततो युधिष्ठिरो राजा मध्यं प्राप्ते दिवाकरे 001c श्रुतायुषमभिप्रेक्ष्य चोदयामास वाजिनः 002a अभ्यधावत्ततो राजा श्रुतायुषमरिन्दमम् 002c विनिघ्नन्सायकैस्तीक्ष्णैर्नवभिर्नतपर्वभिः 003a स संवार्य रणे राजा प्रेषितान्धर्मसूनुना 003c शरान्सप्त महेष्वासः कौन्तेयाय समर्पयत् 004a ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे 004c असूनिव विचिन्वन्तो देहे तस्य महात्मनः 005a पाण्डवस्तु भृशं विद्धस्तेन राज्ञा महात्मना 005c रणे वराहकर्णेन राजानं हृदि विव्यधे 006a अथापरेण भल्लेन केतुं तस्य महात्मनः 006c रथश्रेष्ठो रथात्तूर्णं भूमौ पार्थो न्यपातयत् 007a केतुं निपतितं दृष्ट्वा श्रुतायुः स तु पार्थिवः 007c पाण्डवं विशिखैस्तीक्ष्णै राजन्विव्याध सप्तभिः 008a ततः क्रोधात्प्रजज्वाल धर्मपुत्रो युधिष्ठिरः 008c यथा युगान्ते भूतानि धक्ष्यन्निव हुताशनः 009a क्रुद्धं तु पाण्डवं दृष्ट्वा देवगन्धर्वराक्षसाः 009c प्रविव्यथुर्महाराज व्याकुलं चाप्यभूज्जगत् 010a सर्वेषां चैव भूतानामिदमासीन्मनोगतम् 010c त्रीँल्लोकानद्य सङ्क्रुद्धो नृपोऽयं धक्ष्यतीति वै 011a ऋषयश्चैव देवाश्च चक्रुः स्वस्त्ययनं महत् 011c लोकानां नृप शान्त्यर्थं क्रोधिते पाण्डवे तदा 012a स च क्रोधसमाविष्टः सृक्किणी परिलेलिहन् 012c दधारात्मवपुर्घोरं युगान्तादित्यसन्निभम् 013a ततः सर्वाणि सैन्यानि तावकानि विशाम्पते 013c निराशान्यभवंस्तत्र जीवितं प्रति भारत 014a स तु धैर्येण तं कोपं सन्निवार्य महायशाः 014c श्रुतायुषः प्रचिच्छेद मुष्टिदेशे महद्धनुः 015a अथैनं छिन्नधन्वानं नाराचेन स्तनान्तरे 015c निर्बिभेद रणे राजा सर्वसैन्यस्य पश्यतः 016a सत्वरं चरणे राजंस्तस्य वाहान्महात्मनः 016c निजघान शरैः क्षिप्रं सूतञ्च सुमहाबलः 017a हताश्वं तु रथं त्यक्त्वा दृष्ट्वा राज्ञस्तु पौरुषम् 017c विप्रदुद्राव वेगेन श्रुतायुः समरे तदा 018a तस्मिञ्जिते महेष्वासे धर्मपुत्रेण संयुगे 018c दुर्योधनबलं राजन्सर्वमासीत्पराङ्मुखम् 019a एतत्कृत्वा महाराज धर्मपुत्रो युधिष्ठिरः 019c व्यात्ताननो यथा कालस्तव सैन्यं जघान ह 020a चेकितानस्तु वार्ष्णेयो गौतमं रथिनां वरम् 020c प्रेक्षतां सर्वसैन्यानां छादयामास सायकैः 021a सन्निवार्य शरांस्तांस्तु कृपः शारद्वतो युधि 021c चेकितानं रणे यत्तं राजन्विव्याध पत्रिभिः 022a अथापरेण भल्लेन धनुश्चिच्छेद मारिष 022c सारथिं चास्य समरे क्षिप्रहस्तो न्यपातयत् 022e हयांश्चास्यावधीद्राजन्नुभौ च पार्ष्णिसारथी 023a सोऽवप्लुत्य रथात्तूर्णं गदां जग्राह सात्वतः 023c स तया वीरघातिन्या गदया गदिनां वरः 023e गौतमस्य हयान्हत्वा सारथिं च न्यपातयत् 024a भूमिष्ठो गौतमस्तस्य शरांश्चिक्षेप षोडश 024c ते शराः सात्वतं भित्त्वा प्राविशन्त धरातलम् 025a चेकितानस्ततः क्रुद्धः पुनश्चिक्षेप तां गदाम् 025c गौतमस्य वधाकाङ्क्षी वृत्रस्येव पुरन्दरः 026a तामापतन्तीं विमलामश्मगर्भां महागदाम् 026c शरैरनेकसाहस्रैर्वारयामास गौतमः 027a चेकितानस्ततः खड्गं कोशादुद्धृत्य भारत 027c लाघवं परमास्थाय गौतमं समुपाद्रवत् 028a गौतमोऽपि धनुस्त्यक्त्वा प्रगृह्यासिं सुसंशितम् 028c वेगेन महता राजंश्चेकितानमुपाद्रवत् 029a तावुभौ बलसम्पन्नौ निस्त्रिंशवरधारिणौ 029c निस्त्रिंशाभ्यां सुतीक्ष्णाभ्यामन्योन्यं सन्ततक्षतुः 030a निस्त्रिंशवेगाभिहतौ ततस्तौ पुरुषर्षभौ 030c धरणीं समनुप्राप्तौ सर्वभूतनिषेविताम् 030e मूर्छयाभिपरीताङ्गौ व्यायामेन च मोहितौ 031a ततोऽभ्यधावद्वेगेन करकर्षः सुहृत्तया 031c चेकितानं तथाभूतं दृष्ट्वा समरदुर्मदम् 031e रथमारोपयच्चैनं सर्वसैन्यस्य पश्यतः 032a तथैव शकुनिः शूरः स्यालस्तव विशाम्पते 032c आरोपयद्रथं तूर्णं गौतमं रथिनां वरम् 033a सौमदत्तिं तथा क्रुद्धो धृष्टकेतुर्महाबलः 033c नवत्या सायकैः क्षिप्रं राजन्विव्याध वक्षसि 034a सौमदत्तिरुरःस्थैस्तैर्भृशं बाणैरशोभत 034c मध्यन्दिने महाराज रश्मिभिस्तपनो यथा 035a भूरिश्रवास्तु समरे धृष्टकेतुं महारथम् 035c हतसूतहयं चक्रे विरथं सायकोत्तमैः 036a विरथं चैनमालोक्य हताश्वं हतसारथिम् 036c महता शरवर्षेण छादयामास संयुगे 037a स च तं रथमुत्सृज्य धृष्टकेतुर्महामनाः 037c आरुरोह ततो यानं शतानीकस्य मारिष 038a चित्रसेनो विकर्णश्च राजन्दुर्मर्षणस्तथा 038c रथिनो हेमसन्नाहाः सौभद्रमभिदुद्रुवुः 039a अभिमन्योस्ततस्तैस्तु घोरं युद्धमवर्तत 039c शरीरस्य यथा राजन्वातपित्तकफैस्त्रिभिः 040a विरथांस्तव पुत्रांस्तु कृत्वा राजन्महाहवे 040c न जघान नरव्याघ्रः स्मरन्भीमवचस्तदा 041a ततो राज्ञां बहुशतैर्गजाश्वरथयायिभिः 041c संवृतं समरे भीष्मं देवैरपि दुरासदम् 042a प्रयान्तं शीघ्रमुद्वीक्ष्य परित्रातुं सुतांस्तव 042c अभिमन्युं समुद्दिश्य बालमेकं महारथम् 042e वासुदेवमुवाचेदं कौन्तेयः श्वेतवाहनः 043a चोदयाश्वान्हृषीकेश यत्रैते बहुला रथाः 043c एते हि बहवः शूराः कृतास्त्रा युद्धदुर्मदाः 043e यथा न हन्युर्नः सेनां तथा माधव चोदय 044a एवमुक्तः स वार्ष्णेयः कौन्तेयेनामितौजसा 044c रथं श्वेतहयैर्युक्तं प्रेषयामास संयुगे 045a निष्टानको महानासीत्तव सैन्यस्य मारिष 045c यदर्जुनो रणे क्रुद्धः संयातस्तावकान्प्रति 046a समासाद्य तु कौन्तेयो राज्ञस्तान्भीष्मरक्षिणः 046c सुशर्माणमथो राजन्निदं वचनमब्रवीत् 047a जानामि त्वां युधि श्रेष्ठमत्यन्तं पूर्ववैरिणम् 047c पर्यायस्याद्य सम्प्राप्तं फलं पश्य सुदारुणम् 047e अद्य ते दर्शयिष्यामि पूर्वप्रेतान्पितामहान् 048a एवं सञ्जल्पतस्तस्य बीभत्सोः शत्रुघातिनः 048c श्रुत्वापि परुषं वाक्यं सुशर्मा रथयूथपः 048e न चैनमब्रवीत्किञ्चिच्छुभं वा यदि वाशुभम् 049a अभि गत्वार्जुनं वीरं राजभिर्बहुभिर्वृतः 049c पुरस्तात्पृष्ठतश्चैव पार्श्वतश्चैव सर्वतः 050a परिवार्यार्जुनं सङ्ख्ये तव पुत्रैः सहानघ 050c शरैः सञ्छादयामास मेघैरिव दिवाकरम् 051a ततः प्रवृत्तः सुमहान्सङ्ग्रामः शोणितोदकः 051c तावकानां च समरे पाण्डवानां च भारत