001 सञ्जय उवाच 001a अथ शूरा महाराज परस्परकृतागसः 001c जग्मुः स्वशिबिराण्येव रुधिरेण समुक्षिताः 002a विश्रम्य च यथान्यायं पूजयित्वा परस्परम् 002c सन्नद्धाः समदृश्यन्त भूयो युद्धचिकीर्षया 003a ततस्तव सुतो राजंश्चिन्तयाभिपरिप्लुतः 003c विस्रवच्छोणिताक्ताङ्गः पप्रच्छेदम्पितामहम् 004a सैन्यानि रौद्राणि भयानकानि; व्यूढानि सम्यग्बहुलध्वजानि 004c विदार्य हत्वा च निपीड्य शूरा;स्ते पाण्डवानां त्वरिता रथौघाः 005a सम्मोह्य सर्वान्युधि कीर्तिमन्तो; व्यूहञ्च तम्मकरं वज्रकल्पम् 005c प्रविश्य भीमेन निबर्हितोऽस्मि; घोरैः शरैर्मृत्युदण्डप्रकाशैः 006a क्रुद्धं तमुद्वीक्ष्य भयेन राज;न्सम्मूर्छितो नालभं शान्तिमद्य 006c इच्छे प्रसादात्तव सत्यसन्ध; प्राप्तुं जयं पाण्डवेयांश्च हन्तुम् 007a तेनैवमुक्तः प्रहसन्महात्मा; दुर्योधनं जातमन्युं विदित्वा 007c तं प्रत्युवाचाविमना मनस्वी; गङ्गासुतः शस्त्रभृतां वरिष्ठः 008a परेण यत्नेन विगाह्य सेनां; सर्वात्मनाहं तव राजपुत्र 008c इच्छामि दातुं विजयं सुखञ्च; न चात्मानं छादयेऽहं त्वदर्थे 009a एते तु रौद्रा बहवो महारथा; यशस्विनः शूरतमाः कृतास्त्राः 009c ये पाण्डवानां समरे सहाया; जितक्लमाः क्रोधविषं वमन्ति 010a ते नेह शक्याः सहसा विजेतुं; वीर्योन्नद्धाः कृतवैरास्त्वया च 010c अहं ह्येतान्प्रतियोत्स्यामि राज;न्सर्वात्मना जीवितं त्यज्य वीर 011a रणे तवार्थाय महानुभाव; न जीवितं रक्ष्यतमं ममाद्य 011c सर्वांस्तवार्थाय सदेवदैत्याँ;ल्लोकान्दहेयं किमु शत्रूंस्तवेह 012a तत्पाण्डवान्योधयिष्यामि राज;न्प्रियञ्च ते सर्वमहं करिष्ये 012c श्रुत्वैव चैतत्परमप्रतीतो; दुर्योधनः प्रीतमना बभूव 013a सर्वाणि सैन्यानि ततः प्रहृष्टो; निर्गच्छतेत्याह नृपांश्च सर्वान् 013c तदाज्ञया तानि विनिर्ययुर्द्रुतं; रथाश्वपादातगजायुतानि 014a प्रहर्षयुक्तानि तु तानि राज;न्महान्ति नानाविधशस्त्रवन्ति 014c स्थितानि नागाश्वपदातिमन्ति; विरेजुराजौ तव राजन्बलानि 015a वृन्दैः स्थिताश्चापि सुसम्प्रयुक्ता;श्चकाशिरे दन्तिगणाः समन्तात् 015c शस्त्रास्त्रविद्भिर्नरदेव योधै;रधिष्ठिताः सैन्यगणास्त्वदीयाः 016a रथैश्च पादातगजाश्वसङ्घैः; प्रयाद्भिराजौ विधिवत्प्रणुन्नैः 016c समुद्धतं वै तरुणार्कवर्णं; रजो बभौ छादयत्सूर्यरश्मीन् 017a रेजुः पताका रथदन्तिसंस्था; वातेरिता भ्राम्यमाणाः समन्तात् 017c नानारङ्गाः समरे तत्र राज;न्मेघैर्युक्ता विद्युतः खे यथैव 018a धनूंषि विस्फारयतां नृपाणां; बभूव शब्दस्तुमुलोऽतिघोरः 018c विमथ्यतो देवमहासुरौघै;र्यथार्णवस्यादियुगे तदानीम् 019a तदुग्रनादम्बहुरूपवर्णं; तवात्मजानां समुदीर्णमेवम् 019c बभूव सैन्यं रिपुसैन्यहन्तृ; युगान्तमेघौघनिभं तदानीम्