BR-06-04-70-001 सञ्जय उवाच BR-06-04-70-001a अथ राजन्महाबाहुः सात्यकिर्युद्धदुर्मदः BR-06-04-70-001c विकृष्य चापं समरे भारसाधनमुत्तमम् BR-06-04-70-002a प्रामुञ्चत्पुङ्खसंयुक्ताञ्शरानाशीविषोपमान् BR-06-04-70-002c प्रकाशं लघु चित्रञ्च दर्शयन्नस्त्रलाघवम् BR-06-04-70-003a तस्य विक्षिपतश्चापं शरानन्यांश्च मुञ्चतः BR-06-04-70-003c आददानस्य भूयश्च सन्दधानस्य चापरान् BR-06-04-70-004a क्षिपतश्च शरानस्य रणे शत्रून्विनिघ्नतः BR-06-04-70-004c ददृशे रूपमत्यर्थं मेघस्येव प्रवर्षतः BR-06-04-70-005a तमुदीर्यन्तमालोक्य राजा दुर्योधनस्ततः BR-06-04-70-005c रथानामयुतं तस्य प्रेषयामास भारत BR-06-04-70-006a तांस्तु सर्वान्महेष्वासान्सात्यकिः सत्यविक्रमः BR-06-04-70-006c जघान परमेष्वासो दिव्येनास्त्रेण वीर्यवान् BR-06-04-70-007a स कृत्वा दारुणं कर्म प्रगृहीतशरासनः BR-06-04-70-007c आससाद ततो वीरो भूरिश्रवसमाहवे BR-06-04-70-008a स हि सन्दृश्य सेनां तां युयुधानेन पातिताम् BR-06-04-70-008c अभ्यधावत सङ्क्रुद्धः कुरूणां कीर्तिवर्धनः BR-06-04-70-009a इन्द्रायुधसवर्णं तत्स विस्फार्य महद्धनुः BR-06-04-70-009c व्यसृजद्वज्रसङ्काशाञ्शरानाशीविषोपमान् BR-06-04-70-009e सहस्रशो महाराज दर्शयन्पाणिलाघवम् BR-06-04-70-010a शरांस्तान्मृत्युसंस्पर्शान्सात्यकेस्तु पदानुगाः BR-06-04-70-010c न विषेहुस्तदा राजन्दुद्रुवुस्ते समन्ततः BR-06-04-70-010e विहाय समरे राजन्सात्यकिं युद्धदुर्मदम् BR-06-04-70-011a तं दृष्ट्वा युयुधानस्य सुता दश महाबलाः BR-06-04-70-011c महारथाः समाख्याताश्चित्रवर्मायुधध्वजाः BR-06-04-70-012a समासाद्य महेष्वासं भूरिश्रवसमाहवे BR-06-04-70-012c ऊचुः सर्वे सुसंरब्धा यूपकेतुम् महारणे BR-06-04-70-013a भो भो कौरवदायाद सहास्माभिर्महाबल BR-06-04-70-013c एहि युध्यस्व सङ्ग्रामे समस्तैः पृथगेव वा BR-06-04-70-014a अस्मान्वा त्वं पराजित्य यशः प्राप्नुहि संयुगे BR-06-04-70-014c वयं वा त्वां पराजित्य प्रीतिं दास्यामहे पितुः BR-06-04-70-015a एवमुक्तस्तदा शूरैस्तानुवाच महाबलः BR-06-04-70-015c वीर्यश्लाघी नरश्रेष्ठस्तान्दृष्ट्वा समुपस्थितान् BR-06-04-70-016a साध्विदं कथ्यते वीरा यदेवं मतिरद्य वः BR-06-04-70-016c युध्यध्वं सहिता यत्ता निहनिष्यामि वो रणे BR-06-04-70-017a एवमुक्ता महेष्वासास्ते वीराः क्षिप्रकारिणः BR-06-04-70-017c महता शरवर्षेण अभ्यवर्षन्नरिन्दमम् BR-06-04-70-018a अपराह्णे महाराज सङ्ग्रामस्तुमुलोऽभवत् BR-06-04-70-018c एकस्य च बहूनाञ्च समेतानां रणाजिरे BR-06-04-70-019a तमेकं रथिनां श्रेष्ठं शरवर्षैरवाकिरन् BR-06-04-70-019c प्रावृषीव महाशैलं सिषिचुर्जलदा नृप BR-06-04-70-020a तैस्तु मुक्ताञ्शरौघांस्तान्यमदण्डाशनिप्रभान् BR-06-04-70-020c असम्प्राप्तानसम्प्राप्तांश्चिच्छेदाशु महारथः BR-06-04-70-021a तत्राद्भुतमपश्याम सौमदत्तेः पराक्रमम् BR-06-04-70-021c यदेको बहुभिर्युद्धे समसज्जदभीतवत् BR-06-04-70-022a विसृज्य शरवृष्टिं तां दश राजन्महारथाः BR-06-04-70-022c परिवार्य महाबाहुं निहन्तुमुपचक्रमुः BR-06-04-70-023a सौमदत्तिस्ततः क्रुद्धस्तेषां चापानि भारत BR-06-04-70-023c चिच्छेद दशभिर्बाणैर्निमेषेण महारथः BR-06-04-70-024a अथैषां छिन्नधनुषां भल्लैः सन्नतपर्वभिः BR-06-04-70-024c चिच्छेद समरे राजञ्शिरांसि निशितैः शरैः BR-06-04-70-024e ते हता न्यपतन्भूमौ वज्रभग्ना इव द्रुमाः BR-06-04-70-025a तान्दृष्ट्वा निहतान्वीरान्रणे पुत्रान्महाबलान् BR-06-04-70-025c वार्ष्णेयो विनदन्राजन्भूरिश्रवसमभ्ययात् BR-06-04-70-026a रथं रथेन समरे पीडयित्वा महाबलौ BR-06-04-70-026c तावन्योन्यस्य समरे निहत्य रथवाजिनः BR-06-04-70-026e विरथावभिवल्गन्तौ समेयातां महारथौ BR-06-04-70-027a प्रगृहीतमहाखड्गौ तौ चर्मवरधारिणौ BR-06-04-70-027c शुशुभाते नरव्याघ्रौ युद्धाय समवस्थितौ BR-06-04-70-028a ततः सात्यकिमभ्येत्य निस्त्रिंशवरधारिणम् BR-06-04-70-028c भीमसेनस्त्वरन्राजन्रथमारोपयत्तदा BR-06-04-70-029a तवापि तनयो राजन्भूरिश्रवसमाहवे BR-06-04-70-029c आरोपयद्रथं तूर्णं पश्यतां सर्वधन्विनाम् BR-06-04-70-030a तस्मिंस्तथा वर्तमाने रणे भीष्मं महारथम् BR-06-04-70-030c अयोधयन्त संरब्धाः पाण्डवा भरतर्षभ BR-06-04-70-031a लोहितायति चादित्ये त्वरमाणो धनञ्जयः BR-06-04-70-031c पञ्चविंशतिसाहस्रान्निजघान महारथान् BR-06-04-70-032a ते हि दुर्योधनादिष्टास्तदा पार्थनिबर्हणे BR-06-04-70-032c सम्प्राप्यैव गता नाशं शलभा इव पावकम् BR-06-04-70-033a ततो मत्स्याः केकयाश्च धनुर्वेदविशारदाः BR-06-04-70-033c परिवव्रुस्तदा पार्थं सहपुत्रं महारथम् BR-06-04-70-034a एतस्मिन्नेव काले तु सूर्येऽस्तमुपगच्छति BR-06-04-70-034c सर्वेषामेव सैन्यानां प्रमोहः समजायत BR-06-04-70-035a अवहारं ततश्चक्रे पिता देवव्रतस्तव BR-06-04-70-035c सन्ध्याकाले महाराज सैन्यानां श्रान्तवाहनः BR-06-04-70-036a पाण्डवानां कुरूणां च परस्परसमागमे BR-06-04-70-036c ते सेने भृशसंविग्ने ययतुः स्वं निवेशनम् BR-06-04-70-037a ततः स्वशिबिरं गत्वा न्यविशंस्तत्र भारत BR-06-04-70-037c पाण्डवाः सृञ्जयैः सार्धं कुरवश्च यथाविधि