001 सञ्जय उवाच 001a ततस्ते पार्थिवाः क्रुद्धाः फल्गुनं वीक्ष्य संयुगे 001c रथैरनेकसाहस्रैः समन्तात्पर्यवारयन् 002a अथैनं रथवृन्देन कोष्टकीकृत्य भारत 002c शरैः सुबहुसाहस्रैः समन्तादभ्यवारयन् 003a शक्तीश्च विमलास्तीक्ष्णा गदाश्च परिघैः सह 003c प्रासान्परश्वधांश्चैव मुद्गरान्मुसलानपि 003e चिक्षिपुः समरे क्रुद्धाः फल्गुनस्य रथं प्रति 004a शस्त्राणामथ तां वृष्टिं शलभानामिवायतिम् 004c रुरोध सर्वतः पार्थः शरैः कनकभूषणैः 005a तत्र तल्लाघवं दृष्ट्वा बीभत्सोरतिमानुषम् 005c देवदानवगन्धर्वाः पिशाचोरगराक्षसाः 005e साधु साध्विति राजेन्द्र फल्गुनं प्रत्यपूजयन् 006a सात्यकिं चाभिमन्युं च महत्या सेनया सह 006c गान्धाराः समरे शूरा रुरुधुः सहसौबलाः 007a तत्र सौबलकाः क्रुद्धा वार्ष्णेयस्य रथोत्तमम् 007c तिलशश्चिच्छिदुः क्रोधाच्छस्त्रैर्नानाविधैर्युधि 008a सात्यकिस्तु रथं त्यक्त्वा वर्तमाने महाभये 008c अभिमन्यो रथं तूर्णमारुरोह परन्तपः 009a तावेकरथसंयुक्तौ सौबलेयस्य वाहिनीम् 009c व्यधमेतां शितैस्तूर्णं शरैः सन्नतपर्वभिः 010a द्रोणभीष्मौ रणे यत्तौ धर्मराजस्य वाहिनीम् 010c नाशयेतां शरैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः 011a ततो धर्मसुतो राजा माद्रीपुत्रौ च पाण्डवौ 011c मिषतां सर्वसैन्यानां द्रोणानीकमुपाद्रवन् 012a तत्रासीत्सुमहद्युद्धं तुमुलं लोमहर्षणम् 012c यथा देवासुरं युद्धं पूर्वमासीत्सुदारुणम् 013a कुर्वाणौ तु महत्कर्म भीमसेनघटोत्कचौ 013c दुर्योधनस्ततोऽभ्येत्य तावुभावभ्यवारयत् 014a तत्राद्भुतमपश्याम हैडिम्बस्य पराक्रमम् 014c अतीत्य पितरं युद्धे यदयुध्यत भारत 015a भीमसेनस्तु सङ्क्रुद्धो दुर्योधनममर्षणम् 015c हृद्यविध्यत्पृषत्केन प्रहसन्निव पाण्डवः 016a ततो दुर्योधनो राजा प्रहारवरमोहितः 016c निषसाद रथोपस्थे कश्मलं च जगाम ह 017a तं विसञ्ज्ञमथो ज्ञात्वा त्वरमाणोऽस्य सारथिः 017c अपोवाह रणाद्राजंस्ततः सैन्यमभिद्यत 018a ततस्तां कौरवीं सेनां द्रवमाणां समन्ततः 018c निघ्नन्भीमः शरैस्तीक्ष्णैरनुवव्राज पृष्ठतः 019a पार्षतश्च रथश्रेष्ठो धर्मपुत्रश्च पाण्डवः 019c द्रोणस्य पश्यतः सैन्यं गाङ्गेयस्य च पश्यतः 019e जघ्नतुर्विशिखैस्तीक्ष्णैः परानीकविशातनैः 020a द्रवमाणं तु तत्सैन्यं तव पुत्रस्य संयुगे 020c नाशक्नुतां वारयितुं भीष्मद्रोणौ महारथौ 021a वार्यमाणं हि भीष्मेण द्रोणेन च विशाम्पते 021c विद्रवत्येव तत्सैन्यं पश्यतोर्द्रोणभीष्मयोः 022a ततो रथसहस्रेषु विद्रवत्सु ततस्ततः 022c तावास्थितावेकरथं सौभद्रशिनिपुङ्गवौ 022e सौबलीं समरे सेनां शातयेतां समन्ततः 023a शुशुभाते तदा तौ तु शैनेयकुरुपुङ्गवौ 023c अमावास्यां गतौ यद्वत्सोमसूर्यौ नभस्तले 024a अर्जुनस्तु ततः क्रुद्धस्तव सैन्यं विशाम्पते 024c ववर्ष शरवर्षेण धाराभिरिव तोयदः 025a वध्यमानं ततस्तत्तु शरैः पार्थस्य संयुगे 025c दुद्राव कौरवं सैन्यं विषादभयकम्पितम् 026a द्रवतस्तान्समालोक्य भीष्मद्रोणौ महारथौ 026c न्यवारयेतां संरब्धौ दुर्योधनहितैषिणौ 027a ततो दुर्योधनो राजा समाश्वस्य विशाम्पते 027c न्यवर्तयत तत्सैन्यं द्रवमाणं समन्ततः 028a यत्र यत्र सुतं तुभ्यं यो यः पश्यति भारत 028c तत्र तत्र न्यवर्तन्त क्षत्रियाणां महारथाः 029a तान्निवृत्तान्समीक्ष्यैव ततोऽन्येऽपीतरे जनाः 029c अन्योन्यस्पर्धया राजल्ँलज्जयान्येऽवतस्थिरे 030a पुनरावर्ततां तेषां वेग आसीद्विशाम्पते 030c पूर्यतः सागरस्येव चन्द्रस्योदयनं प्रति 031a सन्निवृत्तांस्ततस्तांस्तु दृष्ट्वा राजा सुयोधनः 031c अब्रवीत्त्वरितो गत्वा भीष्मं शान्तनवं वचः 032a पितामह निबोधेदं यत्त्वा वक्ष्यामि भारत 032c नानुरूपमहं मन्ये त्वयि जीवति कौरव 033a द्रोणे चास्त्रविदां श्रेष्ठे सपुत्रे ससुहृज्जने 033c कृपे चैव महेष्वासे द्रवतीयं वरूथिनी 034a न पाण्डवाः प्रतिबलास्तव राजन्कथञ्चन 034c तथा द्रोणस्य सङ्ग्रामे द्रौणेश्चैव कृपस्य च 035a अनुग्राह्याः पाण्डुसुता नूनं तव पितामह 035c यथेमां क्षमसे वीर वध्यमानां वरूथिनीम् 036a सोऽस्मि वाच्यस्त्वया राजन्पूर्वमेव समागमे 036c न योत्स्ये पाण्डवान्सङ्ख्ये नापि पार्षतसात्यकी 037a श्रुत्वा तु वचनं तुभ्यमाचार्यस्य कृपस्य च 037c कर्णेन सहितः कृत्यं चिन्तयानस्तदैव हि 038a यदि नाहं परित्याज्यो युवाभ्यामिह संयुगे 038c विक्रमेणानुरूपेण युध्येतां पुरुषर्षभौ 039a एतच्छ्रुत्वा वचो भीष्मः प्रहसन्वै मुहुर्मुहुः 039c अब्रवीत्तनयं तुभ्यं क्रोधादुद्वृत्य चक्षुषी 040a बहुशो हि मया राजंस्तथ्यमुक्तं हितं वचः 040c अजेयाः पाण्डवा युद्धे देवैरपि सवासवैः 041a यत्तु शक्यं मया कर्तुं वृद्धेनाद्य नृपोत्तम 041c करिष्यामि यथाशक्ति प्रेक्षेदानीं सबान्धवः 042a अद्य पाण्डुसुतान्सर्वान्ससैन्यान्सह बन्धुभिः 042c मिषतो वारयिष्यामि सर्वलोकस्य पश्यतः 043a एवमुक्ते तु भीष्मेण पुत्रास्तव जनेश्वर 043c दध्मुः शङ्खान्मुदा युक्ता भेरीश्च जघ्निरे भृशम् 044a पाण्डवापि ततो राजञ्श्रुत्वा तं निनदं महत् 044c दध्मुः शङ्खांश्च भेरीश्च मुरजांश्च व्यनादयन्