BR-06-04-056001 सञ्जय उवाच BR-06-04-056001a व्युष्टां निशां भारत भारतानामनीकिनीनां प्रमुखे महात्मा BR-06-04-056001c ययौ सपत्नान्प्रति जातकोपो वृतः समग्रेण बलेन भीष्मः BR-06-04-056002a तं द्रोणदुर्योधनबाह्लिकाश्च तथैव दुर्मर्षणचित्रसेनौ BR-06-04-056002c जयद्रथश्चातिबलो बलौघैर्नृपास्तथान्येऽनुययुः समन्तात् BR-06-04-056003a स तैर्महद्भिश्च महारथैश्च तेजस्विभिर्वीर्यवद्भिश्च राजन् BR-06-04-056003c रराज राजोत्तम राजमुख्यैर्वृतः स देवैरिव वज्रपाणिः BR-06-04-056004a तस्मिन्ननीकप्रमुखे विषक्ता दोधूयमानाश्च महापताकाः BR-06-04-056004c सुरक्तपीतासितपाण्डुराभा महागजस्कन्धगता विरेजुः BR-06-04-056005a सा वाहिनी शान्तनवेन राज्ञा महारथैर्वारणवाजिभिश्च BR-06-04-056005c बभौ सविद्युत्स्तनयित्नुकल्पा जलागमे द्यौरिव जातमेघा BR-06-04-056006a ततो रणायाभिमुखी प्रयाता प्रत्यर्जुनं शान्तनवाभिगुप्ता BR-06-04-056006c सेना महोग्रा सहसा कुरूणां वेगो यथा भीम इवापगायाः BR-06-04-056007a तं व्यालनानाविधगूढसारं गजाश्वपादातरथौघपक्षम् BR-06-04-056007c व्यूहं महामेघसमं महात्मा ददर्श दूरात्कपिराजकेतुः BR-06-04-056008a स निर्ययौ केतुमता रथेन नरर्षभः श्वेतहयेन वीरः BR-06-04-056008c वरूथिना सैन्यमुखे महात्मा वधे धृतः सर्वसपत्नयूनाम् BR-06-04-056009a सूपस्करं सोत्तरबन्धुरेषं यत्तं यदूनामृषभेण सङ्ख्ये BR-06-04-056009c कपिध्वजं प्रेक्ष्य विषेदुराजौ सहैव पुत्रैस्तव कौरवेयाः BR-06-04-056010a प्रकर्षता गुप्तमुदायुधेन किरीटिना लोकमहारथेन BR-06-04-056010c तं व्यूहराजं ददृशुस्त्वदीयाश्चतुश्चतुर्व्यालसहस्रकीर्णम् BR-06-04-056011a यथा हि पूर्वेऽहनि धर्मराज्ञा व्यूहः कृतः कौरवनन्दनेन BR-06-04-056011c तथा तथोद्देशमुपेत्य तस्थुः पाञ्चालमुख्यैः सह चेदिमुख्याः BR-06-04-056012a ततो महावेगसमाहतानि भेरीसहस्राणि विनेदुराजौ BR-06-04-056012c शङ्खस्वना दुन्दुभिनिस्वनाश्च सर्वेष्वनीकेषु ससिंहनादाः BR-06-04-056013a ततः सबाणानि महास्वनानि विस्फार्यमाणानि धनूंषि वीरैः BR-06-04-056013c क्षणेन भेरीपणवप्रणादानन्तर्दधुः शङ्खमहास्वनाश्च BR-06-04-056014a तच्छङ्खशब्दावृतमन्तरिक्षमुद्धूतभौमद्रुतरेणुजालम् BR-06-04-056014c महावितानावततप्रकाशमालोक्य वीराः सहसाभिपेतुः BR-06-04-056015a रथी रथेनाभिहतः ससूतः पपात साश्वः सरथः सकेतुः BR-06-04-056015c गजो गजेनाभिहतः पपात पदातिना चाभिहतः पदातिः BR-06-04-056016a आवर्तमानान्यभिवर्तमानैर्बाणैः क्षतान्यद्भुतदर्शनानि BR-06-04-056016c प्रासैश्च खड्गैश्च समाहतानि सदश्ववृन्दानि सदश्ववृन्दैः BR-06-04-056017a सुवर्णतारागणभूषितानि शरावराणि प्रहितानि वीरैः BR-06-04-056017c विदार्यमाणानि परश्वधैश्च प्रासैश्च खड्गैश्च निपेतुरुर्व्याम् BR-06-04-056018a गजैर्विषाणैर्वरहस्तरुग्णाः केचित्ससूता रथिनः प्रपेतुः BR-06-04-056018c गजर्षभाश्चापि रथर्षभेण निपेतिरे बाणहताः पृथिव्याम् BR-06-04-056019a गजौघवेगोद्धतसादितानां श्रुत्वा निषेदुर्वसुधां मनुष्याः BR-06-04-056019c आर्तस्वरं सादिपदातियूनां विषाणगात्रावरताडितानाम् BR-06-04-056020a सम्भ्रान्तनागाश्वरथे प्रसूते महाभये सादिपदातियूनाम् BR-06-04-056020c महारथैः सम्परिवार्यमाणं ददर्श भीष्मः कपिराजकेतुम् BR-06-04-056021a तं पञ्चतालोच्छ्रिततालकेतुः सदश्ववेगोद्धतवीर्ययातः BR-06-04-056021c महास्त्रबाणाशनिदीप्तमार्गं किरीटिनं शान्तनवोऽभ्यधावत् BR-06-04-056022a तथैव शक्रप्रतिमानकल्पमिन्द्रात्मजं द्रोणमुखाभिसस्रुः BR-06-04-056022c कृपश्च शल्यश्च विविंशतिश्च दुर्योधनः सौमदत्तिश्च राजन् BR-06-04-056023a ततो रथानीकमुखादुपेत्य सर्वास्त्रवित्काञ्चनचित्रवर्मा BR-06-04-056023c जवेन शूरोऽभिससार सर्वांस्तथार्जुनस्यात्र सुतोऽभिमन्युः BR-06-04-056024a तेषां महास्त्राणि महारथानामसक्तकर्मा विनिहत्य कार्ष्णिः BR-06-04-056024c बभौ महामन्त्रहुतार्चिमाली सदोगतः सन्भगवानिवाग्निः BR-06-04-056025a ततः स तूर्णं रुधिरोदफेनां कृत्वा नदीं वैशसने रिपूणाम् BR-06-04-056025c जगाम सौभद्रमतीत्य भीष्मो महारथं पार्थमदीनसत्त्वः BR-06-04-056026a ततः प्रहस्याद्भुतदर्शनेन गाण्डीवनिर्ह्रादमहास्वनेन BR-06-04-056026c विपाठजालेन महास्त्रजालं विनाशयामास किरीटमाली BR-06-04-056027a तमुत्तमं सर्वधनुर्धराणामसक्तकर्मा कपिराजकेतुः BR-06-04-056027c भीष्मं महात्माभिववर्ष तूर्णं शरौघजालैर्विमलैश्च भल्लैः BR-06-04-056028a एवंविधं कार्मुकभीमनादमदीनवत्सत्पुरुषोत्तमाभ्याम् BR-06-04-056028c ददर्श लोकः कुरुसृञ्जयाश्च तद्द्वैरथं भीष्मधनञ्जयाभ्याम्