001 सञ्जय उवाच 001a अथात्मजं तव पुनर्गाङ्गेयो ध्यानमास्थितम् 001c अब्रवीद्भरतश्रेष्ठः सम्प्रहर्षकरं वचः 002a अहं द्रोणश्च शल्यश्च कृतवर्मा च सात्वतः 002c अश्वत्थामा विकर्णश्च सोमदत्तोऽथ सैन्धवः 003a विन्दानुविन्दावावन्त्यौ बाह्लिकः सह बाह्लिकैः 003c त्रिगर्तराजश्च बली मागधश्च सुदुर्जयः 004a बृहद्बलश्च कौसल्यश्चित्रसेनो विविंशतिः 004c रथाश्च बहुसाहस्राः शोभमाना महाध्वजाः 005a देशजाश्च हया राजन्स्वारूढा हयसादिभिः 005c गजेन्द्राश्च मदोद्वृत्ताः प्रभिन्नकरटामुखाः 006a पदाताश्च तथा शूरा नानाप्रहरणायुधाः 006c नानादेशसमुत्पन्नास्त्वदर्थे योद्धुमुद्यताः 007a एते चान्ये च बहवस्त्वदर्थे त्यक्तजीविताः 007c देवानपि रणे जेतुं समर्था इति मे मतिः 008a अवश्यं तु मया राजंस्तव वाच्यं हितं सदा 008c अशक्याः पाण्डवा जेतुं देवैरपि सवासवैः 008e वासुदेवसहायाश्च महेन्द्रसमविक्रमाः 009a सर्वथाहं तु राजेन्द्र करिष्ये वचनं तव 009c पाण्डवान्वा रणे जेष्ये मां वा जेष्यन्ति पाण्डवाः 010a एवमुक्त्वा ददौ चास्मै विशल्यकरणीं शुभाम् 010c ओषधीं वीर्यसम्पन्नां विशल्यश्चाभवत्तदा 011a ततः प्रभाते विमले स्वेनानीकेन वीर्यवान् 011c अव्यूहत स्वयं व्यूहं भीष्मो व्यूहविशारदः 012a मण्डलं मनुजश्रेष्ठ नानाशस्त्रसमाकुलम् 012c सम्पूर्णं योधमुख्यैश्च तथा दन्तिपदातिभिः 013a रथैरनेकसाहस्रैः समन्तात्परिवारितम् 013c अश्ववृन्दैर्महद्भिश्च ऋष्टितोमरधारिभिः 014a नागे नागे रथाः सप्त सप्त चाश्वा रथे रथे 014c अन्वश्वं दश धानुष्का धानुष्के सप्त चर्मिणः 015a एवंव्यूहं महाराज तव सैन्यं महारथैः 015c स्थितं रणाय महते भीष्मेण युधि पालितम् 016a दशाश्वानां सहस्राणि दन्तिनाञ्च तथैव च 016c रथानामयुतञ्चापि पुत्राश्च तव दंशिताः 016e चित्रसेनादयः शूरा अभ्यरक्षन्पितामहम् 017a रक्ष्यमाणश्च तैः शूरैर्गोप्यमानाश्च तेन ते 017c सन्नद्धाः समदृश्यन्त राजानश्च महाबलाः 018a दुर्योधनस्तु समरे दंशितो रथमास्थितः 018c व्यभ्राजत श्रिया जुष्टो यथा शक्रस्त्रिविष्टपे 019a ततः शब्दो महानासीत्पुत्राणां तव भारत 019c रथघोषश्च तुमुलो वादित्राणां च निस्वनः 020a भीष्मेण धार्तराष्ट्राणां व्यूढः प्रत्यङ्मुखो युधि 020c मण्डलः सुमहाव्यूहो दुर्भेद्योऽमित्रघातिनाम् 020e सर्वतः शुशुभे राजन्रणेऽरीणां दुरासदः 021a मण्डलं तु समालोक्य व्यूहं परमदारुणम् 021c स्वयं युधिष्ठिरो राजा व्यूहं वज्रमथाकरोत् 022a तथा व्यूढेष्वनीकेषु यथास्थानमवस्थिताः 022c रथिनः सादिनश्चैव सिंहनादमथानदन् 023a बिभित्सवस्ततो व्यूहं निर्ययुर्युद्धकाङ्क्षिणः 023c इतरेतरतः शूराः सहसैन्याः प्रहारिणः 024a भारद्वाजो ययौ मत्स्यं द्रौणिश्चापि शिखण्डिनम् 024c स्वयं दुर्योधनो राजा पार्षतं समुपाद्रवत् 025a नकुलः सहदेवश्च राजन्मद्रेशमीयतुः 025c विन्दानुविन्दावावन्त्याविरावन्तमभिद्रुतौ 026a सर्वे नृपास्तु समरे धनञ्जयमयोधयन् 026c भीमसेनो रणे यत्तो हार्दिक्यं समवारयत् 027a चित्रसेनं विकर्णं च तथा दुर्मर्षणं विभो 027c आर्जुनिः समरे राजंस्तव पुत्रानयोधयत् 028a प्राग्ज्योतिषं महेष्वासं हैडिम्बो राक्षसोत्तमः 028c अभिदुद्राव वेगेन मत्तो मत्तमिव द्विपम् 029a अलम्बुसस्ततो राजन्सात्यकिं युद्धदुर्मदम् 029c ससैन्यं समरे क्रुद्धो राक्षसः समभिद्रवत् 030a भूरिश्रवा रणे यत्तो धृष्टकेतुमयोधयत् 030c श्रुतायुषं तु राजानं धर्मपुत्रो युधिष्ठिरः 031a चेकितानस्तु समरे कृपमेवान्वयोधयत् 031c शेषाः प्रतिययुर्यत्ता भीममेव महारथम् 032a ततो राजसहस्राणि परिवव्रुर्धनञ्जयम् 032c शक्तितोमरनाराचगदापरिघपाणयः 033a अर्जुनोऽथ भृशं क्रुद्धो वार्ष्णेयमिदमब्रवीत् 033c पश्य माधव सैन्यानि धार्तराष्ट्रस्य संयुगे 033e व्यूढानि व्यूहविदुषा गाङ्गेयेन महात्मना 034a युद्धाभिकामाञ्शूरांश्च पश्य माधव दंशितान् 034c त्रिगर्तराजं सहितं भ्रातृभिः पश्य केशव 035a अद्यैतान्पातयिष्यामि पश्यतस्ते जनार्दन 035c य इमे मां यदुश्रेष्ठ योद्धुकामा रणाजिरे 036a एवमुक्त्वा तु कौन्तेयो धनुर्ज्यामवमृज्य च 036c ववर्ष शरवर्षाणि नराधिपगणान्प्रति 037a तेऽपि तं परमेष्वासाः शरवर्षैरपूरयन् 037c तडागमिव धाराभिर्यथा प्रावृषि तोयदाः 038a हाहाकारो महानासीत्तव सैन्ये विशाम्पते 038c छाद्यमानौ भृशं कृष्णौ शरैर्दृष्ट्वा महारणे 039a देवा देवर्षयश्चैव गन्धर्वाश्च महोरगाः 039c विस्मयं परमं जग्मुर्दृष्ट्वा कृष्णौ तथागतौ 040a ततः क्रुद्धोऽर्जुनो राजन्नैन्द्रमस्त्रमुदीरयत् 040c तत्राद्भुतमपश्याम विजयस्य पराक्रमम् 041a शस्त्रवृष्टिं परैर्मुक्तां शरौघैर्यदवारयत् 041c न च तत्राप्यनिर्भिन्नः कश्चिदासीद्विशाम्पते 042a तेषां राजसहस्राणां हयानां दन्तिनां तथा 042c द्वाभ्यां त्रिभिः शरैश्चान्यान्पार्थो विव्याध मारिष 043a ते हन्यमानाः पार्थेन भीष्मं शान्तनवं ययुः 043c अगाधे मज्जमानानां भीष्मस्त्राताभवत्तदा 044a आपतद्भिस्तु तैस्तत्र प्रभग्नं तावकं बलम् 044c सञ्चुक्षुभे महाराज वातैरिव महार्णवः