001 सञ्जय उवाच 001a ततो दुर्योधनो राजा मोहात्प्रत्यागतस्तदा 001c शरवर्षैः पुनर्भीमं प्रत्यवारयदच्युतम् 002a एकीभूताः पुनश्चैव तव पुत्रा महारथाः 002c समेत्य समरे भीमं योधयामासुरुद्यताः 003a भीमसेनोऽपि समरे सम्प्राप्य स्वरथं पुनः 003c समारुह्य महाबाहुर्ययौ येन तवात्मजः 004a प्रगृह्य च महावेगं परासुकरणं दृढम् 004c चित्रं शरासनं सङ्ख्ये शरैर्विव्याध ते सुतान् 005a ततो दुर्योधनो राजा भीमसेनं महाबलम् 005c नाराचेन सुतीक्ष्णेन भृशं मर्मण्यताडयत् 006a सोऽतिविद्धो महेष्वासस्तव पुत्रेण धन्विना 006c क्रोधसंरक्तनयनो वेगेनोत्क्षिप्य कार्मुकम् 007a दुर्योधनं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् 007c स तथाभिहतो राजा नाचलद्गिरिराडिव 008a तौ दृष्ट्वा समरे क्रुद्धौ विनिघ्नन्तौ परस्परम् 008c दुर्योधनानुजाः सर्वे शूराः सन्त्यक्तजीविताः 009a संस्मृत्य मन्त्रितं पूर्वं निग्रहे भीमकर्मणः 009c निश्चयं मनसा कृत्वा निग्रहीतुं प्रचक्रमुः 010a तानापतत एवाजौ भीमसेनो महाबलः 010c प्रत्युद्ययौ महाराज गजः प्रतिगजानिव 011a भृशं क्रुद्धश्च तेजस्वी नाराचेन समर्पयत् 011c चित्रसेनं महाराज तव पुत्रं महायशाः 012a तथेतरांस्तव सुतांस्ताडयामास भारत 012c शरैर्बहुविधैः सङ्ख्ये रुक्मपुङ्खैः सुवेगितैः 013a ततः संस्थाप्य समरे स्वान्यनीकानि सर्वशः 013c अभिमन्युप्रभृतयस्ते द्वादश महारथाः 014a प्रेषिता धर्मराजेन भीमसेनपदानुगाः 014c प्रत्युद्ययुर्महाराज तव पुत्रान्महाबलान् 015a दृष्ट्वा रथस्थांस्ताञ्शूरान्सूर्याग्निसमतेजसः 015c सर्वानेव महेष्वासान्भ्राजमानाञ्श्रिया वृतान् 016a महाहवे दीप्यमानान्सुवर्णकवचोज्ज्वलान् 016c तत्यजुः समरे भीमं तव पुत्रा महाबलाः 017a तान्नामृष्यत कौन्तेयो जीवमाना गता इति 017c अन्वीय च पुनः सर्वांस्तव पुत्रानपीडयत् 018a अथाभिमन्युं समरे भीमसेनेन सङ्गतम् 018c पार्षतेन च सम्प्रेक्ष्य तव सैन्ये महारथाः 019a दुर्योधनप्रभृतयः प्रगृहीतशरासनाः 019c भृशमश्वैः प्रजवितैः प्रययुर्यत्र ते रथाः 020a अपराह्णे ततो राजन्प्रावर्तत महान्रणः 020c तावकानां च बलिनां परेषां चैव भारत 021a अभिमन्युर्विकर्णस्य हयान्हत्वा महाजवान् 021c अथैनं पञ्चविंशत्या क्षुद्रकाणां समाचिनोत् 022a हताश्वं रथमुत्सृज्य विकर्णस्तु महारथः 022c आरुरोह रथं राजंश्चित्रसेनस्य भास्वरम् 023a स्थितावेकरथे तौ तु भ्रातरौ कुरुवर्धनौ 023c आर्जुनिः शरजालेन छादयामास भारत 024a दुर्जयोऽथ विकर्णश्च कार्ष्णिं पञ्चभिरायसैः 024c विव्यधाते न चाकम्पत्कार्ष्णिर्मेरुरिवाचलः 025a दुःशासनस्तु समरे केकयान्पञ्च मारिष 025c योधयामास राजेन्द्र तदद्भुतमिवाभवत् 026a द्रौपदेया रणे क्रुद्धा दुर्योधनमवारयन् 026c एकैकस्त्रिभिरानर्छत्पुत्रं तव विशाम्पते 027a पुत्रोऽपि तव दुर्धर्षो द्रौपद्यास्तनयान्रणे 027c सायकैर्निशितै राजन्नाजघान पृथक्पृथक् 028a तैश्चापि विद्धः शुशुभे रुधिरेण समुक्षितः 028c गिरिप्रस्रवणैर्यद्वद्गिरिर्धातुविमिश्रितैः 029a भीष्मोऽपि समरे राजन्पाण्डवानामनीकिनीम् 029c कालयामास बलवान्पालः पशुगणानिव 030a ततो गाण्डीवनिर्घोषः प्रादुरासीद्विशाम्पते 030c दक्षिणेन वरूथिन्याः पार्थस्यारीन्विनिघ्नतः 031a उत्तस्थुः समरे तत्र कबन्धानि समन्ततः 031c कुरूणां चापि सैन्येषु पाण्डवानाञ्च भारत 032a शोणितोदं रथावर्तं गजद्वीपं हयोर्मिणम् 032c रथनौभिर्नरव्याघ्राः प्रतेरुः सैन्यसागरम् 033a छिन्नहस्ता विकवचा विदेहाश्च नरोत्तमाः 033c पतितास्तत्र दृश्यन्ते शतशोऽथ सहस्रशः 034a निहतैर्मत्तमातङ्गैः शोणितौघपरिप्लुतैः 034c भूर्भाति भरतश्रेष्ठ पर्वतैराचिता यथा 035a तत्राद्भुतमपश्याम तव तेषाञ्च भारत 035c न तत्रासीत्पुमान्कश्चिद्यो योद्धुं नाभिकाङ्क्षति 036a एवं युयुधिरे वीराः प्रार्थयाना महद्यशः 036c तावकाः पाण्डवैः सार्धं काङ्क्षमाणा जयं युधि