001 भीष्म उवाच 001a शृणु चेदं महाराज ब्रह्मभूतस्तवं मम 001c ब्रह्मर्षिभिश्च देवैश्च यः पुरा कथितो भुवि 002a साध्यानामपि देवानां देवदेवेश्वरः प्रभुः 002c लोकभावनभावज्ञ इति त्वां नारदोऽब्रवीत् 002e भूतम्भव्यम्भविष्यञ्च मार्कण्डेयोऽभ्युवाच ह 003a यज्ञानाञ्चैव यज्ञं त्वां तपश्च तपसामपि 003c देवानामपि देवं च त्वामाह भगवान्भृगुः 003e पुराणे भैरवं रूपं विष्णो भूतपतेति वै 004a वासुदेवो वसूनां त्वं शक्रं स्थापयिता तथा 004c देवदेवोऽसि देवानामिति द्वैपायनोऽब्रवीत् 005a पूर्वे प्रजानिसर्गेषु दक्षमाहुः प्रजापतिम् 005c स्रष्टारं सर्वभूतानामङ्गिरास्त्वां ततोऽब्रवीत् 006a अव्यक्तं ते शरीरोत्थं व्यक्तं ते मनसि स्थितम् 006c देवा वाक्सम्भवाश्चेति देवलस्त्वसितोऽब्रवीत् 007a शिरसा ते दिवं व्याप्तं बाहुभ्यां पृथिवी धृता 007c जठरं ते त्रयो लोकाः पुरुषोऽसि सनातनः 008a एवं त्वामभिजानन्ति तपसा भाविता नराः 008c आत्मदर्शनतृप्तानामृषीणाञ्चापि सत्तमः 009a राजर्षीणामुदाराणामाहवेष्वनिवर्तिनाम् 009c सर्वधर्मप्रधानानां त्वं गतिर्मधुसूदन 010a एष ते विस्तरस्तात सङ्क्षेपश्च प्रकीर्तितः 010c केशवस्य यथातत्त्वं सुप्रीतो भव केशवे 011 सञ्जय उवाच 011a पुण्यं श्रुत्वैतदाख्यानं महाराज सुतस्तव 011c केशवं बहु मेने स पाण्डवांश्च महारथान् 012a तमब्रवीन्महाराज भीष्मः शान्तनवः पुनः 012c माहात्म्यं ते श्रुतं राजन्केशवस्य महात्मनः 013a नरस्य च यथातत्त्वं यन्मां त्वं परिपृच्छसि 013c यदर्थं नृषु सम्भूतौ नरनारायणावुभौ 014a अवध्यौ च यथा वीरौ संयुगेष्वपराजितौ 014c यथा च पाण्डवा राजन्नगम्या युधि कस्यचित् 015a प्रीतिमान्हि दृढं कृष्णः पाण्डवेषु यशस्विषु 015c तस्माद्ब्रवीमि राजेन्द्र शमो भवतु पाण्डवैः 016a पृथिवीं भुङ्क्ष्व सहितो भ्रातृभिर्बलिभिर्वशी 016c नरनारायणौ देवाववज्ञाय नशिष्यसि 017a एवमुक्त्वा तव पिता तूष्णीमासीद्विशाम्पते 017c व्यसर्जयच्च राजानं शयनं च विवेश ह 018a राजापि शिबिरं प्रायात्प्रणिपत्य महात्मने 018c शिश्ये च शयने शुभ्रे तां रात्रिं भरतर्षभ