001 सञ्जय उवाच 001a अकरोत्तुमुलं युद्धं भीष्मः शान्तनवस्तदा 001c भीमसेनभयादिच्छन्पुत्रांस्तारयितुं तव 002a पूर्वाह्णे तन्महारौद्रं राज्ञां युद्धमवर्तत 002c कुरूणाम्पाण्डवानाञ्च मुख्यशूरविनाशनम् 003a तस्मिन्नाकुलसङ्ग्रामे वर्तमाने महाभये 003c अभवत्तुमुलः शब्दः संस्पृशन्गगनम्महत् 004a नदद्भिश्च महानागैर्हेषमाणैश्च वाजिभिः 004c भेरीशङ्खनिनादैश्च तुमुलः समपद्यत 005a युयुत्सवस्ते विक्रान्ता विजयाय महाबलाः 005c अन्योन्यमभिगर्जन्तो गोष्ठेष्विव महर्षभाः 006a शिरसां पात्यमानानां समरे निशितैः शरैः 006c अश्मवृष्टिरिवाकाशे बभूव भरतर्षभ 007a कुण्डलोष्णीषधारीणि जातरूपोज्ज्वलानि च 007c पतितानि स्म दृश्यन्ते शिरांसि भरतर्षभ 008a विशिखोन्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः 008c सहस्ताभरणैश्चान्यैरभवच्छादिता मही 009a कवचोपहितैर्गात्रैर्हस्तैश्च समलङ्कृतैः 009c मुखैश्च चन्द्रसङ्काशै रक्तान्तनयनैः शुभैः 010a गजवाजिमनुष्याणां सर्वगात्रैश्च भूपते 010c आसीत्सर्वा समाकीर्णा मुहूर्तेन वसुन्धरा 011a रजोमेघैश्च तुमुलैः शस्त्रविद्युत्प्रकाशितैः 011c आयुधानाञ्च निर्घोषः स्तनयित्नुसमोऽभवत् 012a स सम्प्रहारस्तुमुलः कटुकः शोणितोदकः 012c प्रावर्तत कुरूणाञ्च पाण्डवानाञ्च भारत 013a तस्मिन्महाभये घोरे तुमुले लोमहर्षणे 013c ववर्षुः शरवर्षाणि क्षत्रिया युद्धदुर्मदाः 014a क्रोशन्ति कुञ्जरास्तत्र शरवर्षप्रतापिताः 014c तावकानाम्परेषाञ्च संयुगे भरतोत्तम 014e अश्वाश्च पर्यधावन्त हतारोहा दिशो दश 015a उत्पत्य निपतन्त्यन्ये शरघातप्रपीडिताः 015c तावकानां परेषां च योधानां भरतर्षभ 016a अश्वानाङ् कुञ्जराणाञ् च रथानाञ् चातिवर्तताम् 016c सङ्घाताः स्म प्रदृश्यन्ते तत्र तत्र विशाम्पते 017a गदाभिरसिभिः प्रासैर्बाणैश्च नतपर्वभिः 017c जघ्नुः परस्परं तत्र क्षत्रियाः कालचोदिताः 018a अपरे बाहुभिर्वीरा नियुद्धकुशला युधि 018c बहुधा समसज्जन्त आयसैः परिघैरिव 019a मुष्टिभिर्जानुभिश्चैव तलैश्चैव विशाम्पते 019c अन्योन्यं जघ्निरे वीरास्तावकाः पाण्डवैः सह 020a विरथा रथिनश्चात्र निस्त्रिंशवरधारिणः 020c अन्योन्यमभिधावन्त परस्परवधैषिणः 021a ततो दुर्योधनो राजा कलिङ्गैर्बहुभिर्वृतः 021c पुरस्कृत्य रणे भीष्मम्पाण्डवानभ्यवर्तत 022a तथैव पाण्डवाः सर्वे परिवार्य वृकोदरम् 022c भीष्ममभ्यद्रवन्क्रुद्धा रणे रभसवाहनाः