001 सञ्जय उवाच 001a आत्मदोषात्त्वया राजन्प्राप्तं व्यसनमीदृशम् 001c न हि दुर्योधनस्तानि पश्यते भरतर्षभ 001e यानि त्वं दृष्टवान्राजन्धर्मसङ्करकारिते 002a तव दोषात्पुरा वृत्तं द्यूतमेतद्विशां पते 002c तव दोषेण युद्धं च प्रवृत्तं सह पाण्डवैः 002e त्वमेवाद्य फलम्भुङ्क्ष्व कृत्वा किल्बिषमात्मना 003a आत्मना हि कृतं कर्म आत्मनैवोपभुज्यते 003c इह वा प्रेत्य वा राजंस्त्वया प्राप्तं यथातथम् 004a तस्माद्राजन्स्थिरो भूत्वा प्राप्येदं व्यसनं महत् 004c शृणु युद्धं यथावृत्तं शंसतो मम मारिष 005a भीमसेनस्तु निशितैर्बाणैर्भित्त्वा महाचमूम् 005c आससाद ततो वीरः सर्वान्दुर्योधनानुजान् 006a दुःशासनं दुर्विषहं दुःसहं दुर्मदं जयम् 006c जयत्सेनं विकर्णञ्च चित्रसेनं सुदर्शनम् 007a चारुचित्रं सुवर्माणं दुष्कर्णं कर्णमेव च 007c एतानन्यांश्च सुबहून्समीपस्थान्महारथान् 008a धार्तराष्ट्रान्सुसङ्क्रुद्धान्दृष्ट्वा भीमो महाबलः 008c भीष्मेण समरे गुप्तां प्रविवेश महाचमूम् 009a अथाह्वयन्त तेऽन्योन्यमयं प्राप्तो वृकोदरः 009c जीवग्राहं निगृह्णीमो वयमेनं नराधिपाः 010a स तैः परिवृतः पार्थो भ्रातृभिः कृतनिश्चयैः 010c प्रजासंहरणे सूर्यः क्रूरैरिव महाग्रहैः 011a सम्प्राप्य मध्यं व्यूहस्य न भीः पाण्डवमाविशत् 011c यथा देवासुरे युद्धे महेन्द्रः प्राप्य दानवान् 012a ततः शतसहस्राणि रथिनां सर्वशः प्रभो 012c छादयानं शरैर्घोरैस्तमेकमनुवव्रिरे 013a स तेषां प्रवरान्योधान्हस्त्यश्वरथसादिनः 013c जघान समरे शूरो धार्तराष्ट्रानचिन्तयन् 014a तेषां व्यवसितं ज्ञात्वा भीमसेनो जिघृक्षताम् 014c समस्तानां वधे राजन्मतिं चक्रे महामनाः 015a ततो रथं समुत्सृज्य गदामादाय पाण्डवः 015c जघान धार्तराष्ट्राणां तं बलौघमहार्णवम् 016a भीमसेने प्रविष्टे तु धृष्टद्युम्नोऽपि पार्षतः 016c द्रोणमुत्सृज्य तरसा प्रययौ यत्र सौबलः 017a विदार्य महतीं सेनां तावकानां नरर्षभः 017c आससाद रथं शून्यं भीमसेनस्य संयुगे 018a दृष्ट्वा विशोकं समरे भीमसेनस्य सारथिम् 018c धृष्टद्युम्नो महाराज दुर्मना गतचेतनः 019a अपृच्छद्बाष्पसंरुद्धो निस्वनां वाचमीरयन् 019c मम प्राणैः प्रियतमः क्व भीम इति दुःखितः 020a विशोकस्तमुवाचेदं धृष्टद्युम्नं कृताञ्जलिः 020c संस्थाप्य मामिह बली पाण्डवेयः प्रतापवान् 021a प्रविष्टो धार्तराष्ट्राणामेतद्बलमहार्णवम् 021c मामुक्त्वा पुरुषव्याघ्र प्रीतियुक्तमिदं वचः 022a प्रतिपालय मां सूत नियम्याश्वान्मुहूर्तकम् 022c यावदेतान्निहन्म्याशु य इमे मद्वधोद्यताः 023a ततो दृष्ट्वा गदाहस्तं प्रधावन्तं महाबलम् 023c सर्वेषामेव सैन्यानां सङ्घर्षः समजायत 024a तस्मिंस्तु तुमुले युद्धे वर्तमाने भयानके 024c भित्त्वा राजन्महाव्यूहं प्रविवेश सखा तव 025a विशोकस्य वचः श्रुत्वा धृष्टद्युम्नोऽपि पार्षतः 025c प्रत्युवाच ततः सूतं रणमध्ये महाबलः 026a न हि मे विद्यते सूत जीवितेऽद्य प्रयोजनम् 026c भीमसेनं रणे हित्वा स्नेहमुत्सृज्य पाण्डवैः 027a यदि यामि विना भीमं किं मां क्षत्रं वदिष्यति 027c एकायनगते भीमे मयि चावस्थिते युधि 028a अस्वस्ति तस्य कुर्वन्ति देवाः साग्निपुरोगमाः 028c यः सहायान्परित्यज्य स्वस्तिमानाव्रजेद्गृहान् 029a मम भीमः सखा चैव सम्बन्धी च महाबलः 029c भक्तोऽस्मान्भक्तिमांश्चाहं तमप्यरिनिषूदनम् 030a सोऽहं तत्र गमिष्यामि यत्र यातो वृकोदरः 030c निघ्नन्तं मामरीन्पश्य दानवानिव वासवम् 031a एवमुक्त्वा ततो वीरो ययौ मध्येन भारतीम् 031c भीमसेनस्य मार्गेषु गदाप्रमथितैर्गजैः 032a स ददर्श ततो भीमं दहन्तं रिपुवाहिनीम् 032c वातं वृक्षानिव बलात्प्रभञ्जन्तं रणे नृपान् 033a ते हन्यमानाः समरे रथिनः सादिनस्तथा 033c पादाता दन्तिनश्चैव चक्रुरार्तस्वरं महत् 034a हाहाकारश्च सञ्जज्ञे तव सैन्यस्य मारिष 034c वध्यतो भीमसेनेन कृतिना चित्रयोधिना 035a ततः कृतास्त्रास्ते सर्वे परिवार्य वृकोदरम् 035c अभीताः समवर्तन्त शस्त्रवृष्ट्या समन्ततः 036a अभिद्रुतं शस्त्रभृतां वरिष्ठं; समन्ततः पाण्डवं लोकवीरैः 036c सैन्येन घोरेण सुसङ्गतेन; दृष्ट्वा बली पार्षतो भीमसेनम् 037a अथोपगच्छच्छरविक्षताङ्गं; पदातिनं क्रोधविषं वमन्तम् 037c आश्वासयन्पार्षतो भीमसेनं; गदाहस्तं कालमिवान्तकाले 038a निःशल्यमेनं च चकार तूर्ण;मारोपयच्चात्मरथं महात्मा 038c भृशं परिष्वज्य च भीमसेन;माश्वासयामास च शत्रुमध्ये 039a भ्रातॄनथोपेत्य तवापि पुत्र;स्तस्मिन्विमर्दे महति प्रवृत्ते 039c अयं दुरात्मा द्रुपदस्य पुत्रः; समागतो भीमसेनेन सार्धम् 039e तं यात सर्वे सहिता निहन्तुं; मा वो रिपुः प्रार्थयतामनीकम् 040a श्रुत्वा तु वाक्यं तममृष्यमाणा; ज्येष्ठाज्ञया चोदिता धार्तराष्ट्राः 040c वधाय निष्पेतुरुदायुधास्ते; युगक्षये केतवो यद्वदुग्राः 041a प्रगृह्य चित्राणि धनूंषि वीरा; ज्यानेमिघोषैः प्रविकम्पयन्तः 041c शरैरवर्षन्द्रुपदस्य पुत्रं; यथाम्बुदा भूधरं वारिजालैः 041e निहत्य तांश्चापि शरैः सुतीक्ष्णै;र्न विव्यथे समरे चित्रयोधी 042a समभ्युदीर्णांश्च तवात्मजांस्तथा; निशाम्य वीरानभितः स्थितान्रणे 042c जिघांसुरुग्रं द्रुपदात्मजो युवा; प्रमोहनास्त्रं युयुजे महारथः 042e क्रुद्धो भृशं तव पुत्रेषु राज;न्दैत्येषु यद्वत्समरे महेन्द्रः 043a ततो व्यमुह्यन्त रणे नृवीराः; प्रमोहनास्त्राहतबुद्धिसत्त्वाः 043c प्रदुद्रुवुः कुरवश्चैव सर्वे; सवाजिनागाः सरथाः समन्तात् 043e परीतकालानिव नष्टसञ्ज्ञा;न्मोहोपेतांस्तव पुत्रान्निशम्य 044a एतस्मिन्नेव काले तु द्रोणः शस्त्रभृतां वरः 044c द्रुपदं त्रिभिरासाद्य शरैर्विव्याध दारुणैः 045a सोऽतिविद्धस्तदा राजन्रणे द्रोणेन पार्थिवः 045c अपायाद्द्रुपदो राजन्पूर्ववैरमनुस्मरन् 046a जित्वा तु द्रुपदं द्रोणः शङ्खं दध्मौ प्रतापवान् 046c तस्य शङ्खस्वनं श्रुत्वा वित्रेसुः सर्वसोमकाः 047a अथ शुश्राव तेजस्वी द्रोणः शस्त्रभृतां वरः 047c प्रमोहनास्त्रेण रणे मोहितानात्मजांस्तव 048a ततो द्रोणो राजगृद्धी त्वरितोऽभिययौ रणात् 048c तत्रापश्यन्महेष्वासो भारद्वाजः प्रतापवान् 048e धृष्टद्युम्नं च भीमं च विचरन्तौ महारणे 049a मोहाविष्टांश्च ते पुत्रानपश्यत्स महारथः 049c ततः प्रज्ञास्त्रमादाय मोहनास्त्रं व्यशातयत् 050a अथ प्रत्यागतप्राणास्तव पुत्रा महारथाः 050c पुनर्युद्धाय समरे प्रययुर्भीमपार्षतौ 051a ततो युधिष्ठिरः प्राह समाहूय स्वसैनिकान् 051c गच्छन्तु पदवीं शक्त्या भीमपार्षतयोर्युधि 052a सौभद्रप्रमुखा वीरा रथा द्वादश दंशिताः 052c प्रवृत्तिमधिगच्छन्तु न हि शुध्यति मे मनः 053a त एवं समनुज्ञाताः शूरा विक्रान्तयोधिनः 053c बाढमित्येवमुक्त्वा तु सर्वे पुरुषमानिनः 053e मध्यन्दिनगते सूर्ये प्रययुः सर्व एव हि 054a केकया द्रौपदेयाश्च धृष्टकेतुश्च वीर्यवान् 054c अभिमन्युं पुरस्कृत्य महत्या सेनया वृताः 055a ते कृत्वा समरे व्यूहं सूचीमुखमरिन्दमाः 055c बिभिदुर्धार्तराष्ट्राणां तद्रथानीकमाहवे 056a तान्प्रयातान्महेष्वासानभिमन्युपुरोगमान् 056c भीमसेनभयाविष्टा धृष्टद्युम्नविमोहिता 057a न सन्धारयितुं शक्ता तव सेना जनाधिप 057c मदमूर्छान्वितात्मानं प्रमदेवाध्वनि स्थिता 058a तेऽभियाता महेष्वासाः सुवर्णविकृतध्वजाः 058c परीप्सन्तोऽभ्यधावन्त धृष्टद्युम्नवृकोदरौ 059a तौ च दृष्ट्वा महेष्वासानभिमन्युपुरोगमान् 059c बभूवतुर्मुदा युक्तौ निघ्नन्तौ तव वाहिनीम् 060a दृष्ट्वा च सहसायान्तं पाञ्चाल्यो गुरुमात्मनः 060c नाशंसत वधं वीरः पुत्राणां तव पार्षतः 061a ततो रथं समारोप्य केकयस्य वृकोदरम् 061c अभ्यधावत्सुसङ्क्रुद्धो द्रोणमिष्वस्त्रपारगम् 062a तस्याभिपततस्तूर्णं भारद्वाजः प्रतापवान् 062c क्रुद्धश्चिच्छेद भल्लेन धनुः शत्रुनिषूदनः 063a अन्यांश्च शतशो बाणान्प्रेषयामास पार्षते 063c दुर्योधनहितार्थाय भर्तृपिण्डमनुस्मरन् 064a अथान्यद्धनुरादाय पार्षतः परवीरहा 064c द्रोणं विव्याध सप्तत्या रुक्मपुङ्खैः शिलाशितैः 065a तस्य द्रोणः पुनश्चापं चिच्छेदामित्रकर्शनः 065c हयांश्च चतुरस्तूर्णं चतुर्भिः सायकोत्तमैः 066a वैवस्वतक्षयं घोरं प्रेषयामास वीर्यवान् 066c सारथिं चास्य भल्लेन प्रेषयामास मृत्यवे 067a हताश्वात्स रथात्तूर्णमवप्लुत्य महारथः 067c आरुरोह महाबाहुरभिमन्योर्महारथम् 068a ततः सरथनागाश्वा समकम्पत वाहिनी 068c पश्यतो भीमसेनस्य पार्षतस्य च पश्यतः 069a तत्प्रभग्नं बलं दृष्ट्वा द्रोणेनामिततेजसा 069c नाशक्नुवन्वारयितुं समस्तास्ते महारथाः 070a वध्यमानं तु तत्सैन्यं द्रोणेन निशितैः शरैः 070c व्यभ्रमत्तत्र तत्रैव क्षोभ्यमाण इवार्णवः 071a तथा दृष्ट्वा च तत्सैन्यं जहृषे च बलं तव 071c दृष्ट्वाचार्यं च सङ्क्रुद्धं दहन्तं रिपुवाहिनीम् 071e चुक्रुशुः सर्वतो योधाः साधु साध्विति भारत