001 सञ्जय उवाच 001a तस्मिन्हते गजानीके पुत्रो दुर्योधनस्तव 001c भीमसेनं घ्नतेत्येवं सर्वसैन्यान्यचोदयत् 002a ततः सर्वाण्यनीकानि तव पुत्रस्य शासनात् 002c अभ्यद्रवन्भीमसेनं नदन्तं भैरवान्रवान् 003a तं बलौघमपर्यन्तं देवैरपि दुरुत्सहम् 003c आपतन्तं सुदुष्पारं समुद्रमिव पर्वणि 004a रथनागाश्वकलिलं शङ्खदुन्दुभिनादितम् 004c अथानन्तमपारं च नरेन्द्रस्तिमितह्रदम् 005a तं भीमसेनः समरे महोदधिमिवापरम् 005c सेनासागरमक्षोभ्यं वेलेव समवारयत् 006a तदाश्चर्यमपश्याम श्रद्धेयमपि चाद्भुतम् 006c भीमसेनस्य समरे राजन्कर्मातिमानुषम् 007a उदीर्णां पृथिवीं सर्वां साश्वां सरथकुञ्जराम् 007c असम्भ्रमं भीमसेनो गदया समताडयत् 008a स संवार्य बलौघांस्तान्गदया रथिनां वरः 008c अतिष्ठत्तुमुले भीमो गिरिर्मेरुरिवाचलः 009a तस्मिन्सुतुमुले घोरे काले परमदारुणे 009c भ्रातरश्चैव पुत्राश्च धृष्टद्युम्नश्च पार्षतः 010a द्रौपदेयाभिमन्युश्च शिखण्डी च महारथः 010c न प्राजहन्भीमसेनं भये जाते महाबलम् 011a ततः शैक्यायसीं गुर्वीं प्रगृह्य महतीं गदाम् 011c अवधीत्तावकान्योधान्दण्डपाणिरिवान्तकः 011e पोथयन्रथवृन्दानि वाजिवृन्दानि चाभिभूः 012a व्यचरत्समरे भीमो युगान्ते पावको यथा 012c विनिघ्नन्समरे सर्वान्युगान्ते कालवद्विभुः 013a ऊरुवेगेन सङ्कर्षन्रथजालानि पाण्डवः 013c प्रमर्दयन्गजान्सर्वान्नड्वलानीव कुञ्जरः 014a मृद्नन्रथेभ्यो रथिनो गजेभ्यो गजयोधिनः 014c सादिनश्चाश्वपृष्ठेभ्यो भूमौ चैव पदातिनः 015a तत्र तत्र हतैश्चापि मनुष्यगजवाजिभिः 015c रणाङ्गणं तदभवन्मृत्योराघातसमन्निभम् 016a पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून् 016c यमदण्डोपमामुग्रामिन्द्राशनिसमस्वनाम् 016e ददृशुर्भीमसेनस्य रौद्रां विशसनीं गदाम् 017a आविध्यतो गदां तस्य कौन्तेयस्य महात्मनः 017c बभौ रूपं महाघोरं कालस्येव युगक्षये 018a तं तथा महतीं सेनां द्रावयन्तं पुनः पुनः 018c दृष्ट्वा मृत्युमिवायान्तं सर्वे विमनसोऽभवन् 019a यतो यतः प्रेक्षते स्म गदामुद्यम्य पाण्डवः 019c तेन तेन स्म दीर्यन्ते सर्वसैन्यानि भारत 020a प्रदारयन्तं सैन्यानि बलौघेनापराजितम् 020c ग्रसमानमनीकानि व्यादितास्यमिवान्तकम् 021a तं तथा भीमकर्माणं प्रगृहीतमहागदम् 021c दृष्ट्वा वृकोदरं भीष्मः सहसैव समभ्ययात् 022a महता मेघघोषेण रथेनादित्यवर्चसा 022c छादयञ्शरवर्षेण पर्जन्य इव वृष्टिमान् 023a तमायान्तं तथा दृष्ट्वा व्यात्ताननमिवान्तकम् 023c भीष्मं भीमो महाबाहुः प्रत्युदीयादमर्षणः 024a तस्मिन्क्षणे सात्यकिः सत्यसन्धः शिनिप्रवीरोऽभ्यपतत्पितामहम् 024c निघ्नन्नमित्रान्धनुषा दृढेन स कम्पयंस्तव पुत्रस्य सेनाम् 025a तं यान्तमश्वै रजतप्रकाशैः शरान्धमन्तं धनुषा दृढेन 025c नाशक्नुवन्वारयितुं तदानीं सर्वे गणा भारत ये त्वदीयाः 026a अविध्यदेनं निशितैः शराग्रैरलम्बुसो राजवरार्श्यशृङ्गिः 026c तं वै चतुर्भिः प्रतिविध्य वीरो नप्ता शिनेरभ्यपतद्रथेन 027a अन्वागतं वृष्णिवरं निशम्य मध्ये रिपूणां परिवर्तमानम् 027c प्रावर्तयन्तं कुरुपुङ्गवांश्च पुनः पुनश्च प्रणदन्तमाजौ 028a नाशक्नुवन्वारयितुं वरिष्ठं मध्यन्दिने सूर्यमिवातपन्तम् 028c न तत्र कश्चिन्नविषण्ण आसीदृते राजन्सोमदत्तस्य पुत्रात् 029a स ह्याददानो धनुरुग्रवेगं भूरिश्रवा भारत सौमदत्तिः 029c दृष्ट्वा रथान्स्वान्व्यपनीयमानान्प्रत्युद्ययौ सात्यकिं योद्धुमिच्छन्