001 दुर्योधन उवाच 001a वासुदेवो महद्भूतं सर्वलोकेषु कथ्यते 001c तस्यागमम्प्रतिष्ठाञ्च ज्ञातुमिच्छे पितामह 002 भीष्म उवाच 002a वासुदेवो महद्भूतं सम्भूतं सह दैवतैः 002c न परम्पुण्डरीकाक्षाद्दृश्यते भरतर्षभ 002e मार्कण्डेयश्च गोविन्दं कथयत्यद्भुतम्महत् 003a सर्वभूतानि भूतात्मा महात्मा पुरुषोत्तमः 003c आपो वायुश्च तेजश्च त्रयमेतदकल्पयत् 004a स सृष्ट्वा पृथिवीं देवः सर्वलोकेश्वरः प्रभुः 004c अप्सु वै शयनञ्चक्रे महात्मा पुरुषोत्तमः 004e सर्वतोयमयो देवो योगात्सुष्वाप तत्र ह 005a मुखतः सोऽग्निमसृजत्प्राणाद्वायुमथापि च 005c सरस्वतीञ्च वेदांश्च मनसः ससृजेऽच्युतः 006a एष लोकान्ससर्जादौ देवांश्चर्षिगणैः सह 006c निधनञ्चैव मृत्युञ्च प्रजानाम्प्रभवोऽव्ययः 007a एष धर्मश्च धर्मज्ञो वरदः सर्वकामदः 007c एष कर्ता च कार्यञ्च पूर्वदेवः स्वयम्प्रभुः 008a भूतम्भव्यम्भविष्यच्च पूर्वमेतदकल्पयत् 008c उभे सन्ध्ये दिशः खञ्च नियमञ्च जनार्दनः 009a ऋषींश्चैव हि गोविन्दस्तपश्चैवानु कल्पयत् 009c स्रष्टारञ् जगतश्चापि महात्मा प्रभुरव्ययः 010a अग्रजं सर्वभूतानां सङ्कर्षणमकल्पयत् 010c शेषञ् चाकल्पयद्देवमनन्तमिति यं विदुः 011a यो धारयति भूतानि धराञ् चेमां सपर्वताम् 011c ध्यानयोगेन विप्राश्च तं वदन्ति महौजसम् 012a कर्णस्रोतोद्भवं चापि मधुं नाम महासुरम् 012c तमुग्रमुग्रकर्माणमुग्रां बुद्धिं समास्थितम् 012e ब्रह्मणोऽपचितिं कुर्वञ्जघान पुरुषोत्तमः 013a तस्य तात वधादेव देवदानवमानवाः 013c मधुसूदनमित्याहुरृषयश्च जनार्दनम् 013e वराहश्चैव सिंहश्च त्रिविक्रमगतिः प्रभुः 014a एष माता पिता चैव सर्वेषां प्राणिनां हरिः 014c परं हि पुण्डरीकाक्षान्न भूतं न भविष्यति 015a मुखतोऽसृजद्ब्राह्मणान्बाहुभ्यां क्षत्रियांस्तथा 015c वैश्यांश्चाप्यूरुतो राजञ्शूद्रान्पद्भ्यां तथैव च 015e तपसा नियतो देवो निधानं सर्वदेहिनाम् 016a ब्रह्मभूतममावास्यां पौर्णमास्यां तथैव च 016c योगभूतं परिचरन्केशवं महदाप्नुयात् 017a केशवः परमं तेजः सर्वलोकपितामहः 017c एवमाहुर्हृषीकेशं मुनयो वै नराधिप 018a एवमेनं विजानीहि आचार्यं पितरं गुरुम् 018c कृष्णो यस्य प्रसीदेत लोकास्तेनाक्षया जिताः 019a यश्चैवैनं भयस्थाने केशवं शरणं व्रजेत् 019c सदा नरः पठंश्चेदं स्वस्तिमान्स सुखी भवेत् 020a ये च कृष्णं प्रपद्यन्ते ते न मुह्यन्ति मानवाः 020c भये महति ये मग्नाः पाति नित्यं जनार्दनः 021a एतद्युधिष्ठिरो ज्ञात्वा याथातथ्येन भारत 021c सर्वात्मना महात्मानं केशवं जगदीश्वरम् 021e प्रपन्नः शरणं राजन्योगानामीश्वरं प्रभुम्