001 धृतराष्ट्र उवाच 001a बहूनीह विचित्राणि द्वैरथानि स्म सञ्जय 001c पाण्डूनां मामकैः सार्धमश्रौषं तव जल्पतः 002a न चैव मामकं कञ्चिद्धृष्टं शंससि सञ्जय 002c नित्यं पाण्डुसुतान्हृष्टानभग्नांश्चैव शंससि 003a जीयमानान्विमनसो मामकान्विगतौजसः 003c वदसे संयुगे सूत दिष्टमेतदसंशयम् 004 सञ्जय उवाच 004a यथाशक्ति यथोत्साहं युद्धे चेष्टन्ति तावकाः 004c दर्शयानाः परं शक्त्या पौरुषं पुरुषर्षभ 005a गङ्गायाः सुरनद्या वै स्वादुभूतं यथोदकम् 005c महोदधिगुणाभ्यासाल्लवणत्वं निगच्छति 006a तथा तत्पौरुषं राजंस्तावकानां महात्मनाम् 006c प्राप्य पाण्डुसुतान्वीरान्व्यर्थं भवति संयुगे 007a घटमानान्यथाशक्ति कुर्वाणान्कर्म दुष्करम् 007c न दोषेण कुरुश्रेष्ठ कौरवान्गन्तुमर्हसि 008a तवापराधात्सुमहान्सपुत्रस्य विशाम्पते 008c पृथिव्याः प्रक्षयो घोरो यमराष्ट्रविवर्धनः 009a आत्मदोषात्समुत्पन्नं शोचितुं नार्हसे नृप 009c न हि रक्षन्ति राजानः सर्वार्थान्नापि जीवितम् 010a युद्धे सुकृतिनां लोकानिच्छन्तो वसुधाधिपाः 010c चमूं विगाह्य युध्यन्ते नित्यं स्वर्गपरायणाः 011a पूर्वाह्णे तु महाराज प्रावर्तत जनक्षयः 011c तन्ममैकमना भूत्वा शृणु देवासुरोपमम् 012a आवन्त्यौ तु महेष्वासौ महात्मानौ महाबलौ 012c इरावन्तमभिप्रेक्ष्य समेयातां रणोत्कटौ 012e तेषां प्रववृते युद्धं तुमुलं लोमहर्षणम् 013a इरावांस्तु सुसङ्क्रुद्धो भ्रातरौ देवरूपिणौ 013c विव्याध निशितैस्तूर्णं शरैः सन्नतपर्वभिः 013e तावेनं प्रत्यविध्येतां समरे चित्रयोधिनौ 014a युध्यतां हि तथा राजन्विशेषो न व्यदृश्यत 014c यततां शत्रुनाशाय कृतप्रतिकृतैषिणाम् 015a इरावांस्तु ततो राजन्ननुविन्दस्य सायकैः 015c चतुर्भिश्चतुरो वाहाननयद्यमसादनम् 016a भल्लाभ्यां च सुतीक्ष्णाभ्यां धनुः केतुं च मारिष 016c चिच्छेद समरे राजंस्तदद्भुतमिवाभवत् 017a त्यक्त्वानुविन्दोऽथ रथं विन्दस्य रथमास्थितः 017c धनुर्गृहीत्वा नवमं भारसाधनमुत्तमम् 018a तावेकस्थौ रणे वीरावावन्त्यौ रथिनां वरौ 018c शरान्मुमुचतुस्तूर्णमिरावति महात्मनि 019a ताभ्यां मुक्ता महावेगाः शराः काञ्चनभूषणाः 019c दिवाकरपथं प्राप्य छादयामासुरम्बरम् 020a इरावांस्तु ततः क्रुद्धो भ्रातरौ तौ महारथौ 020c ववर्ष शरवर्षेण सारथिं चाप्यपातयत् 021a तस्मिन्निपतिते भूमौ गतसत्त्वेऽथ सारथौ 021c रथः प्रदुद्राव दिशः समुद्भ्रान्तहयस्ततः 022a तौ स जित्वा महाराज नागराजसुतासुतः 022c पौरुषं ख्यापयंस्तूर्णं व्यधमत्तव वाहिनीम् 023a सा वध्यमाना समरे धार्तराष्ट्री महाचमूः 023c वेगान्बहुविधांश्चक्रे विषं पीत्वेव मानवः 024a हैडिम्बो राक्षसेन्द्रस्तु भगदत्तं समाद्रवत् 024c रथेनादित्यवर्णेन सध्वजेन महाबलः 025a ततः प्राग्ज्योतिषो राजा नागराजं समास्थितः 025c यथा वज्रधरः पूर्वं सङ्ग्रामे तारकामये 026a तत्र देवाः सगन्धर्वा ऋषयश्च समागताः 026c विशेषं न स्म विविदुर्हैडिम्बभगदत्तयोः 027a यथा सुरपतिः शक्रस्त्रासयामास दानवान् 027c तथैव समरे राजंस्त्रासयामास पाण्डवान् 028a तेन विद्राव्यमाणास्ते पाण्डवाः सर्वतोदिशम् 028c त्रातारं नाभ्यविन्दन्त स्वेष्वनीकेषु भारत 029a भैमसेनिं रथस्थं तु तत्रापश्याम भारत 029c शेषा विमनसो भूत्वा प्राद्रवन्त महारथाः 030a निवृत्तेषु तु पाण्डूनां पुनः सैन्येषु भारत 030c आसीन्निष्टानको घोरस्तव सैन्येषु संयुगे 031a घटोत्कचस्ततो राजन्भगदत्तं महारणे 031c शरैः प्रच्छादयामास मेरुं गिरिमिवाम्बुदः 032a निहत्य ताञ्शरान्राजा राक्षसस्य धनुश्च्युतान् 032c भैमसेनिं रणे तूर्णं सर्वमर्मस्वताडयत् 033a स ताड्यमानो बहुभिः शरैः सन्नतपर्वभिः 033c न विव्यथे राक्षसेन्द्रो भिद्यमान इवाचलः 034a तस्य प्राग्ज्योतिषः क्रुद्धस्तोमरान्स चतुर्दश 034c प्रेषयामास समरे तांश्च चिच्छेद राक्षसः 035a स तांश्छित्त्वा महाबाहुस्तोमरान्निशितैः शरैः 035c भगदत्तं च विव्याध सप्तत्या कङ्कपत्रिभिः 036a ततः प्राग्ज्योतिषो राजन्प्रहसन्निव भारत 036c तस्याश्वांश्चतुरः सङ्ख्ये पातयामास सायकैः 037a स हताश्वे रथे तिष्ठन्राक्षसेन्द्रः प्रतापवान् 037c शक्तिं चिक्षेप वेगेन प्राग्ज्योतिषगजं प्रति 038a तामापतन्तीं सहसा हेमदण्डां सुवेगिताम् 038c त्रिधा चिच्छेद नृपतिः सा व्यकीर्यत मेदिनीम् 039a शक्तिं विनिहतां दृष्ट्वा हैडिम्बः प्राद्रवद्भयात् 039c यथेन्द्रस्य रणात्पूर्वं नमुचिर्दैत्यसत्तमः 040a तं विजित्य रणे शूरं विक्रान्तं ख्यातपौरुषम् 040c अजेयं समरे राजन्यमेन वरुणेन च 041a पाण्डवीं समरे सेनां सम्ममर्द सकुञ्जरः 041c यथा वनगजो राजन्मृद्नंश्चरति पद्मिनीम् 042a मद्रेश्वरस्तु समरे यमाभ्यां सह सङ्गतः 042c स्वस्रीयौ छादयां चक्रे शरौघैः पाण्डुनन्दनौ 043a सहदेवस्तु समरे मातुलं वीक्ष्य सङ्गतम् 043c अवारयच्छरौघेण मेघो यद्वद्दिवाकरम् 044a छाद्यमानः शरौघेण हृष्टरूपतरोऽभवत् 044c तयोश्चाप्यभवत्प्रीतिरतुला मातृकारणात् 045a ततः प्रहस्य समरे नकुलस्य महारथः 045c अश्वान्वै चतुरो राजंश्चतुर्भिः सायकोत्तमैः 045e प्रेषयामास समरे यमस्य सदनं प्रति 046a हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः 046c आरुरोह ततो यानं भ्रातुरेव यशस्विनः 047a एकस्थौ तु रणे शूरौ दृढे विक्षिप्य कार्मुके 047c मद्रराजरथं क्रुद्धौ छादयामासतुः क्षणात् 048a स च्छाद्यमानो बहुभिः शरैः सन्नतपर्वभिः 048c स्वस्रीयाभ्यां नरव्याघ्रो नाकम्पत यथाचलः 048e प्रहसन्निव ताञ्चापि शरवृष्टिं जघान ह 049a सहदेवस्ततः क्रुद्धः शरमुद्यम्य वीर्यवान् 049c मद्रराजमभिप्रेक्ष्य प्रेषयामास भारत 050a स शरः प्रेषितस्तेन गरुत्मानिव वेगवान् 050c मद्रराजं विनिर्भिद्य निपपात महीतले 051a स गाढविद्धो व्यथितो रथोपस्थे महारथः 051c निषसाद महाराज कश्मलं च जगाम ह 052a तं विसञ्ज्ञं निपतितं सूतः सम्प्रेक्ष्य संयुगे 052c अपोवाह रथेनाजौ यमाभ्यामभिपीडितम् 053a दृष्ट्वा मद्रेश्वररथं धार्तराष्ट्राः पराङ्मुखम् 053c सर्वे विमनसो भूत्वा नेदमस्तीत्यचिन्तयन् 054a निर्जित्य मातुलं सङ्ख्ये माद्रीपुत्रौ महारथौ 054c दध्मतुर्मुदितौ शङ्खौ सिंहनादं विनेदतुः 055a अभिदुद्रुवतुर्हृष्टौ तव सैन्यं विशां पते 055c यथा दैत्यचमूं राजन्निन्द्रोपेन्द्राविवामरौ