001 सञ्जय उवाच 001a ततो व्यूढेष्वनीकेषु तावकेष्वितरेषु च 001c धनञ्जयो रथानीकमवधीत्तव भारत 001e शरैरतिरथो युद्धे पातयन्रथयूथपान् 002a ते वध्यमानाः पार्थेन कालेनेव युगक्षये 002c धार्तराष्ट्रा रणे यत्ताः पाण्डवान्प्रत्ययोधयन् 002e प्रार्थयाना यशो दीप्तं मृत्युं कृत्वा निवर्तनम् 003a एकाग्रमनसो भूत्वा पाण्डवानां वरूथिनीम् 003c बभञ्जुर्बहुशो राजंस्ते चाभज्यन्त संयुगे 004a द्रवद्भिरथ भग्नैश्च परिवर्तद्भिरेव च 004c पाण्डवैः कौरवैश्चैव न प्रज्ञायत किञ्चन 005a उदतिष्ठद्रजो भौमं छादयानं दिवाकरम् 005c दिशः प्रतिदिशो वापि तत्र जज्ञुः कथञ्चन 006a अनुमानेन सञ्ज्ञाभिर्नामगोत्रैश्च संयुगे 006c वर्तते स्म तदा युद्धं तत्र तत्र विशाम्पते 007a न व्यूहो भिद्यते तत्र कौरवाणां कथञ्चन 007c रक्षितः सत्यसन्धेन भारद्वाजेन धीमता 008a तथैव पाण्डवेयानां रक्षितः सव्यसाचिना 008c नाभिद्यत महाव्यूहो भीमेन च सुरक्षितः 009a सेनाग्रादभिनिष्पत्य प्रायुध्यंस्तत्र मानवाः 009c उभयोः सेनयो राजन्व्यतिषक्तरथद्विपाः 010a हयारोहैर्हयारोहाः पात्यन्ते स्म महाहवे 010c ऋष्टिभिर्विमलाग्राभिः प्रासैरपि च संयुगे 011a रथी रथिनमासाद्य शरैः कनकभूषणैः 011c पातयामास समरे तस्मिन्नतिभयङ्करे 012a गजारोहा गजारोहान्नाराचशरतोमरैः 012c संसक्ताः पातयामासुस्तव तेषाञ्च सङ्घशः 013a पत्तिसङ्घा रणे पत्तीन्भिण्डिपालपरश्वधैः 013c न्यपातयन्त संहृष्टाः परस्परकृतागसः 014a पदाती रथिनं सङ्ख्ये रथी चापि पदातिनम् 014c न्यपातयच्छितैः शस्त्रैः सेनयोरुभयोरपि 015a गजारोहा हयारोहान्पातयां चक्रिरे तदा 015c हयारोहा गजस्थांश्च तदद्भुतमिवाभवत् 016a गजारोहवरैश्चापि तत्र तत्र पदातयः 016c पातिताः समदृश्यन्त तैश्चापि गजयोधिनः 017a पत्तिसङ्घा हयारोहैः सादिसङ्घाश्च पत्तिभिः 017c पात्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः 018a ध्वजैस्तत्रापविद्धैश्च कार्मुकैस्तोमरैस्तथा 018c प्रासैस्तथा गदाभिश्च परिघैः कम्पनैस्तथा 019a शक्तिभिः कवचैश्चित्रैः कणपैरङ्कुशैरपि 019c निस्त्रिंशैर्विमलैश्चापि स्वर्णपुङ्खैः शरैस्तथा 020a परिस्तोमैः कुथाभिश्च कम्बलैश्च महाधनैः 020c भूर्भाति भरतश्रेष्ठ स्रग्दामैरिव चित्रिता 021a नराश्वकायैः पतितैर्दन्तिभिश्च महाहवे 021c अगम्यरूपा पृथिवी मांसशोणितकर्दमा 022a प्रशशाम रजो भौमं व्युक्षितं रणशोणितैः 022c दिशश्च विमलाः सर्वाः सम्बभूवुर्जनेश्वर 023a उत्थितान्यगणेयानि कबन्धानि समन्ततः 023c चिह्नभूतानि जगतो विनाशार्थाय भारत 024a तस्मिन्युद्धे महारौद्रे वर्तमाने सुदारुणे 024c प्रत्यदृश्यन्त रथिनो धावमानाः समन्ततः 025a ततो द्रोणश्च भीष्मश्च सैन्धवश्च जयद्रथः 025c पुरुमित्रो विकर्णश्च शकुनिश्चापि सौबलः 026a एते समरदुर्धर्षाः सिंहतुल्यपराक्रमाः 026c पाण्डवानामनीकानि बभञ्जुः स्म पुनः पुनः 027a तथैव भीमसेनोऽपि राक्षसश्च घटोत्कचः 027c सात्यकिश्चेकितानश्च द्रौपदेयाश्च भारत 028a तावकांस्तव पुत्रांश्च सहितान्सर्वराजभिः 028c द्रावयामासुराजौ ते त्रिदशा दानवानिव 029a तथा ते समरेऽन्योन्यं निघ्नन्तः क्षत्रियर्षभाः 029c रक्तोक्षिता घोररूपा विरेजुर्दानवा इव 030a विनिर्जित्य रिपून्वीराः सेनयोरुभयोरपि 030c व्यदृश्यन्त महामात्रा ग्रहा इव नभस्तले 031a ततो रथसहस्रेण पुत्रो दुर्योधनस्तव 031c अभ्ययात्पाण्डवान्युद्धे राक्षसं च घटोत्कचम् 032a तथैव पाण्डवाः सर्वे महत्या सेनया सह 032c द्रोणभीष्मौ रणे शूरौ प्रत्युद्ययुररिन्दमौ 033a किरीटी तु ययौ क्रुद्धः समर्थान्पार्थिवोत्तमान् 033c आर्जुनिः सात्यकिश्चैव ययतुः सौबलं बलम् 034a ततः प्रववृते भूयः सङ्ग्रामो लोमहर्षणः 034c तावकानां परेषां च समरे विजिगीषताम्