001 सञ्जय उवाच 001a व्युषितायां च शर्वर्यामुदिते च दिवाकरे 001c उभे सेने महाराज युद्धायैव समीयतुः 002a अभ्यधावंश्च सङ्क्रुद्धाः परस्परजिगीषवः 002c ते सर्वे सहिता युद्धे समालोक्य परस्परम् 003a पाण्डवा धार्तराष्ट्राश्च राजन्दुर्मन्त्रिते तव 003c व्यूहौ च व्यूह्य संरब्धाः सम्प्रयुद्धाः प्रहारिणः 004a अरक्षन्मकरव्यूहं भीष्मो राजन्समन्ततः 004c तथैव पाण्डवा राजन्नरक्षन्व्यूहमात्मनः 005a स निर्ययौ रथानीकं पिता देवव्रतस्तव 005c महता रथवंशेन संवृतो रथिनां वरः 006a इतरेतरमन्वीयुर्यथाभागमवस्थिताः 006c रथिनः पत्तयश्चैव दन्तिनः सादिनस्तथा 007a तान्दृष्ट्वा प्रोद्यतान्सङ्ख्ये पाण्डवाश्च यशस्विनः 007c श्येनेन व्यूहराजेन तेनाजय्येन संयुगे 008a अशोभत मुखे तस्य भीमसेनो महाबलः 008c नेत्रे शिखण्डी दुर्धर्षो धृष्टद्युम्नश्च पार्षतः 009a शीर्षं तस्याभवद्वीरः सात्यकिः सत्यविक्रमः 009c विधुन्वन्गाण्डिवं पार्थो ग्रीवायामभवत्तदा 010a अक्षौहिण्या समग्रा या वामपक्षोऽभवत्तदा 010c महात्मा द्रुपदः श्रीमान्सह पुत्रेण संयुगे 011a दक्षिणश्चाभवत्पक्षः कैकेयोऽक्षौहिणीपतिः 011c पृष्ठतो द्रौपदेयाश्च सौभद्रश्चापि वीर्यवान् 012a पृष्ठे समभवच्छ्रीमान्स्वयं राजा युधिष्ठिरः 012c भ्रातृभ्यां सहितो धीमान्यमाभ्यां चारुविक्रमः 013a प्रविश्य तु रणे भीमो मकरं मुखतस्तदा 013c भीष्ममासाद्य सङ्ग्रामे छादयामास सायकैः 014a ततो भीष्मो महास्त्राणि पातयामास भारत 014c मोहयन्पाण्डुपुत्राणां व्यूढं सैन्यं महाहवे 015a सम्मुह्यति तदा सैन्ये त्वरमाणो धनञ्जयः 015c भीष्मं शरसहस्रेण विव्याध रणमूर्धनि 016a परिसंवार्य चास्त्राणि भीष्ममुक्तानि संयुगे 016c स्वेनानीकेन हृष्टेन युद्धाय समवस्थितः 017a ततो दुर्योधनो राजा भारद्वाजमभाषत 017c पूर्वं दृष्ट्वा वधं घोरं बलस्य बलिनां वरः 017e भ्रातॄणां च वधं युद्धे स्मरमाणो महारथः 018a आचार्य सततं त्वं हि हितकामो ममानघ 018c वयं हि त्वां समाश्रित्य भीष्मं चैव पितामहम् 019a देवानपि रणे जेतुं प्रार्थयामो न संशयः 019c किमु पाण्डुसुतान्युद्धे हीनवीर्यपराक्रमान् 020a एवमुक्तस्ततो द्रोणस्तव पुत्रेण मारिष 020c अभिनत्पाण्डवानीकं प्रेक्षमाणस्य सात्यकेः 021a सात्यकिस्तु तदा द्रोणं वारयामास भारत 021c ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् 022a शैनेयं तु रणे क्रुद्धो भारद्वाजः प्रतापवान् 022c अविध्यन्निशितैर्बाणैर्जत्रुदेशे हसन्निव 023a भीमसेनस्ततः क्रुद्धो भारद्वाजमविध्यत 023c संरक्षन्सात्यकिं राजन्द्रोणाच्छस्त्रभृतां वरात् 024a ततो द्रोणश्च भीष्मश्च तथा शल्यश्च मारिष 024c भीमसेनं रणे क्रुद्धाश्छादयां चक्रिरे शरैः 025a तत्राभिमन्युः सङ्क्रुद्धो द्रौपदेयाश्च मारिष 025c विव्यधुर्निशितैर्बाणैः सर्वांस्तानुद्यतायुधान् 026a भीष्मद्रोणौ च सङ्क्रुद्धावापतन्तौ महाबलौ 026c प्रत्युद्ययौ शिखण्डी तु महेष्वासो महाहवे 027a प्रगृह्य बलवद्वीरो धनुर्जलदनिस्वनम् 027c अभ्यवर्षच्छरैस्तूर्णं छादयानो दिवाकरम् 028a शिखण्डिनं समासाद्य भरतानां पितामहः 028c अवर्जयत सङ्ग्रामे स्त्रीत्वं तस्यानुसंस्मरन् 029a ततो द्रोणो महाराज अभ्यद्रवत तं रणे 029c रक्षमाणस्ततो भीष्मं तव पुत्रेण चोदितः 030a शिखण्डी तु समासाद्य द्रोणं शस्त्रभृतां वरम् 030c अवर्जयत सङ्ग्रामे युगान्ताग्निमिवोल्बणम् 031a ततो बलेन महता पुत्रस्तव विशाम्पते 031c जुगोप भीष्ममासाद्य प्रार्थयानो महद्यशः 032a तथैव पाण्डवा राजन्पुरस्कृत्य धनञ्जयम् 032c भीष्ममेवाभ्यवर्तन्त जये कृत्वा दृढां मतिम् 033a तद्युद्धमभवद्घोरं देवानां दानवैरिव 033c जयं च काङ्क्षतां नित्यं यशश्च परमाद्भुतम्