001 धृतराष्ट्र उवाच 001a दैवमेव परं मन्ये पौरुषादपि सञ्जय 001c यत्सैन्यं मम पुत्रस्य पाण्डुसैन्येन वध्यते 002a नित्यं हि मामकांस्तात हतानेव हि शंससि 002c अव्यग्रांश्च प्रहृष्टांश्च नित्यं शंससि पाण्डवान् 003a हीनान्पुरुषकारेण मामकानद्य सञ्जय 003c पतितान्पात्यमानांश्च हतानेव च शंससि 004a युध्यमानान्यथाशक्ति घटमानाञ्जयं प्रति 004c पाण्डवा विजयन्त्येव जीयन्ते चैव मामकाः 005a सोऽहं तीव्राणि दुःखानि दुर्योधनकृतानि च 005c अश्रौषं सततं तात दुःसहानि बहूनि च 006a तमुपायं न पश्यामि जीयेरन्येन पाण्डवाः 006c मामका वा जयं युद्धे प्राप्नुयुर्येन सञ्जय 007 सञ्जय उवाच 007a क्षयं मनुष्यदेहानां गजवाजिरथक्षयम् 007c शृणु राजन्स्थिरो भूत्वा तवैवापनयो महान् 008a धृष्टद्युम्नस्तु शल्येन पीडितो नवभिः शरैः 008c पीडयामास सङ्क्रुद्धो मद्राधिपतिमायसैः 009a तत्राद्भुतमपश्याम पार्षतस्य पराक्रमम् 009c न्यवारयत यत्तूर्णं शल्यं समितिशोभनम् 010a नान्तरं ददृशे कश्चित्तयोः संरब्धयो रणे 010c मुहूर्तमिव तद्युद्धं तयोः सममिवाभवत् 011a ततः शल्यो महाराज धृष्टद्युम्नस्य संयुगे 011c धनुश्चिच्छेद भल्लेन पीतेन निशितेन च 012a अथैनं शरवर्षेण छादयामास भारत 012c गिरिं जलागमे यद्वज्जलदा जलधारिणः 013a अभिमन्युस्तु सङ्क्रुद्धो धृष्टद्युम्ने निपीडिते 013c अभिदुद्राव वेगेन मद्रराजरथं प्रति 014a ततो मद्राधिपरथं कार्ष्णिः प्राप्यातिकोपनः 014c आर्तायनिममेयात्मा विव्याध विशिखैस्त्रिभिः 015a ततस्तु तावका राजन्परीप्सन्तोऽऽर्जुनिं रणे 015c मद्रराजरथं तूर्णं परिवार्यावतस्थिरे 016a दुर्योधनो विकर्णश्च दुःशासनविविंशती 016c दुर्मर्षणो दुःसहश्च चित्रसेनश्च दुर्मुखः 017a सत्यव्रतश्च भद्रं ते पुरुमित्रश्च भारत 017c एते मद्राधिपरथं पालयन्तः स्थिता रणे 018a तान्भीमसेनः सङ्क्रुद्धो धृष्टद्युम्नश्च पार्षतः 018c द्रौपदेयाभिमन्युश्च माद्रीपुत्रौ च पाण्डवौ 019a नानारूपाणि शस्त्राणि विसृजन्तो विशाम्पते 019c अभ्यवर्तन्त संहृष्टाः परस्परवधैषिणः 019e ते वै समीयुः सङ्ग्रामे राजन्दुर्मन्त्रिते तव 020a तस्मिन्दाशरथे युद्धे वर्तमाने भयावहे 020c तावकानां परेषां च प्रेक्षका रथिनोऽभवन् 021a शस्त्राण्यनेकरूपाणि विसृजन्तो महारथाः 021c अन्योन्यमभिनर्दन्तः सम्प्रहारं प्रचक्रिरे 022a ते यत्ता जातसंरम्भाः सर्वेऽन्योन्यं जिघांसवः 022c महास्त्राणि विमुञ्चन्तः समापेतुरमर्षणाः 023a दुर्योधनस्तु सङ्क्रुद्धो धृष्टद्युम्नं महारणे 023c विव्याध निशितैर्बाणैश्चतुर्भिस्त्वरितो भृशम् 024a दुर्मर्षणश्च विंशत्या चित्रसेनश्च पञ्चभिः 024c दुर्मुखो नवभिर्बाणैर्दुःसहश्चापि सप्तभिः 024e विविंशतिः पञ्चभिश्च त्रिभिर्दुःशासनस्तथा 025a तान्प्रत्यविध्यद्राजेन्द्र पार्षतः शत्रुतापनः 025c एकैकं पञ्चविंशत्या दर्शयन्पाणिलाघवम् 026a सत्यव्रतं तु समरे पुरुमित्रं च भारत 026c अभिमन्युरविध्यत्तौ दशभिर्दशभिः शरैः 027a माद्रीपुत्रौ तु समरे मातुलं मातृनन्दनौ 027c छादयेतां शरव्रातैस्तदद्भुतमिवाभवत् 028a ततः शल्यो महाराज स्वस्रीयौ रथिनां वरौ 028c शरैर्बहुभिरानर्छत्कृतप्रतिकृतैषिणौ 028e छाद्यमानौ ततस्तौ तु माद्रीपुत्रौ न चेलतुः 029a अथ दुर्योधनं दृष्ट्वा भीमसेनो महाबलः 029c विधित्सुः कलहस्यान्तं गदां जग्राह पाण्डवः 030a तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम् 030c भीमसेनं महाबाहुं पुत्रास्ते प्राद्रवन्भयात् 031a दुर्योधनस्तु सङ्क्रुद्धो मागधं समचोदयत् 031c अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम् 031e मागधं पुरतः कृत्वा भीमसेनं समभ्ययात् 032a आपतन्तं च तं दृष्ट्वा गजानीकं वृकोदरः 032c गदापाणिरवारोहद्रथात्सिंह इवोन्नदन् 033a अद्रिसारमयीं गुर्वीं प्रगृह्य महतीं गदाम् 033c अभ्यधावद्गजानीकं व्यादितास्य इवान्तकः 034a स गजान्गदया निघ्नन्व्यचरत्समरे बली 034c भीमसेनो महाबाहुः सवज्र इव वासवः 035a तस्य नादेन महता मनोहृदयकम्पिना 035c व्यत्यचेष्टन्त संहत्य गजा भीमस्य नर्दतः 036a ततस्तु द्रौपदीपुत्राः सौभद्रश्च महारथः 036c नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः 037a पृष्ठं भीमस्य रक्षन्तः शरवर्षेण वारणान् 037c अभ्यधावन्त वर्षन्तो मेघा इव गिरीन्यथा 038a क्षुरैः क्षुरप्रैर्भल्लैश्च पीतैरञ्जलिकैरपि 038c पातयन्तोत्तमाङ्गानि पाण्डवा गजयोधिनाम् 039a शिरोभिः प्रपतद्भिश्च बाहुभिश्च विभूषितैः 039c अश्मवृष्टिरिवाभाति पाणिभिश्च सहाङ्कुशैः 040a हृतोत्तमाङ्गाः स्कन्धेषु गजानां गजयोधिनः 040c अदृश्यन्ताचलाग्रेषु द्रुमा भग्नशिखा इव 041a धृष्टद्युम्नहतानन्यानपश्याम महागजान् 041c पतितान्पात्यमानांश्च पार्षतेन महात्मना 042a मागधोऽथ महीपालो गजमैरावतोपमम् 042c प्रेषयामास समरे सौभद्रस्य रथं प्रति 043a तमापतन्तं सम्प्रेक्ष्य मागधस्य गजोत्तमम् 043c जघानैकेषुणा वीरः सौभद्रः परवीरहा 044a तस्यावर्जितनागस्य कार्ष्णिः परपुरञ्जयः 044c राज्ञो रजतपुङ्खेन भल्लेनापहरच्छिरः 045a विगाह्य तद्गजानीकं भीमसेनोऽपि पाण्डवः 045c व्यचरत्समरे मृद्नन्गजानिन्द्रो गिरीनिव 046a एकप्रहाराभिहतान्भीमसेनेन कुञ्जरान् 046c अपश्याम रणे तस्मिन्गिरीन्वज्रहतानिव 047a भग्नदन्तान्भग्नकटान्भग्नसक्थांश्च वारणान् 047c भग्नपृष्ठान्भग्नकुम्भान्निहतान्पर्वतोपमान् 048a नदतः सीदतश्चान्यान्विमुखान्समरे गजान् 048c विमूत्रान्भग्नसंविग्नांस्तथा विशकृतोऽपरान् 049a भीमसेनस्य मार्गेषु गतासून्पर्वतोपमान् 049c अपश्याम हतान्नागान्निष्टनन्तस्तथापरे 050a वमन्तो रुधिरं चान्ये भिन्नकुम्भा महागजाः 050c विह्वलन्तो गता भूमिं शैला इव धरातले 051a मेदोरुधिरदिग्धाङ्गो वसामज्जासमुक्षितः 051c व्यचरत्समरे भीमो दण्डपाणिरिवान्तकः 052a गजानां रुधिराक्तां तां गदां बिभ्रद्वृकोदरः 052c घोरः प्रतिभयश्चासीत्पिनाकीव पिनाकधृक् 053a निर्मथ्यमानाः क्रुद्धेन भीमसेनेन दन्तिनः 053c सहसा प्राद्रवञ्शिष्टा मृद्नन्तस्तव वाहिनीम् 054a तं हि वीरं महेष्वासाः सौभद्रप्रमुखा रथाः 054c पर्यरक्षन्त युध्यन्तं वज्रायुधमिवामराः 055a शोणिताक्तां गदां बिभ्रदुक्षितो गजशोणितैः 055c कृतान्त इव रौद्रात्मा भीमसेनो व्यदृश्यत 056a व्यायच्छमानं गदया दिक्षु सर्वासु भारत 056c नृत्यमानमपश्याम नृत्यन्तमिव शङ्करम् 057a यमदण्डोपमां गुर्वीमिन्द्राशनिसमस्वनाम् 057c अपश्याम महाराज रौद्रां विशसनीं गदाम् 058a विमिश्रां केशमज्जाभिः प्रदिग्धां रुधिरेण च 058c पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून् 059a यथा पशूनां सङ्घातं यष्ट्या पालः प्रकालयेत् 059c तथा भीमो गजानीकं गदया पर्यकालयत् 060a गदया वध्यमानास्ते मार्गणैश्च समन्ततः 060c स्वान्यनीकानि मृद्नन्तः प्राद्रवन्कुञ्जरास्तव 061a महावात इवाभ्राणि विधमित्वा स वारणान् 061c अतिष्ठत्तुमुले भीमः श्मशान इव शूलभृत्