001 भीष्म उवाच 001a ततः स भगवान्देवो लोकानाम्परमेश्वरः 001c ब्रह्माणं प्रत्युवाचेदं स्निग्धगम्भीरया गिरा 002a विदितं तात योगान्मे सर्वमेतत्तवेप्सितम् 002c तथा तद्भवितेत्युक्त्वा तत्रैवान्तरधीयत 003a ततो देवर्षिगन्धर्वा विस्मयं परमं गताः 003c कौतूहलपराः सर्वे पितामहमथाब्रुवन् 004a को न्वयं यो भगवता प्रणम्य विनयाद्विभो 004c वाग्भिः स्तुतो वरिष्ठाभिः श्रोतुमिच्छाम तं वयम् 005a एवमुक्तस्तु भगवान्प्रत्युवाच पितामहः 005c देवब्रह्मर्षिगन्धर्वान्सर्वान्मधुरया गिरा 006a यत्तत्परम् भविष्यञ् च भवितव्यञ् च यत्परम् 006c भूतात्मा यः प्रभुश्चैव ब्रह्म यच्च परम्पदम् 007a तेनास्मि कृतसंवादः प्रसन्नेन सुरर्षभाः 007c जगतोऽनुग्रहार्थाय याचितो मे जगत्पतिः 008a मानुषं लोकमातिष्ठ वासुदेव इति श्रुतः 008c असुराणां वधार्थाय सम्भवस्व महीतले 009a सङ्ग्रामे निहता ये ते दैत्यदानवराक्षसाः 009c त इमे नृषु सम्भूता घोररूपा महाबलाः 010a तेषां वधार्थम् भगवान्नरेण सहितो वशी 010c मानुषीं योनिमास्थाय चरिष्यति महीतले 011a नरनारायणौ यौ तौ पुराणावृषिसत्तमौ 011c सहितौ मानुषे लोके सम्भूतावमितद्युती 012a अजेयौ समरे यत्तौ सहितावमरैरपि 012c मूढास्त्वेतौ न जानन्ति नरनारायणावृषी 013a तस्याहमात्मजो ब्रह्मा सर्वस्य जगतः पतिः 013c वासुदेवोऽर्चनीयो वः सर्वलोकमहेश्वरः 014a तथा मनुष्योऽयमिति कदाचित्सुरसत्तमाः 014c नावज्ञेयो महावीर्यः शङ्खचक्रगदाधरः 015a एतत्परमकङ् गुह्यमेतत्परमकम् पदम् 015c एतत्परमकम् ब्रह्म एतत्परमकं यशः 016a एतदक्षरमव्यक्तमेतत्तच्छाश्वतम् महत् 016c एतत्पुरुषसञ्ज्ञं वै गीयते ज्ञायते न च 017a एतत्परमकम् तेज एतत्परमकं सुखम् 017c एतत्परमकं सत्यं कीर्तितं विश्वकर्मणा 018a तस्मात्सर्वैः सुरैः सेन्द्रैर्लोकैश्चामितविक्रमः 018c नावज्ञेयो वासुदेवो मानुषोऽयमिति प्रभुः 019a यश्च मानुषमात्रोऽयमिति ब्रूयात्सुमन्दधीः 019c हृषीकेशमवज्ञानात्तमाहुः पुरुषाधमम् 020a योगिनं तं महात्मानम् प्रविष्टम्मानुषीन्तनुम् 020c अवमन्येद्वासुदेवं तमाहुस्तामसञ् जनाः 021a देवं चराचरात्मानं श्रीवत्साङ्कं सुवर्चसम् 021c पद्मनाभन्न जानाति तमाहुस्तामसञ्जनाः 022a किरीटकौस्तुभधरं मित्राणामभयङ्करम् 022c अवजानन्महात्मानं घोरे तमसि मज्जति 023a एवं विदित्वा तत्त्वार्थं लोकानामीश्वरेश्वरः 023c वासुदेवो नमस्कार्यः सर्वलोकैः सुरोत्तमाः 024a एवमुक्त्वा स भगवान्सर्वान्देवगणान्पुरा 024c विसृज्य सर्वलोकात्मा जगाम भवनं स्वकम् 025a ततो देवाः सगन्धर्वा मुनयोऽप्सरसोऽपि च 025c कथां तां ब्रह्मणा गीतां श्रुत्वा प्रीता दिवं ययुः 026a एतच्छ्रुतं मया तात ऋषीणां भावितात्मनाम् 026c वासुदेवं कथयतां समवाये पुरातनम् 027a जामदग्न्यस्य रामस्य मार्कण्डेयस्य धीमतः 027c व्यासनारदयोश्चापि श्रुतं श्रुतविशारद 028a एतमर्थं च विज्ञाय श्रुत्वा च प्रभुमव्ययम् 028c वासुदेवं महात्मानं लोकानामीश्वरेश्वरम् 029a यस्यासावात्मजो ब्रह्मा सर्वस्य जगतः पिता 029c कथं न वासुदेवोऽयमर्च्यश्चेज्यश्च मानवैः 030a वारितोऽसि पुरा तात मुनिभिर्वेदपारगैः 030c मा गच्छ संयुगं तेन वासुदेवेन धीमता 030e मा पाण्डवैः सार्धमिति तच्च मोहान्न बुध्यसे 031a मन्ये त्वां राक्षसं क्रूरं तथा चासि तमोवृतः 031c यस्माद्द्विषसि गोविन्दं पाण्डवञ्च धनञ्जयम् 031e नरनारायणौ देवौ नान्यो द्विष्याद्धि मानवः 032a तस्माद्ब्रवीमि ते राजन्नेष वै शाश्वतोऽव्ययः 032c सर्वलोकमयो नित्यः शास्ता धाता धरो ध्रुवः 033a लोकान्धारयते यस्त्रींश्चराचरगुरुः प्रभुः 033c योद्धा जयश्च जेता च सर्वप्रकृतिरीश्वरः 034a राजन्सत्त्वमयो ह्येष तमोरागविवर्जितः 034c यतः कृष्णस्ततो धर्मो यतो धर्मस्ततो जयः 035a तस्य माहात्म्ययोगेन योगेनात्मन एव च 035c धृताः पाण्डुसुता राजञ्जयश्चैषां भविष्यति 036a श्रेयोयुक्तां सदा बुद्धिं पाण्डवानां दधाति यः 036c बलं चैव रणे नित्यं भयेभ्यश्चैव रक्षति 037a स एष शाश्वतो देवः सर्वगुह्यमयः शिवः 037c वासुदेव इति ज्ञेयो यन्मां पृच्छसि भारत 038a ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्च कृतलक्षणैः 038c सेव्यतेऽभ्यर्च्यते चैव नित्ययुक्तैः स्वकर्मभिः 039a द्वापरस्य युगस्यान्ते आदौ कलियुगस्य च 039c सात्वतं विधिमास्थाय गीतः सङ्कर्षणेन यः 040a स एष सर्वासुरमर्त्यलोकं; समुद्रकक्ष्यान्तरिताः पुरीश्च 040c युगे युगे मानुषञ् चैव वासं; पुनः पुनः सृजते वासुदेवः