001 सञ्जय उवाच 001a शिखण्डी सह मत्स्येन विराटेन विशाम्पते 001c भीष्ममाशु महेष्वासमाससाद सुदुर्जयम् 002a द्रोणं कृपं विकर्णञ्च महेष्वासान्महाबलान् 002c राज्ञश्चान्यान्रणे शूरान्बहूनार्छद्धनञ्जयः 003a सैन्धवञ्च महेष्वासं सामात्यं सह बन्धुभिः 003c प्राच्यांश्च दाक्षिणात्यांश्च भूमिपान्भूमिपर्षभ 004a पुत्रञ्च ते महेष्वासं दुर्योधनममर्षणम् 004c दुःसहं चैव समरे भीमसेनोऽभ्यवर्तत 005a सहदेवस्तु शकुनिमुलूकं च महारथम् 005c पितापुत्रौ महेष्वासावभ्यवर्तत दुर्जयौ 006a युधिष्ठिरो महाराज गजानीकं महारथः 006c समवर्तत सङ्ग्रामे पुत्रेण निकृतस्तव 007a माद्रीपुत्रस्तु नकुलः शूरः सङ्क्रन्दनो युधि 007c त्रिगर्तानां रथोदारैः समसज्जत पाण्डवः 008a अभ्यवर्तन्त दुर्धर्षाः समरे शाल्वकेकयान् 008c सात्यकिश्चेकितानश्च सौभद्रश्च महारथः 009a धृष्टकेतुश्च समरे राक्षसश्च घटोत्कचः 009c पुत्राणां ते रथानीकं प्रत्युद्याताः सुदुर्जयाः 010a सेनापतिरमेयात्मा धृष्टद्युम्नो महाबलः 010c द्रोणेन समरे राजन्समियायेन्द्रकर्मणा 011a एवमेते महेष्वासास्तावकाः पाण्डवैः सह 011c समेत्य समरे शूराः सम्प्रहारं प्रचक्रिरे 012a मध्यन्दिनगते सूर्ये नभस्याकुलतां गते 012c कुरवः पाण्डवेयाश्च निजघ्नुरितरेतरम् 013a ध्वजिनो हेमचित्राङ्गा विचरन्तो रणाजिरे 013c सपताका रथा रेजुर्वैयाघ्रपरिवारणाः 014a समेतानाञ्च समरे जिगीषूणाम्परस्परम् 014c बभूव तुमुलः शब्दः सिंहानामिव नर्दताम् 015a तत्राद्भुतमपश्याम सम्प्रहारं सुदारुणम् 015c यमकुर्वन्रणे वीराः सृञ्जयाः कुरुभिः सह 016a नैव खं न दिशो राजन्न सूर्यं शत्रुतापन 016c विदिशो वाप्यपश्याम शरैर्मुक्तैः समन्ततः 017a शक्तीनां विमलाग्राणां तोमराणां तथास्यताम् 017c निस्त्रिंशानाञ्च पीतानां नीलोत्पलनिभाः प्रभाः 018a कवचानां विचित्राणां भूषणानां प्रभास्तथा 018c खं दिशः प्रदिशश्चैव भासयामासुरोजसा 018e विरराज तदा राजंस्तत्र तत्र रणाङ्गणम् 019a रथसिंहासनव्याघ्राः समायान्तश्च संयुगे 019c विरेजुः समरे राजन्ग्रहा इव नभस्तले 020a भीष्मस्तु रथिनां श्रेष्ठो भीमसेनं महाबलम् 020c अवारयत सङ्क्रुद्धः सर्वसैन्यस्य पश्यतः 021a ततो भीष्मविनिर्मुक्ता रुक्मपुङ्खाः शिलाशिताः 021c अभ्यघ्नन्समरे भीमं तैलधौताः सुतेजनाः 022a तस्य शक्तिं महावेगां भीमसेनो महाबलः 022c क्रुद्धाशीविषसङ्काशां प्रेषयामास भारत 023a तामापतन्तीं सहसा रुक्मदण्डां दुरासदाम् 023c चिच्छेद समरे भीष्मः शरैः सन्नतपर्वभिः 024a ततोऽपरेण भल्लेन पीतेन निशितेन च 024c कार्मुकं भीमसेनस्य द्विधा चिच्छेद भारत 025a सात्यकिस्तु ततस्तूर्णं भीष्ममासाद्य संयुगे 025c शरैर्बहुभिरानर्छत्पितरं ते जनेश्वर 026a ततः सन्धाय वै तीक्ष्णं शरं परमदारुणम् 026c वार्ष्णेयस्य रथाद्भीष्मः पातयामास सारथिम् 027a तस्याश्वाः प्रद्रुता राजन्निहते रथसारथौ 027c तेन तेनैव धावन्ति मनोमारुतरंहसः 028a ततः सर्वस्य सैन्यस्य निस्वनस्तुमुलोऽभवत् 028c हाहाकारश्च सञ्जज्ञे पाण्डवानां महात्मनाम् 029a अभिद्रवत गृह्णीत हयान्यच्छत धावत 029c इत्यासीत्तुमुलः शब्दो युयुधानरथं प्रति 030a एतस्मिन्नेव काले तु भीष्मः शान्तनवः पुनः 030c व्यहनत्पाण्डवीं सेनामासुरीमिव वृत्रहा 031a ते वध्यमाना भीष्मेण पाञ्चालाः सोमकैः सह 031c आर्यां युद्धे मतिं कृत्वा भीष्ममेवाभिदुद्रुवुः 032a धृष्टद्युम्नमुखाश्चापि पार्थाः शान्तनवं रणे 032c अभ्यधावञ्जिगीषन्तस्तव पुत्रस्य वाहिनीम् 033a तथैव तावका राजन्भीष्मद्रोणमुखाः परान् 033c अभ्यधावन्त वेगेन ततो युद्धमवर्तत