001 धृतराष्ट्र उवाच 001a एवं बहुगुणं सैन्यमेवम्बहुविधम्परम् 001c व्यूढमेवं यथाशास्त्रममोघञ्चैव सञ्जय 002a पुष्टमस्माकमत्यन्तमभिकामं च नः सदा 002c प्रह्वमव्यसनोपेतं पुरस्ताद्दृष्टविक्रमम् 003a नातिवृद्धमबालञ्च न कृशं न च पीवरम् 003c लघुवृत्तायतप्रायं सारगात्रमनामयम् 004a आत्तसन्नाहशस्त्रञ्च बहुशस्त्रपरिग्रहम् 004c असियुद्धे नियुद्धे च गदायुद्धे च कोविदम् 005a प्रासर्ष्टितोमरेष्वाजौ परिघेष्वायसेषु च 005c भिण्डिपालेषु शक्तीषु मुसलेषु च सर्वशः 006a कम्पनेषु च चापेषु कणपेषु च सर्वशः 006c क्षेपणीषु च चित्रासु मुष्टियुद्धेषु कोविदम् 007a अपरोक्षञ्च विद्यासु व्यायामेषु कृतश्रमम् 007c शस्त्रग्रहणविद्यासु सर्वासु परिनिष्ठितम् 008a आरोहे पर्यवस्कन्दे सरणे सान्तरप्लुते 008c सम्यक्प्रहरणे याने व्यपयाने च कोविदम् 009a नागाश्वरथयानेषु बहुशः सुपरीक्षितम् 009c परीक्ष्य च यथान्यायं वेतनेनोपपादितम् 010a न गोष्ठ्या नोपचारेण न च बन्धुनिमित्ततः 010c न सौहृदबलैश्चापि नाकुलीनपरिग्रहैः 011a समृद्धजनमार्यं च तुष्टसत्कृतबान्धवम् 011c कृतोपकारभूयिष्ठं यशस्वि च मनस्वि च 012a सजयैश्च नरैर्मुख्यैर्बहुशो मुख्यकर्मभिः 012c लोकपालोपमैस्तात पालितं लोकविश्रुतैः 013a बहुभिः क्षत्रियैर्गुप्तं पृथिव्यां लोकसम्मतैः 013c अस्मानभिगतैः कामात्सबलैः सपदानुगैः 014a महोदधिमिवापूर्णमापगाभिः समन्ततः 014c अपक्षैः पक्षसङ्काशै रथैर्नागैश्च संवृतम् 015a नानायोधजलं भीमं वाहनोर्मितरङ्गिणम् 015c क्षेपण्यसिगदाशक्तिशरप्राससमाकुलम् 016a ध्वजभूषणसम्बाधं रत्नपट्टेन सञ्चितम् 016c वाहनैः परिसर्पद्भिर्वायुवेगविकम्पितम् 017a अपारमिव गर्जन्तं सागरप्रतिमम्महत् 017c द्रोणभीष्माभिसङ्गुप्तं गुप्तञ्च कृतवर्मणा 018a कृपदुःशासनाभ्याञ्च जयद्रथमुखैस्तथा 018c भगदत्तविकर्णाभ्यां द्रौणिसौबलबाह्लिकैः 019a गुप्तं प्रवीरैर्लोकस्य सारवद्भिर्महात्मभिः 019c यदहन्यत सङ्ग्रामे दिष्टमेतत्पुरातनम् 020a नैतादृशं समुद्योगं दृष्टवन्तोऽथ मानुषाः 020c ऋषयो वा महाभागाः पुराणा भुवि सञ्जय 021a ईदृशो हि बलौघस्तु युक्तः शस्त्रास्त्रसम्पदा 021c वध्यते यत्र सङ्ग्रामे किमन्यद्भागधेयतः 022a विपरीतमिदं सर्वं प्रतिभाति स्म सञ्जय 022c यत्रेदृशं बलं घोरं नातरद्युधि पाण्डवान् 023a अथ वा पाण्डवार्थाय देवास्तत्र समागताः 023c युध्यन्ते मामकं सैन्यं यदवध्यन्त सञ्जय 024a उक्तो हि विदुरेणेह हितं पथ्यं च सञ्जय 024c न च गृह्णाति तन्मन्दः पुत्रो दुर्योधनो मम 025a तस्य मन्ये मतिः पूर्वं सर्वज्ञस्य महात्मनः 025c आसीद्यथागतं तात येन दृष्टमिदं पुरा 026a अथ वा भाव्यमेवं हि सञ्जयैतेन सर्वथा 026c पुरा धात्रा यथा सृष्टं तत्तथा न तदन्यथा