001 धृतराष्ट्र उवाच 001a भयं मे सुमहज्जातं विस्मयश्चैव सञ्जय 001c श्रुत्वा पाण्डुकुमाराणां कर्म देवैः सुदुष्करम् 002a पुत्राणाञ्च पराभवं श्रुत्वा सञ्जय सर्वशः 002c चिन्ता मे महती सूत भविष्यति कथं त्विति 003a ध्रुवं विदुरवाक्यानि धक्ष्यन्ति हृदयं मम 003c यथा हि दृश्यते सर्वं दैवयोगेन सञ्जय 004a यत्र भीष्ममुखाञ्शूरानस्त्रज्ञान्योधसत्तमान् 004c पाण्डवानामनीकानि योधयन्ति प्रहारिणः 005a केनावध्या महात्मानः पाण्डुपुत्रा महाबलाः 005c केन दत्तवरास्तात किं वा ज्ञानं विदन्ति ते 005e येन क्षयं न गच्छन्ति दिवि तारागणा इव 006a पुनः पुनर्न मृष्यामि हतं सैन्यं स्म पाण्डवैः 006c मय्येव दण्डः पतति दैवात्परमदारुणः 007a यथावध्याः पाण्डुसुता यथा वध्याश्च मे सुताः 007c एतन्मे सर्वमाचक्ष्व यथातत्त्वेन सञ्जय 008a न हि पारम्प्रपश्यामि दुःखस्यास्य कथञ्चन 008c समुद्रस्येव महतो भुजाभ्याम्प्रतरन्नरः 009a पुत्राणां व्यसनम्मन्ये ध्रुवम्प्राप्तं सुदारुणम् 009c घातयिष्यति मे पुत्रान्सर्वान्भीमो न संशयः 010a न हि पश्यामि तं वीरं यो मे रक्षेत्सुतान्रणे 010c ध्रुवं विनाशः समरे पुत्राणाम्मम सञ्जय 011a तस्मान्मे कारणं सूत युक्तिं चैव विशेषतः 011c पृच्छतोऽद्य यथातत्त्वं सर्वमाख्यातुमर्हसि 012a दुर्योधनोऽपि यच्चक्रे दृष्ट्वा स्वान्विमुखान्रणे 012c भीष्मद्रोणौ कृपश्चैव सौबलेयो जयद्रथः 012e द्रौणिर्वापि महेष्वासो विकर्णो वा महाबलः 013a निश्चयो वापि कस्तेषां तदा ह्यासीन्महात्मनाम् 013c विमुखेषु महाप्राज्ञ मम पुत्रेषु सञ्जय 014 सञ्जय उवाच 014a शृणु राजन्नवहितः श्रुत्वा चैवावधारय 014c नैव मन्त्रकृतं किञ्चिन्नैव मायां तथाविधाम् 014e न वै विभीषिकां काञ्चिद्राजन्कुर्वन्ति पाण्डवाः 015a युध्यन्ति ते यथान्यायं शक्तिमन्तश्च संयुगे 015c धर्मेण सर्वकार्याणि कीर्तितानीति भारत 015e आरभन्ते सदा पार्थाः प्रार्थयाना महद्यशः 016a न ते युद्धान्निवर्तन्ते धर्मोपेता महाबलाः 016c श्रिया परमया युक्ता यतो धर्मस्ततो जयः 016e तेनावध्या रणे पार्था जययुक्ताश्च पार्थिव 017a तव पुत्रा दुरात्मानः पापेष्वभिरताः सदा 017c निष्ठुरा हीनकर्माणस्तेन हीयन्ति संयुगे 018a सुबहूनि नृशंसानि पुत्रैस्तव जनेश्वर 018c निकृतानीह पाण्डूनां नीचैरिव यथा नरैः 019a सर्वञ्च तदनादृत्य पुत्राणां तव किल्बिषम् 019c सापह्नवाः सदैवासन्पाण्डवाः पाण्डुपूर्वज 019e न चैनान्बहु मन्यन्ते पुत्रास्तव विशाम्पते 020a तस्य पापस्य सततं क्रियमाणस्य कर्मणः 020c सम्प्राप्तं सुमहद्घोरं फलं किम्पाकसन्निभम् 020e स तद्भुङ्क्ष्व महाराज सपुत्रः ससुहृज्जनः 021a नावबुध्यसि यद्राजन्वार्यमाणः सुहृज्जनैः 021c विदुरेणाथ भीष्मेण द्रोणेन च महात्मना 022a तथा मया चाप्यसकृद्वार्यमाणो न गृह्णसि 022c वाक्यं हितञ्च पथ्यञ्च मर्त्यः पथ्यमिवौषधम् 022e पुत्राणाम्मतमास्थाय जितान्मन्यसि पाण्डवान् 023a शृणु भूयो यथातत्त्वं यन्मां त्वं परिपृच्छसि 023c कारणं भरतश्रेष्ठ पाण्डवानां जयं प्रति 023e तत्तेऽहं कथयिष्यामि यथाश्रुतमरिन्दम 024a दुर्योधनेन सम्पृष्ट एतमर्थम्पितामहः 024c दृष्ट्वा भ्रातॄन्रणे सर्वान्निर्जितान्सुमहारथान् 025a शोकसम्मूढहृदयो निशाकाले स्म कौरवः 025c पितामहं महाप्राज्ञं विनयेनोपगम्य ह 025e यदब्रवीत्सुतस्तेऽसौ तन्मे शृणु जनेश्वर 026 दुर्योधन उवाच 026a त्वञ्च द्रोणश्च शल्यश्च कृपो द्रौणिस्तथैव च 026c कृतवर्मा च हार्दिक्यः काम्बोजश्च सुदक्षिणः 027a भूरिश्रवा विकर्णश्च भगदत्तश्च वीर्यवान् 027c महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः 028a त्रयाणामपि लोकानां पर्याप्ता इति मे मतिः 028c पाण्डवानां समस्ताश्च न तिष्ठन्ति पराक्रमे 029a तत्र मे संशयो जातस्तन्ममाचक्ष्व पृच्छतः 029c यं समाश्रित्य कौन्तेया जयन्त्यस्मान्पदे पदे 030 भीष्म उवाच 030a शृणु राजन्वचो मह्यं यत्त्वां वक्ष्यामि कौरव 030c बहुशश्च ममोक्तोऽसि न च मे तत्त्वया कृतम् 031a क्रियतां पाण्डवैः सार्धं शमो भरतसत्तम 031c एतत्क्षममहम् मन्ये पृथिव्यास्तव चाभिभो 032a भुञ्जेमाम् पृथिवीं राजन्भ्रातृभिः सहितः सुखी 032c दुर्हृदस्तापयन्सर्वान्नन्दयंश्चापि बान्धवान् 033a न च मे क्रोशतस्तात श्रुतवानसि वै पुरा 033c तदिदं समनुप्राप्तं यत्पाण्डूनवमन्यसे 034a यश्च हेतुरवध्यत्वे तेषामक्लिष्टकर्मणाम् 034c तं शृणुष्व महाराज मम कीर्तयतः प्रभो 035a नास्ति लोकेषु तद्भूतं भविता नो भविष्यति 035c यो जयेत्पाण्डवान्सङ्ख्ये पालिताञ्शार्ङ्गधन्वना 036a यत्तु मे कथितं तात मुनिभिर्भावितात्मभिः 036c पुराणगीतम् धर्मज्ञ तच्छृणुष्व यथातथम् 037a पुरा किल सुराः सर्वे ऋषयश्च समागताः 037c पितामहमुपासेदुः पर्वते गन्धमादने 038a मध्ये तेषां समासीनः प्रजापतिरपश्यत 038c विमानं जाज्वलद्भासा स्थितं प्रवरमम्बरे 039a ध्यानेनावेद्य तं ब्रह्मा कृत्वा च नियतोऽञ्जलिम् 039c नमश्चकार हृष्टात्मा परमम्परमेश्वरम् 040a ऋषयस्त्वथ देवाश्च दृष्ट्वा ब्रह्माणमुत्थितम् 040c स्थिताः प्राञ्जलयः सर्वे पश्यन्तो महदद्भुतम् 041a यथावच्च तमभ्यर्च्य ब्रह्मा ब्रह्मविदां वरः 041c जगाद जगतः स्रष्टा परम्परमधर्मवित् 042a विश्वावसुर्विश्वमूर्तिर्विश्वेशो; विष्वक्सेनो विश्वकर्मा वशी च 042c विश्वेश्वरो वासुदेवोऽसि तस्मा;द्योगात्मानं दैवतं त्वामुपैमि 043a जय विश्व महादेव जय लोकहिते रत 043c जय योगीश्वर विभो जय योगपरावर 044a पद्मगर्भ विशालाक्ष जय लोकेश्वरेश्वर 044c भूतभव्यभवन्नाथ जय सौम्यात्मजात्मज 045a असङ्ख्येयगुणाजेय जय सर्वपरायण 045c नारायण सुदुष्पार जय शार्ङ्गधनुर्धर 046a सर्वगुह्यगुणोपेत विश्वमूर्ते निरामय 046c विश्वेश्वर महाबाहो जय लोकार्थतत्पर 047a महोरग वराहाद्य हरिकेश विभो जय 047c हरिवास विशामीश विश्वावासामिताव्यय 048a व्यक्ताव्यक्तामितस्थान नियतेन्द्रिय सेन्द्रिय 048c असङ्ख्येयात्मभावज्ञ जय गम्भीर कामद 049a अनन्त विदितप्रज्ञ नित्यं भूतविभावन 049c कृतकार्य कृतप्रज्ञ धर्मज्ञ विजयाजय 050a गुह्यात्मन्सर्वभूतात्मन्स्फुटसम्भूतसम्भव 050c भूतार्थतत्त्व लोकेश जय भूतविभावन 051a आत्मयोने महाभाग कल्पसङ्क्षेपतत्पर 051c उद्भावन मनोद्भाव जय ब्रह्मजनप्रिय 052a निसर्गसर्गाभिरत कामेश परमेश्वर 052c अमृतोद्भव सद्भाव युगाग्ने विजयप्रद 053a प्रजापतिपते देव पद्मनाभ महाबल 053c आत्मभूत महाभूत कर्मात्मञ्जय कर्मद 054a पादौ तव धरा देवी दिशो बाहुर्दिवं शिरः 054c मूर्तिस्तेऽहं सुराः कायश्चन्द्रादित्यौ च चक्षुषी 055a बलन् तपश्च सत्यञ्च धर्मः कामात्मजः प्रभो 055c तेजोऽग्निः पवनः श्वास आपस्ते स्वेदसम्भवाः 056a अश्विनौ श्रवणौ नित्यं देवी जिह्वा सरस्वती 056c वेदाः संस्कारनिष्ठा हि त्वयीदं जगदाश्रितम् 057a न सङ्ख्यां न परीमाणं न तेजो न पराक्रमम् 057c न बलं योगयोगीश जानीमस्ते न सम्भवम् 058a त्वद्भक्तिनिरता देव नियमैस्त्वा समाहिताः 058c अर्चयामः सदा विष्णो परमेशं महेश्वरम् 059a ऋषयो देवगन्धर्वा यक्षराक्षसपन्नगाः 059c पिशाचा मानुषाश्चैव मृगपक्षिसरीसृपाः 060a एवमादि मया सृष्टं पृथिव्यां त्वत्प्रसादजम् 060c पद्मनाभ विशालाक्ष कृष्ण दुःस्वप्ननाशन 061a त्वं गतिः सर्वभूतानां त्वं नेता त्वं जगन्मुखम् 061c त्वत्प्रसादेन देवेश सुखिनो विबुधाः सदा 062a पृथिवी निर्भया देव त्वत्प्रसादात्सदाभवत् 062c तस्माद्भव विशालाक्ष यदुवंशविवर्धनः 063a धर्मसंस्थापनार्थाय दैतेयानां वधाय च 063c जगतो धारणार्थाय विज्ञाप्यं कुरु मे प्रभो 064a यदेतत्परमं गुह्यं त्वत्प्रसादमयं विभो 064c वासुदेव तदेतत्ते मयोद्गीतं यथातथम् 065a सृष्ट्वा सङ्कर्षणं देवं स्वयमात्मानमात्मना 065c कृष्ण त्वमात्मनास्राक्षीः प्रद्युम्नं चात्मसम्भवम् 066a प्रद्युम्नाच्चानिरुद्धं त्वं यं विदुर्विष्णुमव्ययम् 066c अनिरुद्धोऽसृजन्मां वै ब्रह्माणं लोकधारिणम् 067a वासुदेवमयः सोऽहं त्वयैवास्मि विनिर्मितः 067c विभज्य भागशोऽऽत्मानं व्रज मानुषतां विभो 068a तत्रासुरवधं कृत्वा सर्वलोकसुखाय वै 068c धर्मं स्थाप्य यशः प्राप्य योगं प्राप्स्यसि तत्त्वतः 069a त्वां हि ब्रह्मर्षयो लोके देवाश्चामितविक्रम 069c तैस्तैश्च नामभिर्भक्ता गायन्ति परमात्मकम् 070a स्थिताश्च सर्वे त्वयि भूतसङ्घाः; कृत्वाश्रयं त्वां वरदं सुबाहो 070c अनादिमध्यान्तमपारयोगं; लोकस्य सेतुम्प्रवदन्ति विप्राः