001 सञ्जय उवाच 001a दृष्ट्वा भीष्मेण संसक्तान्भ्रातॄनन्यांश्च पार्थिवान् 001c तमभ्यधावद्गाङ्गेयमुद्यतास्त्रो धनञ्जयः 002a पाञ्चजन्यस्य निर्घोषं धनुषो गाण्डिवस्य च 002c ध्वजं च दृष्ट्वा पार्थस्य सर्वान्नो भयमाविशत् 003a असज्जमानं वृक्षेषु धूमकेतुमिवोत्थितम् 003c बहुवर्णञ्च चित्रञ्च दिव्यं वानरलक्षणम् 003e अपश्याम महाराज ध्वजं गाण्डिवधन्वनः 004a विद्युतं मेघमध्यस्थां भ्राजमानामिवाम्बरे 004c ददृशुर्गाण्डिवं योधा रुक्मपृष्ठम्महारथे 005a अशुश्रुम भृशं चास्य शक्रस्येवाभिगर्जतः 005c सुघोरं तलयोः शब्दं निघ्नतस्तव वाहिनीम् 006a चण्डवातो यथा मेघः सविद्युत्स्तनयित्नुमान् 006c दिशः सम्प्लावयन्सर्वाः शरवर्षैः समन्ततः 007a अभ्यधावत गाङ्गेयं भैरवास्त्रो धनञ्जयः 007c दिशम्प्राचीम्प्रतीचीञ्च न जानीमोऽस्त्रमोहिताः 008a कान्दिग्भूताः श्रान्तपत्रा हतास्त्रा हतचेतसः 008c अन्योन्यमभिसंश्लिष्य योधास्ते भरतर्षभ 009a भीष्ममेवाभिलीयन्त सह सर्वैस्तवात्मजैः 009c तेषामार्तायनमभूद्भीष्मः शन्तनवो रणे 010a समुत्पतन्त वित्रस्ता रथेभ्यो रथिनस्तदा 010c सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः 011a श्रुत्वा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः 011c सर्वसैन्यानि भीतानि व्यवलीयन्त भारत 012a अथ काम्बोजमुख्यैस्तु बृहद्भिः शीघ्रगामिभिः 012c गोपानां बहुसाहस्रैर्बलैर्गोवासनो वृतः 013a मद्रसौवीरगान्धारैस्त्रिगर्तैश्च विशाम्पते 013c सर्वकालिङ्गमुख्यैश्च कलिङ्गाधिपतिर्वृतः 014a नागा नरगणौघाश्च दुःशासनपुरःसराः 014c जयद्रथश्च नृपतिः सहितः सर्वराजभिः 015a हयारोहवराश्चैव तव पुत्रेण चोदिताः 015c चतुर्दश सहस्राणि सौबलं पर्यवारयन् 016a ततस्ते सहिताः सर्वे विभक्तरथवाहनाः 016c पाण्डवान्समरे जग्मुस्तावका भरतर्षभ 017a रथिभिर्वारणैरश्वैः पदातैश्च समीरितम् 017c घोरमायोधनं जज्ञे महाभ्रसदृशं रजः 018a तोमरप्रासनाराचगजाश्वरथयोधिनाम् 018c बलेन महता भीष्मः समसज्जत्किरीटिना 019a आवन्त्यः काशिराजेन भीमसेनेन सैन्धवः 019c अजातशत्रुर्मद्राणामृषभेण यशस्विना 019e सहपुत्रः सहामात्यः शल्येन समसज्जत 020a विकर्णः सहदेवेन चित्रसेनः शिखण्डिना 020c मत्स्या दुर्योधनं जग्मुः शकुनिञ्च विशाम्पते 021a द्रुपदश्चेकितानश्च सात्यकिश्च महारथः 021c द्रोणेन समसज्जन्त सपुत्रेण महात्मना 021e कृपश्च कृतवर्मा च धृष्टकेतुमभिद्रुतौ 022a एवं प्रजविताश्वानि भ्रान्तनागरथानि च 022c सैन्यानि समसज्जन्त प्रयुद्धानि समन्ततः 023a निरभ्रे विद्युतस्तीव्रा दिशश्च रजसावृताः 023c प्रादुरासन्महोल्काश्च सनिर्घाता विशाम्पते 024a प्रववौ च महावातः पांसुवर्षं पपात च 024c नभस्यन्तर्दधे सूर्यः सैन्येन रजसावृतः 025a प्रमोहः सर्वसत्त्वानामतीव समपद्यत 025c रजसा चाभिभूतानामस्त्रजालैश्च तुद्यताम् 026a वीरबाहुविसृष्टानां सर्वावरणभेदिनाम् 026c सङ्घातः शरजालानां तुमुलः समपद्यत 027a प्रकाशं चक्रुराकाशमुद्यतानि भुजोत्तमैः 027c नक्षत्रविमलाभानि शस्त्राणि भरतर्षभ 028a आर्षभाणि विचित्राणि रुक्मजालावृतानि च 028c सम्पेतुर्दिक्षु सर्वासु चर्माणि भरतर्षभ 029a सूर्यवर्णैश्च निस्त्रिंशैः पात्यमानानि सर्वशः 029c दिक्षु सर्वास्वदृश्यन्त शरीराणि शिरांसि च 030a भग्नचक्राक्षनीडाश्च निपातितमहाध्वजाः 030c हताश्वाः पृथिवीं जग्मुस्तत्र तत्र महारथाः 031a परिपेतुर्हयाश्चात्र केचिच्छस्त्रकृतव्रणाः 031c रथान्विपरिकर्षन्तो हतेषु रथयोधिषु 032a शराहता भिन्नदेहा बद्धयोक्त्रा हयोत्तमाः 032c युगानि पर्यकर्षन्त तत्र तत्र स्म भारत 033a अदृश्यन्त ससूताश्च साश्वाः सरथयोधिनः 033c एकेन बलिना राजन्वारणेन हता रथाः 034a गन्धहस्तिमदस्रावमाघ्राय बहवो रणे 034c सन्निपाते बलौघानां वीतमाददिरे गजाः 035a सतोमरमहामात्रैर्निपतद्भिर्गतासुभिः 035c बभूवायोधनं छन्नं नाराचाभिहतैर्गजैः 036a सन्निपाते बलौघानां प्रेषितैर्वरवारणैः 036c निपेतुर्युधि सम्भग्नाः सयोधाः सध्वजा रथाः 037a नागराजोपमैर्हस्तैर्नागैराक्षिप्य संयुगे 037c व्यदृश्यन्त महाराज सम्भग्ना रथकूबराः 038a विशीर्णरथजालाश्च केशेष्वाक्षिप्य दन्तिभिः 038c द्रुमशाखा इवाविध्य निष्पिष्टा रथिनो रणे 039a रथेषु च रथान्युद्धे संसक्तान्वरवारणाः 039c विकर्षन्तो दिशः सर्वाः सम्पेतुः सर्वशब्दगाः 040a तेषां तथा कर्षतां च गजानां रूपमाबभौ 040c सरःसु नलिनीजालं विषक्तमिव कर्षताम् 041a एवं सञ्छादितं तत्र बभूवायोधनं महत् 041c सादिभिश्च पदातैश्च सध्वजैश्च महारथैः