001 सञ्जय उवाच 001a विराटोऽथ त्रिभिर्बाणैर्भीष्ममार्छन्महारथम् 001c विव्याध तुरगांश्चास्य त्रिभिर्बाणैर्महारथः 002a तम् प्रत्यविध्यद्दशभिर्भीष्मः शान्तनवः शरैः 002c रुक्मपुङ्खैर्महेष्वासः कृतहस्तो महाबलः 003a द्रौणिर्गाण्डीवधन्वानं भीमधन्वा महारथः 003c अविध्यदिषुभिः षड्भिर्दृढहस्तः स्तनान्तरे 004a कार्मुकं तस्य चिच्छेद फल्गुनः परवीरहा 004c अविध्यच्च भृशं तीक्ष्णैः पत्रिभिः शत्रुकर्शनः 005a सोऽन्यत्कार्मुकमादाय वेगवत्क्रोधमूर्छितः 005c अमृष्यमाणः पार्थेन कार्मुकच्छेदमाहवे 006a अविध्यत्फल्गुनं राजन्नवत्या निशितैः शरैः 006c वासुदेवं च सप्तत्या विव्याध परमेषुभिः 007a ततः क्रोधाभिताम्राक्षः सह कृष्णेन फल्गुनः 007c दीर्घमुष्णं च निःश्वस्य चिन्तयित्वा मुहुर्मुहुः 008a धनुः प्रपीड्य वामेन करेणामित्रकर्शनः 008c गाण्डीवधन्वा सङ्क्रुद्धः शितान्सन्नतपर्वणः 008e जीवितान्तकरान्घोरान्समादत्त शिलीमुखान् 009a तैस्तूर्णं समरेऽविध्यद्द्रौणिं बलवतां वरम् 009c तस्य ते कवचं भित्त्वा पपुः शोणितमाहवे 010a न विव्यथे च निर्भिन्नो द्रौणिर्गाण्डीवधन्वना 010c तथैव शरवर्षाणि प्रतिमुञ्चन्नविह्वलः 010e तस्थौ स समरे राजंस्त्रातुमिच्छन्महाव्रतम् 011a तस्य तत्सुमहत्कर्म शशंसुः पुरुषर्षभाः 011c यत्कृष्णाभ्यां समेताभ्यां नापत्रपत संयुगे 012a स हि नित्यमनीकेषु युध्यतेऽभयमास्थितः 012c अस्त्रग्रामं ससंहारं द्रोणात्प्राप्य सुदुर्लभम् 013a ममायमाचार्यसुतो द्रोणस्यातिप्रियः सुतः 013c ब्राह्मणश्च विशेषेण माननीयो ममेति च 014a समास्थाय मतिं वीरो बीभत्सुः शत्रुतापनः 014c कृपाञ्चक्रे रथश्रेष्ठो भारद्वाजसुतम्प्रति 015a द्रौणिं त्यक्त्वा ततो युद्धे कौन्तेयः शत्रुतापनः 015c युयुधे तावकान्निघ्नंस्त्वरमाणः पराक्रमी 016a दुर्योधनस्तु दशभिर्गार्ध्रपत्रैः शिलाशितैः 016c भीमसेनं महेष्वासं रुक्मपुङ्खैः समर्पयत् 017a भीमसेनस्तु सङ्क्रुद्धः परासुकरणं दृढम् 017c चित्रं कार्मुकमादत्त शरांश्च निशितान्दश 018a आकर्णप्रहितैस्तीक्ष्णैर्वेगितैस्तिग्मतेजनैः 018c अविध्यत्तूर्णमव्यग्रः कुरुराजं महोरसि 019a तस्य काञ्चनसूत्रस्तु शरैः परिवृतो मणिः 019c रराजोरसि वै सूर्यो ग्रहैरिव समावृतः 020a पुत्रस्तु तव तेजस्वी भीमसेनेन ताडितः 020c नामृष्यत यथा नागस्तलशब्दं समीरितम् 021a ततः शरैर्महाराज रुक्मपुङ्खैः शिलाशितैः 021c भीमं विव्याध सङ्क्रुद्धस्त्रासयानो वरूथिनीम् 022a तौ युध्यमानौ समरे भृशमन्योन्यविक्षतौ 022c पुत्रौ ते देवसङ्काशौ व्यरोचेतां महाबलौ 023a चित्रसेनं नरव्याघ्रं सौभद्रः परवीरहा 023c अविध्यद्दशभिर्बाणैः पुरुमित्रञ्च सप्तभिः 024a सत्यव्रतञ् च सप्तत्या विद्ध्वा शक्रसमो युधि 024c नृत्यन्निव रणे वीर आर्तिं नः समजीजनत् 025a तम् प्रत्यविद्यद्दशभिश्चित्रसेनः शिलीमुखैः 025c सत्यव्रतश्च नवभिः पुरुमित्रश्च सप्तभिः 026a स विद्धो विक्षरन्रक्तं शत्रुसंवारणम्महत् 026c चिच्छेद चित्रसेनस्य चित्रं कार्मुकमार्जुनिः 026e भित्त्वा चास्य तनुत्राणं शरेणोरस्यताडयत् 027a ततस्ते तावका वीरा राजपुत्रा महारथाः 027c समेत्य युधि संरब्धा विव्यधुर्निशितैः शरैः 027e तांश्च सर्वाञ्शरैस्तीक्ष्णैर्जघान परमास्त्रवित् 028a तस्य दृष्ट्वा तु तत्कर्म परिवव्रुः सुतास्तव 028c दहन्तं समरे सैन्यं तव कक्षं यथोल्बणम् 029a अपेतशिशिरे काले समिद्धमिव पावकः 029c अत्यरोचत सौभद्रस्तव सैन्यानि शातयन् 030a तत्तस्य चरितं दृष्ट्वा पौत्रस्तव विशाम्पते 030c लक्ष्मणोऽभ्यपतत्तूर्णं सात्वतीपुत्रमाहवे 031a अभिमन्युस्तु सङ्क्रुद्धो लक्ष्मणं शुभलक्षणम् 031c विव्याध विशिखैः षड्भिः सारथिञ्च त्रिभिः शरैः 032a तथैव लक्ष्मणो राजन्सौभद्रं निशितैः शरैः 032c अविध्यत महाराज तदद्भुतमिवाभवत् 033a तस्याश्वांश्चतुरो हत्वा सारथिञ्च महाबलः 033c अभ्यद्रवत सौभद्रो लक्ष्मणं निशितैः शरैः 034a हताश्वे तु रथे तिष्ठँल्लक्ष्मणः परवीरहा 034c शक्तिं चिक्षेप सङ्क्रुद्धः सौभद्रस्य रथं प्रति 035a तामापतन्तीं सहसा घोररूपां दुरासदाम् 035c अभिमन्युः शरैस्तीक्ष्णैश्चिच्छेद भुजगोपमाम् 036a ततः स्वरथमारोप्य लक्ष्मणं गौतमस्तदा 036c अपोवाह रथेनाजौ सर्वसैन्यस्य पश्यतः 037a ततः समाकुले तस्मिन्वर्तमाने महाभये 037c अभ्यद्रवञ्जिघांसन्तः परस्परवधैषिणः 038a तावकाश्च महेष्वासाः पाण्डवाश्च महारथाः 038c जुह्वन्तः समरे प्राणान्निजघ्नुरितरेतरम् 039a मुक्तकेशा विकवचा विरथाश्छिन्नकार्मुकाः 039c बाहुभिः समयुध्यन्त सृञ्जयाः कुरुभिः सह 040a ततो भीष्मो महाबाहुः पाण्डवानां महात्मनाम् 040c सेनां जघान सङ्क्रुद्धो दिव्यैरस्त्रैर्महाबलः 041a हतेश्वरैर्गजैस्तत्र नरैरश्वैश्च पातितैः 041c रथिभिः सादिभिश्चैव समास्तीर्यत मेदिनी