001 सञ्जय उवाच 001a ततो भूरिश्रवा राजन्सात्यकिं नवभिः शरैः 001c अविध्यद्भृशसङ्क्रुद्धस्तोत्त्रैरिव महाद्विपम् 002a कौरवं सात्यकिश्चैव शरैः सन्नतपर्वभिः 002c अवाकिरदमेयात्मा सर्वलोकस्य पश्यतः 003a ततो दुर्योधनो राजा सोदर्यैः परिवारितः 003c सौमदत्तिं रणे यत्तः समन्तात्पर्यवारयत् 004a तथैव पाण्डवाः सर्वे सात्यकिं रभसं रणे 004c परिवार्य स्थिताः सङ्ख्ये समन्तात्सुमहौजसः 005a भीमसेनस्तु सङ्क्रुद्धो गदामुद्यम्य भारत 005c दुर्योधनमुखान्सर्वान्पुत्रांस्ते पर्यवारयत् 006a रथैरनेकसाहस्रैः क्रोधामर्षसमन्वितः 006c नन्दकस्तव पुत्रस्तु भीमसेनं महाबलम् 006e विव्याध निशितैः षड्भिः कङ्कपत्रैः शिलाशितैः 007a दुर्योधनस्तु समरे भीमसेनं महाबलम् 007c आजघानोरसि क्रुद्धो मार्गणैर्निशितैस्त्रिभिः 008a ततो भीमो महाबाहुः स्वरथं सुमहाबलः 008c आरुरोह रथश्रेष्ठं विशोकं चेदमब्रवीत् 009a एते महारथाः शूरा धार्तराष्ट्रा महाबलाः 009c मामेव भृशसङ्क्रुद्धा हन्तुमभ्युद्यता युधि 010a एतानद्य हनिष्यामि पश्यतस्ते न संशयः 010c तस्मान्ममाश्वान्सङ्ग्रामे यत्तः संयच्छ सारथे 011a एवमुक्त्वा ततः पार्थः पुत्रं दुर्योधनं तव 011c विव्याध दशभिस्तीक्ष्णैः शरैः कनकभूषणैः 011e नन्दकं च त्रिभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे 012a तं तु दुर्योधनः षष्ट्या विद्ध्वा भीमं महाबलम् 012c त्रिभिरन्यैः सुनिशितैर्विशोकं प्रत्यविध्यत 013a भीमस्य च रणे राजन्धनुश्चिच्छेद भास्वरम् 013c मुष्टिदेशे शरैस्तीक्ष्णैस्त्रिभी राजा हसन्निव 014a भीमस्तु प्रेक्ष्य यन्तारं विशोकं संयुगे तदा 014c पीडितं विशिखैस्तीक्ष्णैस्तव पुत्रेण धन्विना 015a अमृष्यमाणः सङ्क्रुद्धो धनुर्दिव्यं परामृशत् 015c पुत्रस्य ते महाराज वधार्थं भरतर्षभ 016a समादत्त च संरब्धः क्षुरप्रं लोमवाहिनम् 016c तेन चिच्छेद नृपतेर्भीमः कार्मुकमुत्तमम् 017a सोऽपविध्य धनुश्छिन्नं क्रोधेन प्रज्वलन्निव 017c अन्यत्कार्मुकमादत्त सत्वरं वेगवत्तरम् 018a सन्धत्त विशिखं घोरं कालमृत्युसमप्रभम् 018c तेनाजघान सङ्क्रुद्धो भीमसेनं स्तनान्तरे 019a स गाढविद्धो व्यथितः स्यन्दनोपस्थ आविशत् 019c स निषण्णो रथोपस्थे मूर्छामभिजगाम ह 020a तं दृष्ट्वा व्यथितं भीममभिमन्युपुरोगमाः 020c नामृष्यन्त महेष्वासाः पाण्डवानां महारथाः 021a ततस्तु तुमुलां वृष्टिं शस्त्राणां तिग्मतेजसाम् 021c पातयामासुरव्यग्राः पुत्रस्य तव मूर्धनि 022a प्रतिलभ्य ततः सञ्ज्ञां भीमसेनो महाबलः 022c दुर्योधनं त्रिभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः 023a शल्यं च पञ्चविंशत्या शरैर्विव्याध पाण्डवः 023c रुक्मपुङ्खैर्महेष्वासः स विद्धो व्यपयाद्रणात् 024a प्रत्युद्ययुस्ततो भीमं तव पुत्राश्चतुर्दश 024c सेनापतिः सुषेणश्च जलसन्धः सुलोचनः 025a उग्रो भीमरथो भीमो भीमबाहुरलोलुपः 025c दुर्मुखो दुष्प्रधर्षश्च विवित्सुर्विकटः समः 026a विसृजन्तो बहून्बाणान्क्रोधसंरक्तलोचनाः 026c भीमसेनमभिद्रुत्य विव्यधुः सहिता भृशम् 027a पुत्रांस्तु तव सम्प्रेक्ष्य भीमसेनो महाबलः 027c सृक्किणी विलिहन्वीरः पशुमध्ये वृको यथा 027e सेनापतेः क्षुरप्रेण शिरश्चिच्छेद पाण्डवः 028a जलसन्धं विनिर्भिद्य सोऽनयद्यमसादनम् 028c सुषेणं च ततो हत्वा प्रेषयामास मृत्यवे 029a उग्रस्य सशिरस्त्राणं शिरश्चन्द्रोपमं भुवि 029c पातयामास भल्लेन कुण्डलाभ्यां विभूषितम् 030a भीमबाहुं च सप्तत्या साश्वकेतुं ससारथिम् 030c निनाय समरे भीमः परलोकाय मारिष 031a भीमं भीमरथं चोभौ भीमसेनो हसन्निव 031c भ्रातरौ रभसौ राजन्ननयद्यमसादनम् 032a ततः सुलोचनं भीमः क्षुरप्रेण महामृधे 032c मिषतां सर्वसैन्यानामनयद्यमसादनम् 033a पुत्रास्तु तव तं दृष्ट्वा भीमसेनपराक्रमम् 033c शेषा येऽन्येऽभवंस्तत्र ते भीमस्य भयार्दिताः 033e विप्रद्रुता दिशो राजन्वध्यमाना महात्मना 034a ततोऽब्रवीच्छान्तनवः सर्वानेव महारथान् 034c एष भीमो रणे क्रुद्धो धार्तराष्ट्रान्महारथान् 035a यथाप्राग्र्यान्यथाज्येष्ठान्यथाशूरांश्च सङ्गतान् 035c निपातयत्युग्रधन्वा तं प्रमथ्नीत पार्थिवाः 036a एवमुक्तास्ततः सर्वे धार्तराष्ट्रस्य सैनिकाः 036c अभ्यद्रवन्त सङ्क्रुद्धा भीमसेनं महाबलम् 037a भगदत्तः प्रभिन्नेन कुञ्जरेण विशाम्पते 037c अपतत्सहसा तत्र यत्र भीमो व्यवस्थितः 038a आपतन्नेव च रणे भीमसेनं शिलाशितैः 038c अदृश्यं समरे चक्रे जीमूत इव भास्करम् 039a अभिमन्युमुखास्तत्र नामृष्यन्त महारथाः 039c भीमस्याच्छादनं सङ्ख्ये स्वबाहुबलमाश्रिताः 040a त एनं शरवर्षेण समन्तात्पर्यवारयन् 040c गजं च शरवृष्ट्या तं बिभिदुस्ते समन्ततः 041a स शस्त्रवृष्ट्याभिहतः प्राद्रवद्द्विगुणं पदम् 041c प्राग्ज्योतिषगजो राजन्नानालिङ्गैः सुतेजनैः 042a सञ्जातरुधिरोत्पीडः प्रेक्षणीयोऽभवद्रणे 042c गभस्तिभिरिवार्कस्य संस्यूतो जलदो महान् 043a स चोदितो मदस्रावी भगदत्तेन वारणः 043c अभ्यधावत तान्सर्वान्कालोत्सृष्ट इवान्तकः 043e द्विगुणं जवमास्थाय कम्पयंश्चरणैर्महीम् 044a तस्य तत्सुमहद्रूपं दृष्ट्वा सर्वे महारथाः 044c असह्यं मन्यमानास्ते नातिप्रमनसोऽभवन् 045a ततस्तु नृपतिः क्रुद्धो भीमसेनं स्तनान्तरे 045c आजघान नरव्याघ्र शरेण नतपर्वणा 046a सोऽतिविद्धो महेष्वासस्तेन राज्ञा महारथः 046c मूर्छयाभिपरीताङ्गो ध्वजयष्टिमुपाश्रितः 047a तांस्तु भीतान्समालक्ष्य भीमसेनं च मूर्छितम् 047c ननाद बलवन्नादं भगदत्तः प्रतापवान् 048a ततो घटोत्कचो राजन्प्रेक्ष्य भीमं तथागतम् 048c सङ्क्रुद्धो राक्षसो घोरस्तत्रैवान्तरधीयत 049a स कृत्वा दारुणां मायां भीरूणां भयवर्धिनीम् 049c अदृश्यत निमेषार्धाद्घोररूपं समाश्रितः 050a ऐरावतं समारुह्य स्वयं मायामयं कृतम् 050c तस्य चान्येऽपि दिङ्नागा बभूवुरनुयायिनः 051a अञ्जनो वामनश्चैव महापद्मश्च सुप्रभः 051c त्रय एते महानागा राक्षसैः समधिष्ठिताः 052a महाकायास्त्रिधा राजन्प्रस्रवन्तो मदं बहु 052c तेजोवीर्यबलोपेता महाबलपराक्रमाः 053a घटोत्कचस्तु स्वं नागं चोदयामास तं ततः 053c सगजं भगदत्तं तु हन्तुकामः परन्तपः 054a ते चान्ये चोदिता नागा राक्षसैस्तैर्महाबलैः 054c परिपेतुः सुसंरब्धाश्चतुर्दंष्ट्राश्चतुर्दिशम् 054e भगदत्तस्य तं नागं विषाणैस्तेऽभ्यपीडयन् 055a सम्पीड्यमानस्तैर्नागैर्वेदनार्तः शरातुरः 055c सोऽनदत्सुमहानादमिन्द्राशनिसमस्वनम् 056a तस्य तं नदतो नादं सुघोरं भीमनिस्वनम् 056c श्रुत्वा भीष्मोऽब्रवीद्द्रोणं राजानं च सुयोधनम् 057a एष युध्यति सङ्ग्रामे हैडिम्बेन दुरात्मना 057c भगदत्तो महेष्वासः कृच्छ्रेण परिवर्तते 058a राक्षसश्च महामायः स च राजातिकोपनः 058c तौ समेतौ महावीर्यौ कालमृत्युसमावुभौ 059a श्रूयते ह्येष हृष्टानां पाण्डवानां महास्वनः 059c हस्तिनश्चैव सुमहान्भीतस्य रुवतो ध्वनिः 060a तत्र गच्छाम भद्रं वो राजानं परिरक्षितुम् 060c अरक्ष्यमाणः समरे क्षिप्रं प्राणान्विमोक्ष्यते 061a ते त्वरध्वं महावीर्याः किं चिरेण प्रयामहे 061c महान्हि वर्तते रौद्रः सङ्ग्रामो लोमहर्षणः 062a भक्तश्च कुलपुत्रश्च शूरश्च पृतनापतिः 062c युक्तं तस्य परित्राणं कर्तुमस्माभिरच्युताः 063a भीष्मस्य तद्वचः श्रुत्वा भारद्वाजपुरोगमाः 063c सहिताः सर्वराजानो भगदत्तपरीप्सया 063e उत्तमं जवमास्थाय प्रययुर्यत्र सोऽभवत् 064a तान्प्रयातान्समालोक्य युधिष्ठिरपुरोगमाः 064c पाञ्चालाः पाण्डवैः सार्धं पृष्ठतोऽनुययुः परान् 065a तान्यनीकान्यथालोक्य राक्षसेन्द्रः प्रतापवान् 065c ननाद सुमहानादं विस्फोटमशनेरिव 066a तस्य तं निनदं श्रुत्वा दृष्ट्वा नागांश्च युध्यतः 066c भीष्मः शान्तनवो भूयो भारद्वाजमभाषत 067a न रोचते मे सङ्ग्रामो हैडिम्बेन दुरात्मना 067c बलवीर्यसमाविष्टः ससहायश्च साम्प्रतम् 068a नैष शक्यो युधा जेतुमपि वज्रभृता स्वयम् 068c लब्धलक्ष्यः प्रहारी च वयं च श्रान्तवाहनाः 068e पाञ्चालैः पाण्डवेयैश्च दिवसं क्षतविक्षताः 069a तन्न मे रोचते युद्धं पाण्डवैर्जितकाशिभिः 069c घुष्यतामवहारोऽद्य श्वो योत्स्यामः परैः सह 070a पितामहवचः श्रुत्वा तथा चक्रुः स्म कौरवाः 070c उपायेनापयानं ते घटोत्कचभयार्दिताः 071a कौरवेषु निवृत्तेषु पाण्डवा जितकाशिनः 071c सिंहनादमकुर्वन्त शङ्खवेणुस्वनैः सह 072a एवं तदभवद्युद्धं दिवसं भरतर्षभ 072c पाण्डवानां कुरूणां च पुरस्कृत्य घटोत्कचम् 073a कौरवास्तु ततो राजन्प्रययुः शिबिरं स्वकम् 073c व्रीडमाना निशाकाले पाण्डवेयैः पराजिताः 074a शरविक्षतगात्राश्च पाण्डुपुत्रा महारथाः 074c युद्धे सुमनसो भूत्वा शिबिरायैव जग्मिरे 075a पुरस्कृत्य महाराज भीमसेनघटोत्कचौ 075c पूजयन्तस्तदान्योन्यं मुदा परमया युताः 076a नदन्तो विविधान्नादांस्तूर्यस्वनविमिश्रितान् 076c सिंहनादांश्च कुर्वाणा विमिश्राञ्शङ्खनिस्वनैः 077a विनदन्तो महात्मानः कम्पयन्तश्च मेदिनीम् 077c घट्टयन्तश्च मर्माणि तव पुत्रस्य मारिष 077e प्रयाताः शिबिरायैव निशाकाले परन्तपाः 078a दुर्योधनस्तु नृपतिर्दीनो भ्रातृवधेन च 078c मुहूर्तं चिन्तयामास बाष्पशोकसमाकुलः 079a ततः कृत्वा विधिं सर्वं शिबिरस्य यथाविधि 079c प्रदध्यौ शोकसन्तप्तो भ्रातृव्यसनकर्शितः