001 सञ्जय उवाच 001a विहृत्य च ततो राजन्सहिताः कुरुपाण्डवाः 001c व्यतीतायां तु शर्वर्यां पुनर्युद्धाय निर्ययुः 002a तत्र शब्दो महानासीत्तव तेषाञ्च भारत 002c युज्यतां रथमुख्यानां कल्प्यताञ्चैव दन्तिनाम् 003a सन्नह्यताम्पदातीनां हयानाञ्चैव भारत 003c शङ्खदुन्दुभिनादश्च तुमुलः सर्वतोऽभवत् 004a ततो युधिष्ठिरो राजा धृष्टद्युम्नमभाषत 004c व्यूहं व्यूह महाबाहो मकरं शत्रुतापनम् 005a एवमुक्तस्तु पार्थेन धृष्टद्युम्नो महारथः 005c व्यादिदेश महाराज रथिनो रथिनां वरः 006a शिरोऽभूद्द्रुपदस्तस्य पाण्डवश्च धनञ्जयः 006c चक्षुषी सहदेवश्च नकुलश्च महारथः 006e तुण्डमासीन्महाराज भीमसेनो महाबलः 007a सौभद्रो द्रौपदेयाश्च राक्षसश्च घटोत्कचः 007c सात्यकिर्धर्मराजश्च व्यूहग्रीवां समास्थिताः 008a पृष्ठमासीन्महाराज विराटो वाहिनीपतिः 008c धृष्टद्युम्नेन सहितो महत्या सेनया वृतः 009a केकया भ्रातरः पञ्च वामं पार्श्वं समाश्रिताः 009c धृष्टकेतुर्नरव्याघ्रः करकर्षश्च वीर्यवान् 009e दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य रक्षणे 010a पादयोस्तु महाराज स्थितः श्रीमान्महारथः 010c कुन्तिभोजः शतानीको महत्या सेनया वृतः 011a शिखण्डी तु महेष्वासः सोमकैः संवृतो बली 011c इरावांश्च ततः पुच्छे मकरस्य व्यवस्थितौ 012a एवमेतन्महाव्यूहं व्यूह्य भारत पाण्डवाः 012c सूर्योदये महाराज पुनर्युद्धाय दंशिताः 013a कौरवानभ्ययुस्तूर्णं हस्त्यश्वरथपत्तिभिः 013c समुच्छ्रितैर्ध्वजैश्चित्रैः शस्त्रैश्च विमलैः शितैः 014a व्यूहं दृष्ट्वा तु तत्सैन्यं पिता देवव्रतस्तव 014c क्रौञ्चेन महता राजन्प्रत्यव्यूहत वाहिनीम् 015a तस्य तुण्डे महेष्वासो भारद्वाजो व्यरोचत 015c अश्वत्थामा कृपश्चैव चक्षुरास्तां नरेश्वर 016a कृतवर्मा तु सहितः काम्बोजारट्टबाह्लिकैः 016c शिरस्यासीन्नरश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम् 017a ग्रीवायां शूरसेनस्तु तव पुत्रश्च मारिष 017c दुर्योधनो महाराज राजभिर्बहुभिर्वृतः 018a प्राग्ज्योतिषस्तु सहितः मद्रसौवीरकेकयैः 018c उरस्यभून्नरश्रेष्ठ महत्या सेनया वृतः 019a स्वसेनया च सहितः सुशर्मा प्रस्थलाधिपः 019c वामं पक्षं समाश्रित्य दंशितः समवस्थितः 020a तुषारा यवनाश्चैव शकाश्च सह चूचुपैः 020c दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य भारत 021a श्रुतायुश्च शतायुश्च सौमदत्तिश्च मारिष 021c व्यूहस्य जघने तस्थू रक्षमाणाः परस्परम् 022a ततो युद्धाय सञ्जग्मुः पाण्डवाः कौरवैः सह 022c सूर्योदये महाराज ततो युद्धमभून्महत् 023a प्रतीयू रथिनो नागान्नागाश्च रथिनो ययुः 023c हयारोहा हयारोहान्रथिनश्चापि सादिनः 024a सारथिं च रथी राजन्कुञ्जरांश्च महारणे 024c हस्त्यारोहा रथारोहान्रथिनश्चापि सादिनः 025a रथिनः पत्तिभिः सार्धं सादिनश्चापि पत्तिभिः 025c अन्योन्यं समरे राजन्प्रत्यधावन्नमर्षिताः 026a भीमसेनार्जुनयमैर्गुप्ता चान्यैर्महारथैः 026c शुशुभे पाण्डवी सेना नक्षत्रैरिव शर्वरी 027a तथा भीष्मकृपद्रोणशल्यदुर्योधनादिभिः 027c तवापि विबभौ सेना ग्रहैर्द्यौरिव संवृता 028a भीमसेनस्तु कौन्तेयो द्रोणं दृष्ट्वा पराक्रमी 028c अभ्ययाज्जवनैरश्वैर्भारद्वाजस्य वाहिनीम् 029a द्रोणस्तु समरे क्रुद्धो भीमं नवभिरायसैः 029c विव्याध समरे राजन्मर्माण्युद्दिश्य वीर्यवान् 030a दृढाहतस्ततो भीमो भारद्वाजस्य संयुगे 030c सारथिं प्रेषयामास यमस्य सदनं प्रति 031a स सङ्गृह्य स्वयं वाहान्भारद्वाजः प्रतापवान् 031c व्यधमत्पाण्डवीं सेनां तूलराशिमिवानलः 032a ते वध्यमाना द्रोणेन भीष्मेण च नरोत्तम 032c सृञ्जयाः केकयैः सार्धं पलायनपराभवन् 033a तथैव तावकं सैन्यं भीमार्जुनपरिक्षतम् 033c मुह्यते तत्र तत्रैव समदेव वराङ्गना 034a अभिद्येतां ततो व्यूहौ तस्मिन्वीरवरक्षये 034c आसीद्व्यतिकरो घोरस्तव तेषां च भारत 035a तदद्भुतमपश्याम तावकानां परैः सह 035c एकायनगताः सर्वे यदयुध्यन्त भारत 036a प्रतिसंवार्य चास्त्राणि तेऽन्योन्यस्य विशाम्पते 036c युयुधुः पाण्डवाश्चैव कौरवाश्च महारथाः