001 धृतराष्ट्र उवाच 001a प्रतिज्ञाते तु भीष्मेण तस्मिन्युद्धे सुदारुणे 001c क्रोधितो मम पुत्रेण दुःखितेन विशेषतः 002a भीष्मः किमकरोत्तत्र पाण्डवेयेषु सञ्जय 002c पितामहे वा पाञ्चालास्तन्ममाचक्ष्व सञ्जय 003 सञ्जय उवाच 003a गतपूर्वाह्णभूयिष्ठे तस्मिन्नहनि भारत 003c जयं प्राप्तेषु हृष्टेषु पाण्डवेषु महात्मसु 004a सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव 004c अभ्ययाज्जवनैरश्वैः पाण्डवानामनीकिनीम् 004e महत्या सेनया गुप्तस्तव पुत्रैश्च सर्वशः 005a प्रावर्तत ततो युद्धं तुमुलं लोमहर्षणम् 005c अस्माकं पाण्डवैः सार्धमनयात्तव भारत 006a धनुषां कूजतां तत्र तलानां चाभिहन्यताम् 006c महान्समभवच्छब्दो गिरीणामिव दीर्यताम् 007a तिष्ठ स्थितोऽस्मि विद्ध्येनं निवर्तस्व स्थिरो भव 007c स्थितोऽस्मि प्रहरस्वेति शब्दाः श्रूयन्त सर्वशः 008a काञ्चनेषु तनुत्रेषु किरीटेषु ध्वजेषु च 008c शिलानामिव शैलेषु पतितानामभूत्स्वनः 009a पतितान्युत्तमाङ्गानि बाहवश्च विभूषिताः 009c व्यचेष्टन्त महीं प्राप्य शतशोऽथ सहस्रशः 010a हृतोत्तमाङ्गाः केचित्तु तथैवोद्यतकार्मुकाः 010c प्रगृहीतायुधाश्चापि तस्थुः पुरुषसत्तमाः 011a प्रावर्तत महावेगा नदी रुधिरवाहिनी 011c मातङ्गाङ्गशिलारौद्रा मांसशोणितकर्दमा 012a वराश्वनरनागानां शरीरप्रभवा तदा 012c परलोकार्णवमुखी गृध्रगोमायुमोदिनी 013a न दृष्टं न श्रुतं चापि युद्धमेतादृशं नृप 013c यथा तव सुतानां च पाण्डवानां च भारत 014a नासीद्रथपथस्तत्र योधैर्युधि निपातितैः 014c गजैश्च पतितैर्नीलैर्गिरिशृङ्गैरिवावृतम् 015a विकीर्णैः कवचैश्चित्रैर्ध्वजैश्छत्रैश्च मारिष 015c शुशुभे तद्रणस्थानं शरदीव नभस्तलम् 016a विनिर्भिन्नाः शरैः केचिदन्तपीडाविकर्षिणः 016c अभीताः समरे शत्रूनभ्यधावन्त दंशिताः 017a तात भ्रातः सखे बन्धो वयस्य मम मातुल 017c मा मां परित्यजेत्यन्ये चुक्रुशुः पतिता रणे 018a आधावाभ्येहि मा गच्छ किं भीतोऽसि क्व यास्यसि 018c स्थितोऽहं समरे मा भैरिति चान्ये विचुक्रुशुः 019a तत्र भीष्मः शान्तनवो नित्यं मण्डलकार्मुकः 019c मुमोच बाणान्दीप्ताग्रानहीनाशीविषानिव 020a शरैरेकायनीकुर्वन्दिशः सर्वा यतव्रतः 020c जघान पाण्डवरथानादिश्यादिश्य भारत 021a स नृत्यन्वै रथोपस्थे दर्शयन्पाणिलाघवम् 021c अलातचक्रवद्राजंस्तत्र तत्र स्म दृश्यते 022a तमेकं समरे शूरं पाण्डवाः सृञ्जयास्तथा 022c अनेकशतसाहस्रं समपश्यन्त लाघवात् 023a मायाकृतात्मानमिव भीष्मं तत्र स्म मेनिरे 023c पूर्वस्यां दिशि तं दृष्ट्वा प्रतीच्यां ददृशुर्जनाः 024a उदीच्यां चैनमालोक्य दक्षिणस्यां पुनः प्रभो 024c एवं स समरे वीरो गाङ्गेयः प्रत्यदृश्यत 025a न चैनं पाण्डवेयानां कश्चिच्छक्नोति वीक्षितुम् 025c विशिखानेव पश्यन्ति भीष्मचापच्युतान्बहून् 026a कुर्वाणं समरे कर्म सूदयानं च वाहिनीम् 026c व्याक्रोशन्त रणे तत्र वीरा बहुविधं बहु 026e अमानुषेण रूपेण चरन्तं पितरं तव 027a शलभा इव राजानः पतन्ति विधिचोदिताः 027c भीष्माग्निमभि सङ्क्रुद्धं विनाशाय सहस्रशः 028a न हि मोघः शरः कश्चिदासीद्भीष्मस्य संयुगे 028c नरनागाश्वकायेषु बहुत्वाल्लघुवेधिनः 029a भिनत्त्येकेन बाणेन सुमुक्तेन पतत्रिणा 029c गजकङ्कटसन्नाहं वज्रेणेवाचलोत्तमम् 030a द्वौ त्रीनपि गजारोहान्पिण्डितान्वर्मितानपि 030c नाराचेन सुतीक्ष्णेन निजघान पिता तव 031a यो यो भीष्मं नरव्याघ्रमभ्येति युधि कश्चन 031c मुहूर्तदृष्टः स मया पातितो भुवि दृश्यते 032a एवं सा धर्मराजस्य वध्यमाना महाचमूः 032c भीष्मेणातुलवीर्येण व्यशीर्यत सहस्रधा 033a प्रकीर्यत महासेना शरवर्षाभितापिता 033c पश्यतो वासुदेवस्य पार्थस्य च महात्मनः 034a यतमानापि ते वीरा द्रवमाणान्महारथान् 034c नाशक्नुवन्वारयितुं भीष्मबाणप्रपीडिताः 035a महेन्द्रसमवीर्येण वध्यमाना महाचमूः 035c अभज्यत महाराज न च द्वौ सह धावतः 036a आविद्धनरनागाश्वं पतितध्वजकूबरम् 036c अनीकं पाण्डुपुत्राणां हाहाभूतमचेतनम् 037a जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा 037c प्रियं सखायं चाक्रन्दे सखा दैवबलात्कृतः 038a विमुच्य कवचानन्ये पाण्डुपुत्रस्य सैनिकाः 038c प्रकीर्य केशान्धावन्तः प्रत्यदृश्यन्त भारत 039a तद्गोकुलमिवोद्भ्रान्तमुद्भ्रान्तरथयूथपम् 039c ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा 040a प्रभज्यमानं तत्सैन्यं दृष्ट्वा देवकिनन्दनः 040c उवाच पार्थं बीभत्सुं निगृह्य रथमुत्तमम् 041a अयं स कालः सम्प्राप्तः पार्थ यः काङ्क्षितस्त्वया 041c प्रहरास्मै नरव्याघ्र न चेन्मोहाद्विमुह्यसे 042a यत्त्वया कथितं वीर पुरा राज्ञां समागमे 042c भीष्मद्रोणमुखान्सर्वान्धार्तराष्ट्रस्य सैनिकान् 043a सानुबन्धान्हनिष्यामि ये मां योत्स्यन्ति संयुगे 043c इति तत्कुरु कौन्तेय सत्यं वाक्यमरिन्दम 044a बीभत्सो पश्य सैन्यं स्वं भज्यमानं समन्ततः 044c द्रवतश्च महीपालान्सर्वान्यौधिष्ठिरे बले 045a दृष्ट्वा हि समरे भीष्मं व्यात्ताननमिवान्तकम् 045c भयार्ताः सम्प्रणश्यन्ति सिंहं क्षुद्रमृगा इव 046a एवमुक्तः प्रत्युवाच वासुदेवं धनञ्जयः 046c चोदयाश्वान्यतो भीष्मो विगाह्यैतद्बलार्णवम् 047a ततोऽश्वान्रजतप्रख्यांश्चोदयामास माधवः 047c यतो भीष्मरथो राजन्दुष्प्रेक्ष्यो रश्मिमानिव 048a ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत् 048c दृष्ट्वा पार्थं महाबाहुं भीष्मायोद्यन्तमाहवे 049a ततो भीष्मः कुरुश्रेष्ठः सिंहवद्विनदन्मुहुः 049c धनञ्जयरथं तूर्णं शरवर्षैरवाकिरत् 050a क्षणेन स रथस्तस्य सहयः सहसारथिः 050c शरवर्षेण महता सञ्छन्नो न प्रकाशते 051a वासुदेवस्त्वसम्भ्रान्तो धैर्यमास्थाय सत्त्ववान् 051c चोदयामास तानश्वान्वितुन्नान्भीष्मसायकैः 052a ततः पार्थो धनुर्गृह्य दिव्यं जलदनिस्वनम् 052c पातयामास भीष्मस्य धनुश्छित्त्वा त्रिभिः शरैः 053a स च्छिन्नधन्वा कौरव्यः पुनरन्यन्महद्धनुः 053c निमेषान्तरमात्रेण सज्यं चक्रे पिता तव 054a विचकर्ष ततो दोर्भ्यां धनुर्जलदनिस्वनम् 054c अथास्य तदपि क्रुद्धश्चिच्छेद धनुरर्जुनः 055a तस्य तत्पूजयामास लाघवं शन्तनोः सुतः 055c साधु पार्थ महाबाहो साधु भो पाण्डुनन्दन 056a त्वय्येवैतद्युक्तरूपं महत्कर्म धनञ्जय 056c प्रीतोऽस्मि सुदृढं पुत्र कुरु युद्धं मया सह 057a इति पार्थं प्रशस्याथ प्रगृह्यान्यन्महद्धनुः 057c मुमोच समरे वीरः शरान्पार्थरथं प्रति 058a अदर्शयद्वासुदेवो हययाने परं बलम् 058c मोघान्कुर्वञ्शरांस्तस्य मण्डलान्यचरल्लघु 059a तथापि भीष्मः सुदृढं वासुदेवधनञ्जयौ 059c विव्याध निशितैर्बाणैः सर्वगात्रेषु मारिष 060a शुशुभाते नरव्याघ्रौ तौ भीष्मशरविक्षतौ 060c गोवृषाविव नर्दन्तौ विषाणोल्लिखिताङ्कितौ 061a पुनश्चापि सुसङ्क्रुद्धः शरैः सन्नतपर्वभिः 061c कृष्णयोर्युधि संरब्धो भीष्मो व्यावारयद्दिशः 062a वार्ष्णेयं च शरैस्तीक्ष्णैः कम्पयामास रोषितः 062c मुहुरभ्युत्स्मयन्भीष्मः प्रहस्य स्वनवत्तदा 063a ततः कृष्णस्तु समरे दृष्ट्वा भीष्मपराक्रमम् 063c सम्प्रेक्ष्य च महाबाहुः पार्थस्य मृदुयुद्धताम् 064a भीष्मं च शरवर्षाणि सृजन्तमनिशं युधि 064c प्रतपन्तमिवादित्यं मध्यमासाद्य सेनयोः 065a वरान्वरान्विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान् 065c युगान्तमिव कुर्वाणं भीष्मं यौधिष्ठिरे बले 066a अमृष्यमाणो भगवान्केशवः परवीरहा 066c अचिन्तयदमेयात्मा नास्ति यौधिष्ठिरं बलम् 067a एकाह्ना हि रणे भीष्मो नाशयेद्देवदानवान् 067c किमु पाण्डुसुतान्युद्धे सबलान्सपदानुगान् 068a द्रवते च महत्सैन्यं पाण्डवस्य महात्मनः 068c एते च कौरवास्तूर्णं प्रभग्नान्दृश्य सोमकान् 068e आद्रवन्ति रणे हृष्टा हर्षयन्तः पितामहम् 069a सोऽहं भीष्मं निहन्म्यद्य पाण्डवार्थाय दंशितः 069c भारमेतं विनेष्यामि पाण्डवानां महात्मनाम् 070a अर्जुनोऽपि शरैस्तीक्ष्णैर्वध्यमानो हि संयुगे 070c कर्तव्यं नाभिजानाति रणे भीष्मस्य गौरवात् 071a तथा चिन्तयतस्तस्य भूय एव पितामहः 071c प्रेषयामास सङ्क्रुद्धः शरान्पार्थरथं प्रति 072a तेषां बहुत्वाद्धि भृशं शराणां दिशोऽथ सर्वाः पिहिता बभूवुः 072c न चान्तरिक्षं न दिशो न भूमिर्न भास्करोऽदृश्यत रश्मिमाली 072e ववुश्च वातास्तुमुलाः सधूमा दिशश्च सर्वाः क्षुभिता बभूवुः 073a द्रोणो विकर्णोऽथ जयद्रथश्च भूरिश्रवाः कृतवर्मा कृपश्च 073c श्रुतायुरम्बष्ठपतिश्च राजा विन्दानुविन्दौ च सुदक्षिणश्च 074a प्राच्याश्च सौवीरगणाश्च सर्वे वसातयः क्षुद्रकमालवाश्च 074c किरीटिनं त्वरमाणाभिसस्रुर्निदेशगाः शान्तनवस्य राज्ञः 075a तं वाजिपादातरथौघजालैरनेकसाहस्रशतैर्ददर्श 075c किरीटिनं सम्परिवार्यमाणं शिनेर्नप्ता वारणयूथपैश्च 076a ततस्तु दृष्ट्वार्जुनवासुदेवौ पदातिनागाश्वरथैः समन्तात् 076c अभिद्रुतौ शस्त्रभृतां वरिष्ठौ शिनिप्रवीरोऽभिससार तूर्णम् 077a स तान्यनीकानि महाधनुष्माञ्शिनिप्रवीरः सहसाभिपत्य 077c चकार साहाय्यमथार्जुनस्य विष्णुर्यथा वृत्रनिषूदनस्य 078a विशीर्णनागाश्वरथध्वजौघं भीष्मेण वित्रासितसर्वयोधम् 078c युधिष्ठिरानीकमभिद्रवन्तं प्रोवाच सन्दृश्य शिनिप्रवीरः 079a क्व क्षत्रिया यास्यथ नैष धर्मः सतां पुरस्तात्कथितः पुराणैः 079c मा स्वां प्रतिज्ञां जहत प्रवीराः स्वं वीरधर्मं परिपालयध्वम् 080a तान्वासवानन्तरजो निशम्य नरेन्द्रमुख्यान्द्रवतः समन्तात् 080c पार्थस्य दृष्ट्वा मृदुयुद्धतां च भीष्मं च सङ्ख्ये समुदीर्यमाणम् 081a अमृष्यमाणः स ततो महात्मा यशस्विनं सर्वदशार्हभर्ता 081c उवाच शैनेयमभिप्रशंसन्दृष्ट्वा कुरूनापततः समन्तात् 082a ये यान्ति यान्त्वेव शिनिप्रवीर येऽपि स्थिताः सात्वत तेऽपि यान्तु 082c भीष्मं रथात्पश्य निपात्यमानं द्रोणं च सङ्ख्ये सगणं मयाद्य 083a नासौ रथः सात्वत कौरवाणां क्रुद्धस्य मुच्येत रणेऽद्य कश्चित् 083c तस्मादहं गृह्य रथाङ्गमुग्रं प्राणं हरिष्यामि महाव्रतस्य 084a निहत्य भीष्मं सगणं तथाजौ द्रोणञ्च शैनेय रथप्रवीरम् 084c प्रीतिं करिष्यामि धनञ्जयस्य राज्ञश्च भीमस्य तथाश्विनोश्च 085a निहत्य सर्वान्धृतराष्ट्रपुत्रांस्तत्पक्षिणो ये च नरेन्द्रमुख्याः 085c राज्येन राजानमजातशत्रुं सम्पादयिष्याम्यहमद्य हृष्टः 086a ततः सुनाभं वसुदेवपुत्रः सूर्यप्रभं वज्रसमप्रभावम् 086c क्षुरान्तमुद्यम्य भुजेन चक्रं रथादवप्लुत्य विसृज्य वाहान् 087a सङ्कम्पयन्गां चरणैर्महात्मा वेगेन कृष्णः प्रससार भीष्मम् 087c मदान्धमाजौ समुदीर्णदर्पः सिंहो जिघांसन्निव वारणेन्द्रम् 088a सोऽभ्यद्रवद्भीष्ममनीकमध्ये क्रुद्धो महेन्द्रावरजः प्रमाथी 088c व्यालम्बिपीतान्तपटश्चकाशे घनो यथा खेऽचिरभापिनद्धः 089a सुदर्शनं चास्य रराज शौरेस्तच्चक्रपद्मं सुभुजोरुनालम् 089c यथादिपद्मं तरुणार्कवर्णं रराज नारायणनाभिजातम् 090a तत्कृष्णकोपोदयसूर्यबुद्धं क्षुरान्ततीक्ष्णाग्रसुजातपत्रम् 090c तस्यैव देहोरुसरःप्ररूढं रराज नारायणबाहुनालम् 091a तमात्तचक्रं प्रणदन्तमुच्चैः क्रुद्धं महेन्द्रावरजं समीक्ष्य 091c सर्वाणि भूतानि भृशं विनेदुः क्षयं कुरूणामिति चिन्तयित्वा 092a स वासुदेवः प्रगृहीतचक्रः संवर्तयिष्यन्निव जीवलोकम् 092c अभ्युत्पतल्ँलोकगुरुर्बभासे भूतानि धक्ष्यन्निव कालवह्निः 093a तमापतन्तं प्रगृहीतचक्रं समीक्ष्य देवं द्विपदां वरिष्ठम् 093c असम्भ्रमात्कार्मुकबाणपाणी रथे स्थितः शान्तनवोऽभ्युवाच 094a एह्येहि देवेश जगन्निवास नमोऽस्तु ते शार्ङ्गरथाङ्गपाणे 094c प्रसह्य मां पातय लोकनाथ रथोत्तमाद्भूतशरण्य सङ्ख्ये 095a त्वया हतस्येह ममाद्य कृष्ण श्रेयः परस्मिन्निह चैव लोके 095c सम्भावितोऽस्म्यन्धकवृष्णिनाथ लोकैस्त्रिभिर्वीर तवाभियानात् 096a रथादवप्लुत्य ततस्त्वरावान्पार्थोऽप्यनुद्रुत्य यदुप्रवीरम् 096c जग्राह पीनोत्तमलम्बबाहुं बाह्वोर्हरिं व्यायतपीनबाहुः 097a निगृह्यमाणश्च तदादिदेवो भृशं सरोषः किल नाम योगी 097c आदाय वेगेन जगाम विष्णुर्जिष्णुं महावात इवैकवृक्षम् 098a पार्थस्तु विष्टभ्य बलेन पादौ भीष्मान्तिकं तूर्णमभिद्रवन्तम् 098c बलान्निजग्राह किरीटमाली पदेऽथ राजन्दशमे कथञ्चित् 099a अवस्थितं च प्रणिपत्य कृष्णं प्रीतोऽर्जुनः काञ्चनचित्रमाली 099c उवाच कोपं प्रतिसंहरेति गतिर्भवान्केशव पाण्डवानाम् 100a न हास्यते कर्म यथाप्रतिज्ञं पुत्रैः शपे केशव सोदरैश्च 100c अन्तं करिष्यामि यथा कुरूणां त्वयाहमिन्द्रानुज सम्प्रयुक्तः 101a ततः प्रतिज्ञां समयं च तस्मै जनार्दनः प्रीतमना निशम्य 101c स्थितः प्रिये कौरवसत्तमस्य रथं सचक्रः पुनरारुरोह 102a स तानभीषून्पुनराददानः प्रगृह्य शङ्खं द्विषतां निहन्ता 102c विनादयामास ततो दिशश्च स पाञ्चजन्यस्य रवेण शौरिः 103a व्याविद्धनिष्काङ्गदकुण्डलं तं रजोविकीर्णाञ्चितपक्ष्मनेत्रम् 103c विशुद्धदंष्ट्रं प्रगृहीतशङ्खं विचुक्रुशुः प्रेक्ष्य कुरुप्रवीराः 104a मृदङ्गभेरीपटहप्रणादा नेमिस्वना दुन्दुभिनिस्वनाश्च 104c ससिंहनादाश्च बभूवुरुग्राः सर्वेष्वनीकेषु ततः कुरूणाम् 105a गाण्डीवघोषः स्तनयित्नुकल्पो जगाम पार्थस्य नभो दिशश्च 105c जग्मुश्च बाणा विमलाः प्रसन्नाः सर्वा दिशः पाण्डवचापमुक्ताः 106a तं कौरवाणामधिपो बलेन भीष्मेण भूरिश्रवसा च सार्धम् 106c अभ्युद्ययावुद्यतबाणपाणिः कक्षं दिधक्षन्निव धूमकेतुः 107a अथार्जुनाय प्रजहार भल्लान्भूरिश्रवाः सप्त सुवर्णपुङ्खान् 107c दुर्योधनस्तोमरमुग्रवेगं शल्यो गदां शान्तनवश्च शक्तिम् 108a स सप्तभिः सप्त शरप्रवेकान्संवार्य भूरिश्रवसा विसृष्टान् 108c शितेन दुर्योधनबाहुमुक्तं क्षुरेण तत्तोमरमुन्ममाथ 109a ततः शुभामापततीं स शक्तिं विद्युत्प्रभां शान्तनवेन मुक्ताम् 109c गदां च मद्राधिपबाहुमुक्तां द्वाभ्यां शराभ्यां निचकर्त वीरः 110a ततो भुजाभ्यां बलवद्विकृष्य चित्रं धनुर्गाण्डिवमप्रमेयम् 110c माहेन्द्रमस्त्रं विधिवत्सुघोरं प्रादुश्चकाराद्भुतमन्तरिक्षे 111a तेनोत्तमास्त्रेण ततो महात्मा सर्वाण्यनीकानि महाधनुष्मान् 111c शरौघजालैर्विमलाग्निवर्णैर्निवारयामास किरीटमाली 112a शिलीमुखाः पार्थधनुःप्रमुक्ता रथान्ध्वजाग्राणि धनूंषि बाहून् 112c निकृत्य देहान्विविशुः परेषां नरेन्द्रनागेन्द्रतुरङ्गमाणाम् 113a ततो दिशश्चानुदिशश्च पार्थः शरैः सुधारैर्निशितैर्वितत्य 113c गाण्डीवशब्देन मनांसि तेषां किरीटमाली व्यथयां चकार 114a तस्मिंस्तथा घोरतमे प्रवृत्ते शङ्खस्वना दुन्दुभिनिस्वनाश्च 114c अन्तर्हिता गाण्डिवनिस्वनेन भभूवुरुग्राश्च रणप्रणादाः 115a गाण्डीवशब्दं तमथो विदित्वा विराटराजप्रमुखा नृवीराः 115c पाञ्चालराजो द्रुपदश्च वीरस्तं देशमाजग्मुरदीनसत्त्वाः 116a सर्वाणि सैन्यानि तु तावकानि यतो यतो गाण्डिवजः प्रणादः 116c ततस्ततः सन्नतिमेव जग्मुर्न तं प्रतीपोऽभिससार कश्चित् 117a तस्मिन्सुघोरे नृपसम्प्रहारे हताः प्रवीराः सरथाः ससूताः 117c गजाश्च नाराचनिपाततप्ता महापताकाः शुभरुक्मकक्ष्याः 118a परीतसत्त्वाः सहसा निपेतुः किरीटिना भिन्नतनुत्रकायाः 118c दृढाहताः पत्रिभिरुग्रवेगैः पार्थेन भल्लैर्निशितैः शिताग्रैः 119a निकृत्तयन्त्रा निहतेन्द्रकीला ध्वजा महान्तो ध्वजिनीमुखेषु 119c पदातिसङ्घाश्च रथाश्च सङ्ख्ये हयाश्च नागाश्च धनञ्जयेन 120a बाणाहतास्तूर्णमपेतसत्त्वा विष्टभ्य गात्राणि निपेतुरुर्व्याम् 120c ऐन्द्रेण तेनास्त्रवरेण राजन्महाहवे भिन्नतनुत्रदेहाः 121a ततः शरौघैर्निशितैः किरीटिना नृदेहशस्त्रक्षतलोहितोदा 121c नदी सुघोरा नरदेहफेना प्रवर्तिता तत्र रणाजिरे वै 122a वेगेन सातीव पृथुप्रवाहा प्रसुस्रुता भैरवारावरूपा 122c परेतनागाश्वशरीररोधा नरान्त्रमज्जाभृतमांसपङ्का 123a प्रभूतरक्षोगणभूतसेविता शिरःकपालाकुलकेशशाद्वला 123c शरीरसङ्घातसहस्रवाहिनी विशीर्णनानाकवचोर्मिसङ्कुला 124a नराश्वनागास्थिनिकृत्तशर्करा विनाशपातालवती भयावहा 124c तां कङ्कमालावृतगृध्रकह्वैः क्रव्यादसङ्घैश्च तरक्षुभिश्च 125a उपेतकूलां ददृशुः समन्तात्क्रूरां महावैतरणीप्रकाशाम् 125c प्रवर्तितामर्जुनबाणसङ्घैर्मेदोवसासृक्प्रवहां सुभीमाम् 126a ते चेदिपाञ्चालकरूषमत्स्याः पार्थाश्च सर्वे सहिताः प्रणेदुः 126c वित्रास्य सेनां ध्वजिनीपतीनां सिंहो मृगाणामिव यूथसङ्घान् 126e विनेदतुस्तावतिहर्षयुक्तौ गाण्डीवधन्वा च जनार्दनश्च 127a ततो रविं संहृतरश्मिजालं दृष्ट्वा भृशं शस्त्रपरिक्षताङ्गाः 127c तदैन्द्रमस्त्रं विततं सुघोरमसह्यमुद्वीक्ष्य युगान्तकल्पम् 128a अथापयानं कुरवः सभीष्माः सद्रोणदुर्योधनबाह्लिकाश्च 128c चक्रुर्निशां सन्धिगतां समीक्ष्य विभावसोर्लोहितराजियुक्ताम् 129a अवाप्य कीर्तिं च यशश्च लोके विजित्य शत्रूंश्च धनञ्जयोऽपि 129c ययौ नरेन्द्रैः सह सोदरैश्च समाप्तकर्मा शिबिरं निशायाम् 129e ततः प्रजज्ञे तुमुलः कुरूणां निशामुखे घोरतरः प्रणादः 130a रणे रथानामयुतं निहत्य हता गजाः सप्तशतार्जुनेन 130c प्राच्याश्च सौवीरगणाश्च सर्वे निपातिताः क्षुद्रकमालवाश्च 130e महत्कृतं कर्म धनञ्जयेन कर्तुं यथा नार्हति कश्चिदन्यः 131a श्रुतायुरम्बष्ठपतिश्च राजा तथैव दुर्मर्षणचित्रसेनौ 131c द्रोणः कृपः सैन्धवबाह्लिकौ च भूरिश्रवाः शल्यशलौ च राजन् 131e स्वबाहुवीर्येण जिताः सभीष्माः किरीटिना लोकमहारथेन 132a इति ब्रुवन्तः शिबिराणि जग्मुः सर्वे गणा भारत ये त्वदीयाः 132c उल्कासहस्रैश्च सुसम्प्रदीप्तैर्विभ्राजमानैश्च तथा प्रदीपैः 132e किरीटिवित्रासितसर्वयोधा चक्रे निवेशं ध्वजिनी कुरूणाम्