001 सञ्जय उवाच 001a ततो दुर्योधनो राजा लोहितायति भास्करे 001c सङ्ग्रामरभसो भीमं हन्तुकामोऽभ्यधावत 002a तमायान्तमभिप्रेक्ष्य नृवीरं दृढवैरिणम् 002c भीमसेनः सुसङ्क्रुद्ध इदं वचनमब्रवीत् 003a अयं स कालः सम्प्राप्तो वर्षपूगाभिकाङ्क्षितः 003c अद्य त्वां निहनिष्यामि यदि नोत्सृजसे रणम् 004a अद्य कुन्त्याः परिक्लेशं वनवासञ्च कृत्स्नशः 004c द्रौपद्याश्च परिक्लेशं प्रणोत्स्यामि हते त्वयि 005a यत्त्वं दुरोदरो भूत्वा पाण्डवानवमन्यसे 005c तस्य पापस्य गान्धारे पश्य व्यसनमागतम् 006a कर्णस्य मतमाज्ञाय सौबलस्य च यत्पुरा 006c अचिन्त्य पाण्डवान्कामाद्यथेष्टं कृतवानसि 007a याचमानं च यन्मोहाद्दाशार्हमवमन्यसे 007c उलूकस्य समादेशं यद्ददासि च हृष्टवत् 008a अद्य त्वा निहनिष्यामि सानुबन्धं सबान्धवम् 008c समीकरिष्ये तत्पापं यत्पुरा कृतवानसि 009a एवमुक्त्वा धनुर्घोरं विकृष्योद्भ्राम्य चासकृत् 009c समादाय शरान्घोरान्महाशनिसमप्रभान् 010a षड्विंशत्तरसा क्रुद्धो मुमोचाशु सुयोधने 010c ज्वलिताग्निशिखाकारान्वज्रकल्पानजिह्मगान् 011a ततोऽस्य कार्मुकं द्वाभ्यां सूतं द्वाभ्याञ्च विव्यधे 011c चतुर्भिरश्वाञ्जवनाननयद्यमसादनम् 012a द्वाभ्यां च सुविकृष्टाभ्यां शराभ्यामरिमर्दनः 012c छत्रं चिच्छेद समरे राज्ञस्तस्य रथोत्तमात् 013a त्रिभिश्च तस्य चिच्छेद ज्वलन्तं ध्वजमुत्तमम् 013c छित्त्वा तं च ननादोच्चैस्तव पुत्रस्य पश्यतः 014a रथाच्च स ध्वजः श्रीमान्नानारत्नविभूषितः 014c पपात सहसा भूमिं विद्युज्जलधरादिव 015a ज्वलन्तं सूर्यसङ्काशं नागं मणिमयं शुभम् 015c ध्वजं कुरुपतेश्छिन्नं ददृशुः सर्वपार्थिवाः 016a अथैनं दशभिर्बाणैस्तोत्त्रैरिव महागजम् 016c आजघान रणे भीमः स्मयन्निव महारथः 017a ततस्तु राजा सिन्धूनां रथश्रेष्ठो जयद्रथः 017c दुर्योधनस्य जग्राह पार्ष्णिं सत्पुरुषोचिताम् 018a कृपश्च रथिनां श्रेष्ठः कौरव्यममितौजसम् 018c आरोपयद्रथं राजन्दुर्योधनममर्षणम् 019a स गाढविद्धो व्यथितो भीमसेनेन संयुगे 019c निषसाद रथोपस्थे राजा दुर्योधनस्तदा 020a परिवार्य ततो भीमं हन्तुकामो जयद्रथः 020c रथैरनेकसाहस्रैर्भीमस्यावारयद्दिशः 021a धृष्टकेतुस्ततो राजन्नभिमन्युश्च वीर्यवान् 021c केकया द्रौपदेयाश्च तव पुत्रानयोधयन् 022a चित्रसेनः सुचित्रश्च चित्राश्वश्चित्रदर्शनः 022c चारुचित्रः सुचारुश्च तथा नन्दोपनन्दकौ 023a अष्टावेते महेष्वासाः सुकुमारा यशस्विनः 023c अभिमन्युरथं राजन्समन्तात्पर्यवारयन् 024a आजघान ततस्तूर्णमभिमन्युर्महामनाः 024c एकैकं पञ्चभिर्विद्ध्वा शरैः सन्नतपर्वभिः 024e वज्रमृत्युप्रतीकाशैर्विचित्रायुधनिःसृतैः 025a अमृष्यमाणास्ते सर्वे सौभद्रं रथसत्तमम् 025c ववर्षुर्मार्गणैस्तीक्ष्णैर्गिरिं मेरुमिवाम्बुदाः 026a स पीड्यमानः समरे कृतास्त्रो युद्धदुर्मदः 026c अभिमन्युर्महाराज तावकान्समकम्पयत् 026e यथा देवासुरे युद्धे वज्रपाणिर्महासुरान् 027a विकर्णस्य ततो भल्लान्प्रेषयामास भारत 027c चतुर्दश रथश्रेष्ठो घोरानाशीविषोपमान् 027e ध्वजं सूतं हयांश्चास्य छित्त्वा नृत्यन्निवाहवे 028a पुनश्चान्याञ्शरान्पीतानकुण्ठाग्राञ्शिलाशितान् 028c प्रेषयामास सौभद्रो विकर्णाय महाबलः 029a ते विकर्णं समासाद्य कङ्कबर्हिणवाससः 029c भित्त्वा देहं गता भूमिं ज्वलन्त इव पन्नगाः 030a ते शरा हेमपुङ्खाग्रा व्यदृश्यन्त महीतले 030c विकर्णरुधिरक्लिन्ना वमन्त इव शोणितम् 031a विकर्णं वीक्ष्य निर्भिन्नं तस्यैवान्ये सहोदराः 031c अभ्यद्रवन्त समरे सौभद्रप्रमुखान्रथान् 032a अभियात्वा तथैवाशु रथस्थान्सूर्यवर्चसः 032c अविध्यन्समरेऽन्योन्यं संरब्धा युद्धदुर्मदाः 033a दुर्मुखः श्रुतकर्माणं विद्ध्वा सप्तभिराशुगैः 033c ध्वजमेकेन चिच्छेद सारथिं चास्य सप्तभिः 034a अश्वाञ्जाम्बूनदैर्जालैः प्रच्छन्नान्वातरंहसः 034c जघान षड्भिरासाद्य सारथिं चाभ्यपातयत् 035a स हताश्वे रथे तिष्ठञ्श्रुतकर्मा महारथः 035c शक्तिं चिक्षेप सङ्क्रुद्धो महोल्कां ज्वलितामिव 036a सा दुर्मुखस्य विपुलं वर्म भित्त्वा यशस्विनः 036c विदार्य प्राविशद्भूमिं दीप्यमाना सुतेजना 037a तं दृष्ट्वा विरथं तत्र सुतसोमो महाबलः 037c पश्यतां सर्वसैन्यानां रथमारोपयत्स्वकम् 038a श्रुतकीर्तिस्तथा वीरो जयत्सेनं सुतं तव 038c अभ्ययात्समरे राजन्हन्तुकामो यशस्विनम् 039a तस्य विक्षिपतश्चापं श्रुतकीर्तेर्महात्मनः 039c चिच्छेद समरे राजञ्जयत्सेनः सुतस्तव 039e क्षुरप्रेण सुतीक्ष्णेन प्रहसन्निव भारत 040a तं दृष्ट्वा छिन्नधन्वानं शतानीकः सहोदरम् 040c अभ्यपद्यत तेजस्वी सिंहवद्विनदन्मुहुः 041a शतानीकस्तु समरे दृढं विस्फार्य कार्मुकम् 041c विव्याध दशभिस्तूर्णं जयत्सेनं शिलीमुखैः 042a अथान्येन सुतीक्ष्णेन सर्वावरणभेदिना 042c शतानीको जयत्सेनं विव्याध हृदये भृशम् 043a तथा तस्मिन्वर्तमाने दुष्कर्णो भ्रातुरन्तिके 043c चिच्छेद समरे चापं नाकुलेः क्रोधमूर्छितः 044a अथान्यद्धनुरादाय भारसाधनमुत्तमम् 044c समादत्त शितान्बाणाञ्शतानीको महाबलः 045a तिष्ठ तिष्ठेति चामन्त्र्य दुष्कर्णं भ्रातुरग्रतः 045c मुमोच निशितान्बाणाञ्ज्वलितान्पन्नगानिव 046a ततोऽस्य धनुरेकेन द्वाभ्यां सूतञ्च मारिष 046c चिच्छेद समरे तूर्णं तं च विव्याध सप्तभिः 047a अश्वान्मनोजवांश्चास्य कल्माषान्वीतकल्मषः 047c जघान निशितैस्तूर्णं सर्वान्द्वादशभिः शरैः 048a अथापरेण भल्लेन सुमुक्तेन निपातिना 048c दुष्कर्णं समरे क्रुद्धो विव्याध हृदये भृशम् 049a दुष्कर्णं निहतं दृष्ट्वा पञ्च राजन्महारथाः 049c जिघांसन्तः शतानीकं सर्वतः पर्यवारयन् 050a छाद्यमानं शरव्रातैः शतानीकं यशस्विनम् 050c अभ्यधावन्त संरब्धाः केकयाः पञ्च सोदराः 051a तानभ्यापततः प्रेक्ष्य तव पुत्रा महारथाः 051c प्रत्युद्ययुर्महाराज गजा इव महागजान् 052a दुर्मुखो दुर्जयश्चैव तथा दुर्मर्षणो युवा 052c शत्रुञ्जयः शत्रुसहः सर्वे क्रुद्धा यशस्विनः 052e प्रत्युद्याता महाराज केकयान्भ्रातरः समम् 053a रथैर्नगरसङ्काशैर्हयैर्युक्तैर्मनोजवैः 053c नानावर्णविचित्राभिः पताकाभिरलङ्कृतैः 054a वरचापधरा वीरा विचित्रकवचध्वजाः 054c विविशुस्ते परं सैन्यं सिंहा इव वनाद्वनम् 055a तेषां सुतुमुलं युद्धं व्यतिषक्तरथद्विपम् 055c अवर्तत महारौद्रं निघ्नतामितरेतरम् 055e अन्योन्यागस्कृतां राजन्यमराष्ट्रविवर्धनम् 056a मुहूर्तास्तमिते सूर्ये चक्रुर्युद्धं सुदारुणम् 056c रथिनः सादिनश्चैव व्यकीर्यन्त सहस्रशः 057a ततः शान्तनवः क्रुद्धः शरैः सन्नतपर्वभिः 057c नाशयामास सेनां वै भीष्मस्तेषां महात्मनाम् 057e पाञ्चालानां च सैन्यानि शरैर्निन्ये यमक्षयम् 058a एवं भित्त्वा महेष्वासः पाण्डवानामनीकिनीम् 058c कृत्वावहारं सैन्यानां ययौ स्वशिबिरं नृप 059a धर्मराजोऽपि सम्प्रेक्ष्य धृष्टद्युम्नवृकोदरौ 059c मूर्ध्नि चैतावुपाघ्राय संहृष्टः शिबिरं ययौ