001 सञ्जय उवाच 001a तथा प्रवृत्ते सङ्ग्रामे निवृत्ते च सुशर्मणि 001c प्रभग्नेषु च वीरेषु पाण्डवेन महात्मना 002a क्षुभ्यमाणे बले तूर्णं सागरप्रतिमे तव 002c प्रत्युद्याते च गाङ्गेये त्वरितं विजयं प्रति 003a दृष्ट्वा दुर्योधनो राजन्रणे पार्थस्य विक्रमम् 003c त्वरमाणः समभ्येत्य सर्वांस्तानब्रवीन्नृपान् 004a तेषाञ्च प्रमुखे शूरं सुशर्माणम्महाबलम् 004c मध्ये सर्वस्य सैन्यस्य भृशं संहर्षयन्वचः 005a एष भीष्मः शान्तनवो योद्धुकामो धनञ्जयम् 005c सर्वात्मना कुरुश्रेष्ठस्त्यक्त्वा जीवितमात्मनः 006a तं प्रयान्तं परानीकं सर्वसैन्येन भारतम् 006c संयत्ताः समरे सर्वे पालयध्वं पितामहम् 007a बाढमित्येवमुक्त्वा तु तान्यनीकानि सर्वशः 007c नरेन्द्राणां महाराज समाजग्मुः पितामहम् 008a ततः प्रयातः सहसा भीष्मः शान्तनवोऽर्जुनम् 008c रणे भारतमायान्तमाससाद महाबलम् 009a महाश्वेताश्वयुक्तेन भीमवानरकेतुना 009c महता मेघनादेन रथेनाति विराजत 010a समरे सर्वसैन्यानामुपयातं धनञ्जयम् 010c अभवत्तुमुलो नादो भयाद्दृष्ट्वा किरीटिनम् 011a अभीशुहस्तं कृष्णं च दृष्ट्वादित्यमिवापरम् 011c मध्यन्दिनगतं सङ्ख्ये न शेकुः प्रतिवीक्षितुम् 012a तथा शान्तनवं भीष्मं श्वेताश्वं श्वेतकार्मुकम् 012c न शेकुः पाण्डवा द्रष्टुं श्वेतग्रहमिवोदितम् 013a स सर्वतः परिवृतस्त्रिगर्तैः सुमहात्मभिः 013c भ्रातृभिस्तव पुत्रैश्च तथान्यैश्च महारथैः 014a भारद्वाजस्तु समरे मत्स्यं विव्याध पत्रिणा 014c ध्वजं चास्य शरेणाजौ धनुश्चैकेन चिच्छिदे 015a तदपास्य धनुश्छिन्नं विराटो वाहिनीपतिः 015c अन्यदादत्त वेगेन धनुर्भारसहं दृढम् 015e शरांश्चाशीविषाकाराञ्ज्वलितान्पन्नगानिव 016a द्रोणं त्रिभिः प्रविव्याध चतुर्भिश्चास्य वाजिनः 016c ध्वजमेकेन विव्याध सारथिं चास्य पञ्चभिः 016e धनुरेकेषुणाविध्यत्तत्राक्रुध्यद्द्विजर्षभः 017a तस्य द्रोणोऽवधीदश्वाञ्शरैः सन्नतपर्वभिः 017c अष्टाभिर्भरतश्रेष्ठ सूतमेकेन पत्रिणा 018a स हताश्वादवप्लुत्य स्यन्दनाद्धतसारथिः 018c आरुरोह रथं तूर्णं शङ्खस्य रथिनां वरः 019a ततस्तु तौ पितापुत्रौ भारद्वाजं रथे स्थितौ 019c महता शरवर्षेण वारयामासतुर्बलात् 020a भारद्वाजस्ततः क्रुद्धः शरमाशीविषोपमम् 020c चिक्षेप समरे तूर्णं शङ्खं प्रति जनेश्वर 021a स तस्य हृदयं भित्त्वा पीत्वा शोणितमाहवे 021c जगाम धरणिं बाणो लोहितार्द्रीकृतच्छविः 022a स पपात रथात्तूर्णं भारद्वाजशराहतः 022c धनुस्त्यक्त्वा शरांश्चैव पितुरेव समीपतः 023a हतं स्वमात्मजं दृष्ट्वा विराटः प्राद्रवद्भयात् 023c उत्सृज्य समरे द्रोणं व्यात्ताननमिवान्तकम् 024a भारद्वाजस्ततस्तूर्णं पाण्डवानां महाचमूम् 024c दारयामास समरे शतशोऽथ सहस्रशः 025a शिखण्ड्यपि महाराज द्रौणिमासाद्य संयुगे 025c आजघान भ्रुवोर्मध्ये नाराचैस्त्रिभिराशुगैः 026a स बभौ नरशार्दूलो ललाटे संस्थितैस्त्रिभिः 026c शिखरैः काञ्चनमयैर्मेरुस्त्रिभिरिवोच्छ्रितैः 027a अश्वत्थामा ततः क्रुद्धो निमेषार्धाच्छिखण्डिनः 027c सूतं ध्वजमथो राजंस्तुरगानायुधं तथा 027e शरैर्बहुभिरुद्दिश्य पातयामास संयुगे 028a स हताश्वादवप्लुत्य रथाद्वै रथिनां वरः 028c खड्गमादाय निशितं विमलं च शरावरम् 028e श्येनवद्व्यचरत्क्रुद्धः शिखण्डी शत्रुतापनः 029a सखड्गस्य महाराज चरतस्तस्य संयुगे 029c नान्तरं ददृशे द्रौणिस्तदद्भुतमिवाभवत् 030a ततः शरसहस्राणि बहूनि भरतर्षभ 030c प्रेषयामास समरे द्रौणिः परमकोपनः 031a तामापतन्तीं समरे शरवृष्टिं सुदारुणाम् 031c असिना तीक्ष्णधारेण चिच्छेद बलिनां वरः 032a ततोऽस्य विमलं द्रौणिः शतचन्द्रं मनोरमम् 032c चर्माच्छिनदसिं चास्य खण्डयामास संयुगे 032e शितैः सुबहुशो राजंस्तं च विव्याध पत्रिभिः 033a शिखण्डी तु ततः खड्गं खण्डितं तेन सायकैः 033c आविध्य व्यसृजत्तूर्णं ज्वलन्तमिव पन्नगम् 034a तमापतन्तं सहसा कालानलसमप्रभम् 034c चिच्छेद समरे द्रौणिर्दर्शयन्पाणिलाघवम् 034e शिखण्डिनं च विव्याध शरैर्बहुभिरायसैः 035a शिखण्डी तु भृशं राजंस्ताड्यमानः शितैः शरैः 035c आरुरोह रथं तूर्णं माधवस्य महात्मनः 036a सात्यकिस्तु ततः क्रुद्धो राक्षसं क्रूरमाहवे 036c अलम्बुसं शरैर्घोरैर्विव्याध बलिनं बली 037a राक्षसेन्द्रस्ततस्तस्य धनुश्चिच्छेद भारत 037c अर्धचन्द्रेण समरे तं च विव्याध सायकैः 037e मायां च राक्षसीं कृत्वा शरवर्षैरवाकिरत् 038a तत्राद्भुतमपश्याम शैनेयस्य पराक्रमम् 038c नासम्भ्रमद्यत्समरे वध्यमानः शितैः शरैः 039a ऐन्द्रमस्त्रं च वार्ष्णेयो योजयामास भारत 039c विजयाद्यदनुप्राप्तं माधवेन यशस्विना 040a तदस्त्रं भस्मसात्कृत्वा मायां तां राक्षसीं तदा 040c अलम्बुसं शरैर्घोरैरभ्याकिरत सर्वशः 040e पर्वतं वारिधाराभिः प्रावृषीव बलाहकः 041a तत्तथा पीडितं तेन माधवेन महात्मना 041c प्रदुद्राव भयाद्रक्षो हित्वा सात्यकिमाहवे 042a तमजेयं राक्षसेन्द्रं सङ्ख्ये मघवता अपि 042c शैनेयः प्राणदज्जित्वा योधानां तव पश्यताम् 043a न्यहनत्तावकांश्चापि सात्यकिः सत्यविक्रमः 043c निशितैर्बहुभिर्बाणैस्तेऽद्रवन्त भयार्दिताः 044a एतस्मिन्नेव काले तु द्रुपदस्यात्मजो बली 044c धृष्टद्युम्नो महाराज तव पुत्रं जनेश्वरम् 044e छादयामास समरे शरैः सन्नतपर्वभिः 045a सञ्छाद्यमानो विशिखैर्धृष्टद्युम्नेन भारत 045c विव्यथे न च राजेन्द्र तव पुत्रो जनेश्वरः 046a धृष्टद्युम्नं च समरे तूर्णं विव्याध सायकैः 046c षष्ट्या च त्रिंशता चैव तदद्भुतमिवाभवत् 047a तस्य सेनापतिः क्रुद्धो धनुश्चिच्छेद मारिष 047c हयांश्च चतुरः शीघ्रं निजघान महारथः 047e शरैश्चैनं सुनिशितैः क्षिप्रं विव्याध सप्तभिः 048a स हताश्वान्महाबाहुरवप्लुत्य रथाद्बली 048c पदातिरसिमुद्यम्य प्राद्रवत्पार्षतं प्रति 049a शकुनिस्तं समभ्येत्य राजगृद्धी महाबलः 049c राजानं सर्वलोकस्य रथमारोपयत्स्वकम् 050a ततो नृपं पराजित्य पार्षतः परवीरहा 050c न्यहनत्तावकं सैन्यं वज्रपाणिरिवासुरम् 051a कृतवर्मा रणे भीमं शरैरार्छन्महारथम् 051c प्रच्छादयामास च तं महामेघो रविं यथा 052a ततः प्रहस्य समरे भीमसेनः परन्तपः 052c प्रेषयामास सङ्क्रुद्धः सायकान्कृतवर्मणे 053a तैरर्द्यमानोऽतिरथः सात्वतः शस्त्रकोविदः 053c नाकम्पत महाराज भीमं चार्छच्छितैः शरैः 054a तस्याश्वांश्चतुरो हत्वा भीमसेनो महाबलः 054c सारथिं पातयामास ध्वजं च सुपरिष्कृतम् 055a शरैर्बहुविधैश्चैनमाचिनोत्परवीरहा 055c शकलीकृतसर्वाङ्गः श्वाविद्वत्समदृश्यत 056a हताश्वात्तु रथात्तूर्णं वृषकस्य रथं ययौ 056c स्यालस्य ते महाराज तव पुत्रस्य पश्यतः 057a भीमसेनोऽपि सङ्क्रुद्धस्तव सैन्यमुपाद्रवत् 057c निजघान च सङ्क्रुद्धो दण्डपाणिरिवान्तकः