001 सञ्जय उवाच 001a द्रौणिर्भूरिश्रवाः शल्यश्चित्रसेनश्च मारिष 001c पुत्रः सांयमनेश्चैव सौभद्रं समयोधयन् 002a संसक्तमतितेजोभिस्तमेकं ददृशुर्जनाः 002c पञ्चभिर्मनुजव्याघ्रैर्गजैः सिंहशिशुं यथा 003a नाभिलक्ष्यतया कश्चिन्न शौर्ये न पराक्रमे 003c बभूव सदृशः कार्ष्णेर्नास्त्रे नापि च लाघवे 004a तथा तमात्मजं युद्धे विक्रमन्तमरिन्दमम् 004c दृष्ट्वा पार्थो रणे यत्तः सिंहनादमथोऽनदत् 005a पीडयानं च तत्सैन्यं पौत्रं तव विशाम्पते 005c दृष्ट्वा त्वदीया राजेन्द्र समन्तात्पर्यवारयन् 006a ध्वजिनीं धार्तराष्ट्राणां दीनशत्रुरदीनवत् 006c प्रत्युद्ययौ स सौभद्रस्तेजसा च बलेन च 007a तस्य लाघवमार्गस्थमादित्यसदृशप्रभम् 007c व्यदृश्यत महच्चापं समरे युध्यतः परैः 008a स द्रौणिमिषुणैकेन विद्ध्वा शल्यं च पञ्चभिः 008c ध्वजं सांयमनेश्चापि सोऽष्टाभिरपवर्जयत् 009a रुक्मदण्डां महाशक्तिं प्रेषितां सौमदत्तिना 009c शितेनोरगसङ्काशां पत्रिणा विजहार ताम् 010a शल्यस्य च महाघोरानस्यतः शतशः शरान् 010c निवार्यार्जुनदायादो जघान समरे हयान् 011a भूरिश्रवाश्च शल्यश्च द्रौणिः सांयमनिः शलः 011c नाभ्यवर्तन्त संरब्धाः कार्ष्णेर्बाहुबलाश्रयात् 012a ततस्त्रिगर्ता राजेन्द्र मद्राश्च सह केकयैः 012c पञ्चत्रिंशतिसाहस्रास्तव पुत्रेण चोदिताः 013a धनुर्वेदविदो मुख्या अजेयाः शत्रुभिर्युधि 013c सहपुत्रं जिघांसन्तं परिवव्रुः किरीटिनम् 014a तौ तु तत्र पितापुत्रौ परिक्षिप्तौ रथर्षभौ 014c ददर्श राजन्पाञ्चाल्यः सेनापतिरमित्रजित् 015a स वारणरथौघानां सहस्रैर्बहुभिर्वृतः 015c वाजिभिः पत्तिभिश्चैव वृतः शतसहस्रशः 016a धनुर्विस्फार्य सङ्क्रुद्धश्चोदयित्वा वरूथिनीम् 016c ययौ तन्मद्रकानीकं केकयांश्च परन्तपः 017a तेन कीर्तिमता गुप्तमनीकं दृढधन्वना 017c प्रयुक्तरथनागाश्वं योत्स्यमानमशोभत 018a सोऽर्जुनं प्रमुखे यान्तं पाञ्चाल्यः कुरुनन्दन 018c त्रिभिः शारद्वतं बाणैर्जत्रुदेशे समर्पयत् 019a ततः स मद्रकान्हत्वा दशभिर्दशभिः शरैः 019c हृष्ट एको जघानाश्वं भल्लेन कृतवर्मणः 020a दमनं चापि दायादं पौरवस्य महात्मनः 020c जघान विपुलाग्रेण नाराचेन परन्तपः 021a ततः सांयमनेः पुत्रः पाञ्चाल्यं युद्धदुर्मदम् 021c अविध्यत्त्रिंशता बाणैर्दशभिश्चास्य सारथिम् 022a सोऽतिविद्धो महेष्वासः सृक्किणी परिसंलिहन् 022c भल्लेन भृशतीक्ष्णेन निचकर्तास्य कार्मुकम् 023a अथैनं पञ्चविंशत्या क्षिप्रमेव समर्पयत् 023c अश्वांश्चास्यावधीद्राजन्नुभौ तौ पार्ष्णिसारथी 024a स हताश्वे रथे तिष्ठन्ददर्श भरतर्षभ 024c पुत्रः सांयमनेः पुत्रं पाञ्चाल्यस्य महात्मनः 025a स सङ्गृह्य महाघोरं निस्त्रिंशवरमायसम् 025c पदातिस्तूर्णमभ्यर्छद्रथस्थं द्रुपदात्मजम् 026a तं महौघमिवायान्तं खात्पतन्तमिवोरगम् 026c भ्रान्तावरणनिस्त्रिंशं कालोत्सृष्टमिवान्तकम् 027a दीप्यन्तमिव शस्त्रार्च्या मत्तवारणविक्रमम् 027c अपश्यन्पाण्डवास्तत्र धृष्टद्युम्नश्च पार्षतः 028a तस्य पाञ्चालपुत्रस्तु प्रतीपमभिधावतः 028c शितनिस्त्रिंशहस्तस्य शरावरणधारिणः 029a बाणवेगमतीतस्य रथाभ्याशमुपेयुषः 029c त्वरन्सेनापतिः क्रुद्धो बिभेद गदया शिरः 030a तस्य राजन्सनिस्त्रिंशं सुप्रभं च शरावरम् 030c हतस्य पततो हस्ताद्वेगेन न्यपतद्भुवि 031a तं निहत्य गदाग्रेण लेभे स परमं यशः 031c पुत्रः पाञ्चालराजस्य महात्मा भीमविक्रमः 032a तस्मिन्हते महेष्वासे राजपुत्रे महारथे 032c हाहाकारो महानासीत्तव सैन्यस्य मारिष 033a ततः सांयमनिः क्रुद्धो दृष्ट्वा निहतमात्मजम् 033c अभिदुद्राव वेगेन पाञ्चाल्यं युद्धदुर्मदम् 034a तौ तत्र समरे वीरौ समेतौ रथिनां वरौ 034c ददृशुः सर्वराजानः कुरवः पाण्डवास्तथा 035a ततः सांयमनिः क्रुद्धः पार्षतं परवीरहा 035c आजघान त्रिभिर्बाणैस्तोत्त्रैरिव महाद्विपम् 036a तथैव पार्षतं शूरं शल्यः समितिशोभनः 036c आजघानोरसि क्रुद्धस्ततो युद्धमवर्तत